खण्डः २ - अध्यायः १६३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच ॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविदां वर॥
यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥१॥
पुष्कर उवाच॥
यदा मन्येत नृपतिराक्रन्देन बलीयसा॥
पार्ष्णिग्राहेभिभूणा तं तदा यात्रां प्रयोजयेत ॥२॥
पुष्टा मेद्य भृता भृत्या प्रभूतञ्च बलं मम॥
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥३॥
पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत्॥
चैत्रं वा मार्गशीर्षं वा यात्रां यायान्नराधिपः ॥४॥
चैत्र्यां सस्यं हि नंदाद्यं हन्ति पुष्टिं च शारदम्॥
एतदेव विपर्यस्तं मार्गशीर्ष्यां नराधिपः ॥५॥
शत्रोर्वा व्यसने यायात्काल एव सुदुर्लभः॥
दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं भृशम् ॥६॥
षडृक्षपीडनात्तृप्तं पीडितं च तथा ग्रहैः॥
प्रज्वलन्ति तथैवोल्का दिशं यस्य प्रपद्यते ॥७॥
भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत्॥
निर्घातः श्रूयते यत्र तां यायाद्वसुधाधिपः ॥८॥
स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम्॥
सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः ॥९॥
यूकामक्षिकबहुलं बहुविघ्नं तथा बिलम्॥
नास्तिकं भिन्नमर्यादं तथा मङ्गलवादि च ॥१०॥
अपेतप्रकृतिं चैव निराशं च तथा जयेत्॥
विष्टिनायककं सैन्यं तथा भिन्नपरस्परम् ॥११॥
व्यसनासक्तनृपतिं बलं राजा नियोजयेत्॥
गच्छेत्तु पश्चाद्धर्मज्ञ पुरस्तात्तु विगर्हितैः ॥१२॥
क्व यासि तिष्ठ मागच्छ किं तत्र गमनस्य च॥
अन्ये शब्दाश्च ये दृष्टास्ते विपत्तिकरा अपि ॥१३॥
ध्वाजादिषु तथा स्नानं क्रव्यादानां विगर्हितम्॥
स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ॥१४॥
विनिर्गतश्च द्वाराद्यैः शिरसश्चाभिघातनम्॥
छत्रध्वजादिवस्त्राणां पतनं च तथाशुभम् ॥१५॥
दृष्ट्वा निमित्तं प्रथमममङ्गल्यं विनाशनम्॥
केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ॥२६॥
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम्॥
अथेष्टानि प्रवक्ष्यामि मङ्गल्यानि तथानघ ॥१७॥
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भं तथैव च॥
जलजानि च मत्स्यानि मांसं मत्स्याश्च भार्गव ॥१८॥
गावस्तुरङ्गमा नागा बद्ध एकः पशुस्ततः॥
त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥१९॥
गणिकाश्च महाभागाः पूर्वाचार्यादिगोमयम्॥
रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥२०॥
औषधानि च सर्वज्ञ वचासिद्धार्थके तथा॥
नृवर्धमानं यानं च भद्रपीठं तथैव च ॥२१॥
खड्गं छत्रं पताकां च मृदमायुधमेव च॥
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ॥२२॥
घृतं दधि पयश्चैव फलानि विविधानि च॥
स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम् ॥२३॥
नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च॥
अक्षताश्च तथा मुख्यास्तथा दर्पणमेव च ॥२४॥
अञ्जनं रोचनं चैव शृङ्गारो माक्षिकं तथा॥
शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः ॥२५॥
वादित्राणां मुखः शब्दो गम्भीरश्च मनोहरः॥
गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः ॥२६॥
वायुः सशर्करो रूक्षः स च दिग्भ्यः समर्थितः॥
प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्द्विज ॥२७॥
अनुकूलो मृदुस्निग्धः सुखस्पर्शः सुखावहः॥
ऋक्षा ऋक्षस्वराः खङ्गाः क्रव्यादाश्च विगर्हिताः ॥२८॥
मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः॥
अनुलोमा तडिच्छस्ता शक्रश्चापं तथैव च ॥२९॥
अप्रशस्ते तथाज्ञेये पीरवेशप्रवर्षणे॥
अनुलोमा ग्रहः शस्ता दिक्पतिस्तु विशेषतः ॥३०॥
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम्॥
शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥३१॥
मनसस्तुष्टिरेवात्र परमं जयलक्षणम्॥
एकतः सर्वलिङ्गानि मनस्तुष्टिरथैकतः ॥३२॥
यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो मनसः प्रसादः॥
माङ्गल्यलब्धिश्रवणं च राम ज्ञेयानि नित्यं विजयावहानि ॥३३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० यात्राशकुनवर्णनं नाम त्रिषष्ट्युत्तरशततमोध्यायः ॥१६३॥
N/A
References : N/A
Last Updated : December 21, 2022
TOP