खण्डः २ - अध्यायः १५५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे॥
प्रागुदक्प्रवणे देशे शक्रार्थं भवनं शुभम् ॥१॥
वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च॥
ततः शक्रध्वजस्थानं मध्ये संस्थाप्य यत्नतः ॥१॥
मघवन्तं पटं कुर्यात्तस्य भागे तु दक्षिणे ॥३॥
वामभागे पटे कुर्याच्छचीं देवीं तथैव च॥
प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात् ॥४॥
तयोस्तु पूजा कर्तव्या सततं वसुधाधिपैः॥
वनप्रवेशविधिना शक्रयष्टिं ततो नृप ॥५॥
आनयेद्गोरथेनाथ वायवैः पुरुषैरथ॥
अर्जुनस्याजकर्णस्य प्रियकस्य वचस्य च ॥६॥
सुरदारुणश्च तथा तथैवोदुम्बरस्य च॥
चन्दनस्याथ वा राम पद्मकस्याथ वा यदि ॥७॥
अलाभे सर्वकाष्ठानां यष्टिं कुर्वीत वैणवीम्॥
सुवर्णनद्धां धर्मज्ञ तां च सम्यक्प्रवेशयेत् ॥८॥
प्रोष्ठपादसिते पक्षे अष्टम्यां रिपुसूदन॥
क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप ॥९॥
चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा॥
अष्टाभिश्च तथा मूले छित्त्वा तोये यथा क्षिपेत् ॥१०॥
यायादुद्धृत्य नगरं सम्यगेव प्रवर्तते॥
तस्याः प्रवेशे नगरं पताकाध्वजमालि च ॥११॥
सिक्तराजपथं कुर्यात्तथालंकृतबालकम्॥
नटनर्तकसङ्कीर्णं तथा पूजितदैवतम् ॥१२॥
सम्पूजितगृहं राम तथा पूजितवानयम्॥
पौरैरनुगतो राजा सुवंशैः फलपाणिभिः ॥१३॥
अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत्॥
प्राक्छिरास्तां ततः कुर्याद्वस्त्रैः संच्छादितां शुभैः ॥१४॥
पूजितां पूजयेत्तान्तु यावत्सा द्वादशीफलम्॥
एकादश्यां सोपवासो नृपः कुर्यात्प्रजागरम् ॥१५॥
सांवत्सरेण सहितो मन्त्रिणा सपुरोधसा॥
रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥१६॥
स्थानेस्थाने महाभाग देया प्रेक्ष्या तथा मधु॥
पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ॥१७॥
द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः॥
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥१८॥
सुयंत्रितं तु तं कुर्याद्गृहं स्तम्भचतुष्टयम्॥
पूजयेत्तन्महाभाग गन्धमाल्यान्नसम्पदा ॥१९॥
नित्यं च पटयोः पूजा यष्टिपूजां च कारयेत्॥
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥२०॥
नित्यं च जुहुयान्मन्त्रान्पुरोधाः शाक्रवैष्णवान्॥
नित्यं नृत्येन गीतेन तथा शक्रं च पूजयेत् ॥२१॥
द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः॥
विशेषेण च धर्मज्ञ सांवत्सर पुरोहितौ ॥२२॥
उत्थाने च प्रवेशे च शक्रभूयान्नराधिपः॥
वक्ष्यमाणेन मन्त्रेण कालवित्सपुरोहितः ॥२३॥
पूजयेदुत्थितं केतुं भूषणैर्विविधैरपि॥
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ॥२४॥
एवं सम्पूजयेद्राम तदा दिनचतुष्टयम्॥
पञ्चमे दिवसे प्राप्ते शुक्रकेतुं विसर्जयेत् ॥२५॥
पूजयित्वा महाभाग बलेन चतुरङ्गिणा॥
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ॥२६॥
वाद्यघोषेण महता संगीतं तत्र कीर्तितम्॥
पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि॥
उत्सवं च तथा कार्यं जलतीरगतैर्महत् ॥२७॥
एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम्॥
नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथम् ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्सववर्णनो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥१५५॥
N/A
References : N/A
Last Updated : December 20, 2022

TOP