खण्डः २ - अध्यायः १०२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
जन्मनक्षत्रगे सोमे सर्वौषधिसमन्वितम्॥
कुम्भं सुपूजितं कृत्वा स्नपनं तेन कारयेत् ॥१॥
स्नातश्चैवार्चयेद्देवं वासुदेवं जगत्पतिम्॥
नक्षत्रदैवतं चन्द्रं नक्षत्रं वारुणं तथा ॥२॥
वायुं चायुधपीठाद्यं छत्रं संपूजयेत्तथा॥
यथोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ॥३ ॥
शक्त्या च दक्षिणा देया ब्राह्मणेभ्यो भृगूत्तम॥
ततोनुलिप्तः सुरभिः स्रग्वी विविधभूषणः ॥४॥
तिष्ठन्मनुजशार्दूल हविष्याशी जितेन्द्रियः॥
उपवासं विनाप्येतत्पवित्रं पापनाशम् ॥५॥
मातृस्थाने तु जगतां जन्मतारा विधीयते॥
चन्द्ररूपी च भगवान्पिता विष्णुः प्रकीर्तितः ॥६ ॥]
तस्मात्सर्वप्रयत्नेन यमनक्षत्रसंस्थितम्॥
भक्त्या तं पूजयेच्चन्द्रं जन्मर्क्षं च विशेषतः ॥७॥
पूजां सदा चन्द्रमसस्तु कृत्वा जन्मर्क्षसंस्थस्य भृगुप्रधान॥
कामानवाप्नोति नरस्तु सर्वान्सुखी सदा स्याद्भुवि नष्टपाप्मा ॥८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने जन्मर्क्षस्नानवर्णनन्नाम द्व्युत्तरशततमोऽध्यायः ॥१०२॥
N/A
References : N/A
Last Updated : December 16, 2022

TOP