खण्डः २ - अध्यायः १२०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच॥
कर्मणा केन धर्मज्ञ नरा नरकवासिनः॥
कां कां योनिं प्रपद्यन्ते तिरश्चो ब्रूहि तन्मम ॥१॥
पुष्कर उवाच॥
अमेध्यमध्ये कृमयो महापातकिनो जनाः॥
भवन्ति बहुधा भूम्यां ततश्चैव शिलासु ते ॥२॥
तृणगुच्छलतागुल्मद्रुमत्वं प्राप्यते क्रमात्॥
भवन्ति च मृगाः पश्चान्नित्यं व्याधभयार्दिताः ॥३॥
ब्रह्मस्वहारिणो हिंस्रा रौद्राचाराः सदैव तु॥
अटव्यां घोररूपायां जायन्ते ब्रह्मराक्षसाः ॥४॥
परदाररता मूढाः सन्तप्तायां तथा भुवि॥
कृकलासा हि जायन्ते पिशाचाश्चाप्यनन्तरम्॥
अटव्यां घोररूपायां संशुष्कद्रुमकोटरे॥
कृष्णाहयो हि जायन्ते ततः पश्चान्न संशयः ॥६॥
कूटसाक्षिप्रदाः पापास्त्वमेध्ये कृमयश्चिरम्॥
कृत्वा भवन्ति सर्पास्ते पिशाचास्तदनन्तरम् ॥७॥
गुरुमित्रद्रुहः पापा ये च स्वा मिदुहो जनाः॥
द्विजशिष्यद्रुहश्चैव कृतघ्ना नास्तिकास्तथा ॥८॥
त्यागिनो बान्धवानां च त्यागिनः शरणार्थिनाम्॥
निक्षेपहारिणो ये च कन्यकाक्रयिणश्च ये ॥९॥
अमेध्ये कृमयः सर्पा मृगा व्यालमृगास्तथा॥
ततो घोरगणोपेता जायन्ते जम्बुकाः खलाः ॥१०॥
परस्वहारिणः पापाः कुञ्जरास्तुरगाः खराः॥
बलीवर्दास्तथैवोष्ट्रा जायन्ते नात्र संशयः ॥११॥
हृतं यस्य तु तैर्द्रव्यं तस्य भाग्यानुरूपतः॥
आत्मदोषानुसारेण जायन्ते धनिनस्तु ते ॥१२॥
चन्द्रार्कग्रहणे भुक्त्वा जायन्ते कुञ्जरा नराः॥
आमश्राद्धं तथा भुक्त्वा जायन्ते गृध्रयोनिषु ॥१३॥
असत्प्रतिग्रहं राम गृहीत्वा वानरास्तथा॥
आशाभङ्गं तथा कृत्वा शृगालाश्च तथाधमाः ॥१४॥
सूचकस्तु दुराचारो वागुरिर्नाम जायते॥
बहु कालं महाभाग भूयोभूय इति श्रुतिः ॥१५॥
मांसभुग्यावतां राम मांसमश्नाति देहिनाम्॥
तावतां योनिमाप्नोति भूयोभूयो न संशयः ॥१६॥
भोक्तव्यानि च तैस्तस्य राम मांसान्यसंशयम्॥
यावन्तः प्राणिनो येन बहिर्वेद्यां निपातिताः ॥१७॥
तावत्यो योनयस्तेन गन्तव्या भृगुसत्तम॥
योनौयोनौ च हन्तव्यस्तेनासौ नात्र संशयः ॥१८॥
वान्ताशी गुणपाशी च पूयभुग्रुधिराशिनः॥
स्वकर्मविच्युता वर्णा जायन्ते प्रेतयोनिषु ॥१९॥
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः॥
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥२०॥
मांसं गृध्रो वसां मद्गुस्तैलं तैलापगः खगः॥
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥२१॥
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा च दर्दुरः॥
कर्पासं तान्तवं क्रौञ्चं गां गोधा वागुदो गुडम् ॥२२॥
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं शिखी तथा॥
मक्षिकास्तु तथैवान्नमकृतान्नं तु शल्यकः ॥२३॥
भेको भवति हृत्त्वाग्निं गृहहारी च तस्करः॥
रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥२४॥
वृको मृगेभं व्याघ्राश्वं फलपुष्पं तु मर्कटः॥
स्त्रियं हृत्वा भवेद्यक्षो यानमुष्ट्रः पशूनजः ॥२५॥
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः॥
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥२६॥
तिर्यक्षु दुःखं परमं विदित्वा पापानि वर्ज्यानि नरेण नित्यम्॥
भक्तिश्च कार्या मधुसूदनस्य तया स दुःखं सकलं जहाति ॥२७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० रामं प्रति पुष्करोपाख्याने तिर्यग्योनिवर्णनन्नाम विंशत्युत्तरशततमोऽध्यायः ॥१२०॥
N/A
References : N/A
Last Updated : December 20, 2022
TOP