खण्डः २ - अध्यायः ०४२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन॥
गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ॥१॥
गावो वितन्वते यज्ञं गावो विश्वस्य मातरः॥
शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ॥२॥
तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता॥
उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ॥३॥
गवां मूत्रपुरीषेषु ष्ठीवनाद्यं न सन्त्यजेत्॥
गोरजः परमं पुण्यमलक्ष्मीविघ्ननाशनम् ॥४॥
गवां कण्डूयनं चैव सर्वकल्मषनाशनम्॥
तासां शृङ्गोदकश्चैव जाह्नवीजलसन्निभम् ॥५॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च रोचनम्॥
षडङ्गमेतन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ॥६॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्॥
पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥७॥
रक्षोघ्नमेतन्माङ्गल्यं कलिदुःखप्रणाशनम्॥
रोचना च तथा धन्या रक्षोरगगदापहा॥
यस्तु कल्ये समुत्थाय मुखमाज्ये निरीक्षते॥
तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ॥९॥
गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते॥
यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ॥१०॥
धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत्॥
दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ॥११॥
नरकं समवाप्नोति नात्र कार्या विचारणा॥
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ॥१२॥
शैशिरं सकलं कालं ग्रासं परगवे तथा॥
दत्त्वा स्वर्गमवाप्नोति संवत्सरशतानि षट् ॥१३॥
अग्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम्॥
मासषट्केन लभते नाकलोकं समायुतम् ॥१४॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्॥
तत्रैवमशनं दत्त्वा गवां नित्यमतन्द्रितः ॥१५॥
द्वितीयं यः समश्नाति तेन संवत्सरान्नरः॥
गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ॥१६॥
गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः॥
वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम्॥
परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ॥१७॥
गवां प्रचारभूमिं तु वाहयित्वा हलादिना॥
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश ॥१६॥
गवां पानप्रवृतानां यस्तु विघ्नं समाचरेत॥
ब्रह्महत्या कृता तेन घोरा भवति भार्गव॥
सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ॥१९॥
गामुद्धृत्य नरः स्वर्गे कल्पभोगानुपाश्नुते॥
गवां यवसदानेन रूपवानभिजायते ॥२०॥
सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम॥
औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ॥२१॥
औषधं लवणं तोयमाहारं च प्रयच्छतः॥
विपत्तौ पातकं नास्य भवत्युद्बन्धनादिकम ॥२२॥
वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे॥
तत्रापि तन्नियुक्तश्च कश्चिदन्यो न चेद्भवेत् ॥२३॥
तासां चेदविरुद्धानां चरन्तीनां मिथो वने॥
यामुत्पत्य वृको हन्यान्नपालस्तत्र किल्बिषी ॥२४॥
संरुद्धासु तथैवासु वृकः पाले त्वनायति॥
यामुत्पत्य वृको हन्यात्पाले तत्किल्बिषं भवेत ॥२५॥
गोवधेन नरो याति नरकानेकविंशतिम्॥
तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ॥२६॥
विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते॥
तासां च कीर्तनादेव नरः पापाद्विमुच्यते ॥२७॥
तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम्॥
दानेन च तथा तासां कुलान्यपि समुद्धरेत् ॥२८॥
उदक्या सूतिको दोषो नैव तत्र गृहे भवेत्॥
भूमिदोषास्तथान्येऽपि यत्रैका वसते तु गौः ॥२९॥
गवां निश्वासवातेन परा शान्तिर्गृहे भवेत॥
नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ॥३०॥
गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम्॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥३१॥
एकरात्रोपवासं च श्वपाकमपि शोधयेत्॥
पृथक्त्वप्रत्ययाभ्यस्तमतिसन्तपनं स्मृतम् ॥३२॥
सर्वाशुभविमोक्षाय पुरा चरितमीश्वरेः॥
प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ॥३३॥
सर्वकामप्रदं राम सर्वाशुभविनाशनम्॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥३४॥
निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ॥३५॥
त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम्॥
तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ॥३६॥
शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः प्रकीर्तितः॥
सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ॥३७॥
गोमूत्रेण चरेत्स्नानं वृत्तिं कुर्यात्तु गोरसैः॥
उत्थितामुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ॥३८॥
अभुक्तवत्सु नाश्नीयादपीतासु च नो पिबेत्॥
त्राणं तु रामाकृत्वैव तथा देवे प्रवर्षति ॥३९॥
त्राणं नैवात्मनः कार्यं भया र्त्ताश्च समुद्धरेत्॥
आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ॥४०॥
सर्वपापप्रशमनं मासेनैकेन भार्गव॥
व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ॥४१॥
अभीष्टमथ वा राम यावदिन्द्राश्चतुर्दश॥
गवां निर्हारनिर्मुक्तानश्नन्प्रतिदिनं यवान् ॥४२॥
मासेन तदवाप्नोति यत्कि ञ्चिन्मनसेच्छति॥
गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ॥४३॥
गोलोकमाप्नोति नरो नात्र कार्या विचारणा॥
उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ॥४४॥
निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि॥
विमानेषु विचित्रेषु वृतेष्वप्सरसां गणैः ॥४५॥
किङ्किणी जालचित्रेषु वीणामुरजनादिषु॥
सदा कामजला नद्यः क्षीरपायसकर्दमाः ॥४६॥
शीतलामलपानीयाः सुवर्णसिकतास्तथा॥
पुष्करिण्यः शुभास्तत्र वैडूर्यकमलोत्पलाः ॥४७॥
मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम॥
तञ्च लोकं नरा यान्ति गवां भक्त्या न संशयः ॥४८॥
गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम्॥
तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ॥४९॥
गावः सुरभयो नित्यं गावो गुग्गु लुगन्धिकाः॥
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ॥५०॥
अन्नमेव परं गावो देवानां हविरुत्तमम्॥
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥५१॥
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि॥
ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ॥५२॥
सर्वेषामेव भूतानां गावः शरणमुत्तमम्॥
गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ॥५३॥
गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः॥
ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥५४॥
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः॥
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ॥५५॥
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति॥
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ॥५६॥
धार्यते वै सदा तस्मात्सर्वे पूज्यतमा सदा॥
यत्र तीर्थे सदा गावः पिबन्ति तृषि ता जलम्॥
उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ॥५७॥
गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा तद्रजसि प्रवृद्धा॥
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥५८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं शत्तमोऽध्यायः ॥४२॥
N/A
References : N/A
Last Updated : December 08, 2022
TOP