खण्डः २ - अध्यायः ०३१
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
दुर्गे सर्वगुणोपेते वास्तुलक्षणसंयुते॥
वसन्विवर्धयेत्कोशं धर्मेण पृथिवीपतिः ॥१॥
प्रजानां पालनं कार्यं तत्र स्थाने महीक्षिता॥
स्वदेशे देवतायाश्च कृता राज्ञः पुरातनैः ॥२॥
दायं वित्तं जनं तासां प्रयत्नेन च पालयेत्॥
देवद्रव्यापहारेण राजा नरकमृच्छति ॥३॥
अस्मिन्नपि तथा लोके प्राप्नोति च पराभवम्॥
पालयन्ति महीं देवाः पूजिताः पृथिवीक्षिता ॥४॥
दैवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव॥
धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः ॥५॥
रत्नानुसम्प्रदानैश्च पूजनीयाः सुरोत्तमाः॥
पूजिताः पूजयन्त्येते चायुषा यशसा श्रिया ॥६॥
प्राप्यते देवताभक्त्या चानुष्ठाने महत्पदम्॥
पूजिताः संप्रयच्छन्ति कामान्नृणामभीप्सितान् ॥७॥
एकमप्याश्रितो देवं राजा भार्गवनन्दन॥
सर्वासां पूजनं कुर्याद्देवतानामसंशयम् ॥८॥
देवतानां न चोच्छिन्द्यात्पूर्वदायं कथञ्चन॥
प्राक्स्थितं तन्न चोच्छिंद्यान्न च च्छिंद्यात्तथा नवम् ॥९॥
तच्छेत्ता नरकं याति सह पूर्वैः पितामहैः॥
अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥१०॥
स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत्॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥११॥
देवद्रव्यापहरणान्नरकं प्रतिपद्यते॥
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भार्गव ॥१२॥
दर्शयन्ति रुषं सौम्य राज्यभ्रंशादिभिर्नृणाम्॥
अस्मिँल्लोके रुषं क्रूरां नैव कुर्वन्ति देवताः ॥१३॥
तासां वित्तापहरणाद्राजा नरकमृच्छति॥
पूर्वैः पितामहैस्सार्धं प्रागुक्तं फलमेव तु ॥१४॥
देवद्रव्यापहरणं नैव जातु भवेद्वृथा॥
सर्वस्वरहितान्कृत्वा देवद्रव्यापहारिणः ॥१५॥
अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत्॥
त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ॥१६॥
तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः॥
तेषां सहायकः स्वामी निग्रहानुग्रही भवेत् ॥१७॥
रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत्॥
दण्डं च देवतागामि देवद्रव्यस्य सूचकम् ॥१८॥
सर्वान्विवासयेद्राजा धार्मिको धर्मकारणात्॥
राज्ञा सर्वप्रयत्नेन पालनीयाः सुरालयाः ॥१९॥
कर्तव्याश्च महाभाग सुरलोकमभीप्सता॥
देवतास्तु प्रतिष्ठाप्य तल्लोकं ध्रुवमाप्नुयात ॥२०॥
कृत्वा देवगृहं शुभ्रं स्वर्गमाप्नोत्यनुत्तमम्॥
तदा भोगप्रमाणेन लक्ष्मीस्तत्रापि भार्गव ॥२१॥
मृत्प्रासादाद्दशगुणं स्थूलदारुकृते भवेत्॥
फलं दशगुणं तस्मात्तथा पक्वेष्टकाकृते ॥२२॥
तस्माद्दशगुणं शैले नात्र कार्या विचारणा॥
यावत्संख्यं नरः कुर्याद्देववेश्म सुधासितम् ॥२३॥
तावज्जन्मान्तराणीह यशसा स विराजते॥
कृत्वा च चित्रविन्यासं गन्धर्वैः सह मोदते ॥२४॥
कृत्वा संशोधनं तत्र विरोगः समपद्यते॥
