खण्डः २ - अध्यायः ०८३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥राम उवाच॥
काम्यं कर्म समाचक्ष्व वाणिज्यं येन शुध्यति॥
कृषिं च बहुलां चैव कर्मणा केन चाश्नुते ॥१॥
॥पुष्कर उवाच॥
मूलेनोपोषितः कुर्यादिदं कर्म पुरोहितः॥
उपोषितस्य धर्मज्ञ जयमानस्य नित्यशः ॥२॥
प्राप्तामुत्तरषाढासु प्राङ्मुखं स्नापयेन्नरम्॥
युक्तैर्वेतसमूलेन शङ्खमुक्ताफलैस्तथा ॥३॥
मणिभिश्च यथालाभं कनकेन तथैव च॥
अकालमूलैः कलशैश्चतुर्भिर्भृगुनन्दन ॥४॥
नवैस्तु पूजयेद्देवं शङ्खचक्रगदाधरम्॥
पूर्वाषाढां तथैवाऽपो वरुणं च निशाकरम् ॥५॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ॥६॥
नीलवासावृतो भूत्वा क्षिपेदप्सु समाहितः॥
नीलानि राम वासांसि पयांसि विविधानि च ॥७॥
तदा मंथं सुरां चैव मैरेयं विविधं तथा॥
शुक्लानि चैव माल्यानि धूपं दद्यात्तु कम्बुना ॥८॥
तिम्यस्थि मकरादस्थि शङ्खमुक्ताफले तथा॥
सुवर्णान्तरितं कृत्वा धारयेच्च तथा मणिम् ॥९॥
कृत्वैतत्सिद्धिमाप्नोति वाणिज्ये नात्र संशयः॥
समुद्रयाने च तथा कान्तारे न विषीदति॥ ॥१०॥
नीलानि राम वासांसि दक्षिणा चात्र शस्यते॥
शङ्खं सुवर्णं रूप्यं च तथा मुक्ताफलानि च ॥११॥
होत्रे कर्त्रे द्विजेभ्यश्च सर्वमेतद्विधीयते॥
ब्राह्मणान्भोजयेच्चात्र परमान्नं तु संस्कृतम् ॥१२॥
अलंघयन्नित्यमथाप्यमृक्षं करोति कर्मैतदतन्द्रितात्मा॥
न जातु लाभाद्विनिवर्ततेऽसौ समुद्रमार्गादिव निम्नगा वै ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पूर्वाषाढास्नानवर्णनो नाम त्र्यशीतितमोऽध्याय ॥८३॥
N/A
References : N/A
Last Updated : December 09, 2022
TOP