खण्डः २ - अध्यायः ०२०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः॥
रथौघमेवनिर्घोषो विधूमश्च हुताशनः ॥१॥
अनुलोमसुगन्धश्च स्वस्तिकाकारसन्निभः॥
वर्धमानाकृतिश्चैव नन्द्यावर्तनिभस्तथा ॥२॥
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः॥
स्वाहावमाने ज्वलनः स्वयं देवमुखं हविः ॥३॥
यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत्॥
हविषस्तु यदा वह्नेर्नस्यात्सिमिसिमायितम् ॥४॥
न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः॥
पिपीलकाश्च धर्मज्ञ तदा भूयाज्जयी नृपः ॥५॥
मुक्ताहारमृणालाभे वह्नौ राज्ञां जयो भवेत्॥
तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि ॥६॥
संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य॥
सर्वाग्निकर्मस्वथ तेन विद्वान्भूयात्त्रिलोके तु जयी द्विजेन्द्र ॥७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : December 06, 2022

TOP