प्रोक्षयित्वा मनस्तापान्मानवः प्रतिमुच्यते ॥२५॥
कृत्वोपलेपनं राम नाकमाप्नोत्यनुत्तमम्॥
गान्धर्वलोकमाप्नोति कृत्वा वर्णकरञ्जितम् ॥२६॥
गन्धैः समुक्षितं कृत्वा गन्धर्वैस्सह मोदते॥
उपकारप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥२७॥
गीतवाद्यप्रदानेन सुखमाप्नोत्यनुत्तमम्॥
प्रेक्षणीयप्रदानेन रूपवानभिजायते ॥२८॥
तथा औज्ज्वल्यमाप्नोति यत्रयत्राभिजायते॥
स्नापयित्वा घृतेनार्चां सर्वपापैः प्रमुच्यते ॥२९॥
स्नापयित्वा च तैलेन विरोगः समपद्यत॥
अम्बुना स्नापयित्वा तु सौभाग्यमधिगच्छति ॥३०॥
विरूक्षयित्वा तां राम पापं जहति मानवाः॥
अनुलेपनदानेन रूपमाप्नोत्यनुत्तमम् ॥३१॥
तथा पुष्पप्रदानेन श्रियमाप्नोत्यनुत्तमाम्॥
धूपदानेन धर्मज्ञ रतिमाप्नोति शोभनाम् ॥३२॥
तथा दीपप्रदानेन चक्षुष्मानभिजायते॥
अन्नदः सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥३३॥
पानकानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम॥
वसुदो रूपमाप्नोति रूपमाप्नोति रूप्यदः ॥३४॥
रुक्मदस्सर्वमाप्नोति श्रियमाप्नोति सर्वदः॥
छत्रदः स्वर्गमाप्नोति तालवृन्तप्रदो दिवम् ॥३५॥
चामराणां प्रदानेन राजा भवति धार्मिकः॥
पताकायाः प्रदानेन सर्वपापान्व्यपोहति ॥३६॥
ध्वजदानेन लोकेऽस्मिन्ध्वजभूतो भवेन्नरः॥
नानाविधानां भोगानां तथा राम प्रदायकः ॥३७॥
तानेव भोगानाप्नोति सर्वमाप्नोति भूमिदः॥
देवमाल्यापनयनाद्गोदानफलमाप्नुयात् ॥३८॥
तदाहुतिप्रदानेन तल्लोकमभिपद्यते॥
नमस्कारप्रणामाभ्यामेनोभिः प्रतिमुच्यते ॥३९॥
प्रदक्षिणं तथा कृत्वा भवत्याचारवारन्नरः॥
स्तुत्वा च देवतां राम मनोदुःखात्प्रमुच्यते ॥४०॥
सन्तर्पयित्वा तोयेन तृप्तिं समधिगच्छति॥
तस्मात्सर्वप्रयत्नेन विशुद्धेनान्तराप्मना ॥४१॥
अर्चास्थाः पूजयेत्सर्वा देवता भूरिदर्शन॥
तदाश्रितांश्च युञ्जीत तदा तद्विधिपारगान् ॥४२॥
तत्पूजने तथा राम तांश्च सम्पूजयेत्सदा॥
ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने ॥४३॥
यस्य राज्ञस्तु विषये देववेश्म विशीर्यते॥
तस्य सीदति तद्राष्ट्रं देववेश्म यथा तथा ॥४४॥
संस्कारं लम्भयेद्यस्तु देववेश्म पुरातनम्॥
स च सौख्यमवाप्नोति यत्रयत्राभिजायते ॥४५॥
वापीकूपतडागानां सदा त्रिदशवेश्मनाम्॥
भूयः संस्कारकर्ता च लभते मुक्तिजं फलम् ॥४६॥
देवसम्पूजनाद्राम वृद्धिं समुपगच्छति॥
राज्ञस्तु विषये यस्य पूज्यन्ते सततं सुराः ॥४७॥
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः॥
राक्षसाश्च पिशाचाश्च रिपवश्च सुदारुणाः ॥४८॥
ईतयश्च तथैवान्या न भवन्ति द्विजोत्तम ॥४९॥
तस्मात्प्रयत्नेन सदा नरेन्द्रैः पूजा विधेया विषये सुराणाम्॥
सुरार्चनात्पूतसमस्तपापास्स्वर्गं क्षितीशाश्चिरमाप्नुवन्ति ॥५०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सुरपूजामाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : December 07, 2022
TOP