खण्डः २ - अध्यायः ०४९
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
अतः परं प्रवक्ष्यामि कुञ्जराणां चिकित्सितम्॥
पाकलेषु तु सर्वेषु कर्तव्यमनुवासरम् ॥१॥
घृततैलपरीषेकः स्थानं वातविवर्जितम्॥
स्कन्धेषु च तथा कार्या क्रिया पाकलवद्द्विज ॥२॥
गोमूत्रं पाण्डुरोगे तु रजनीभिर्युतं हितम्॥
आनाहे तैलसिक्तस्य निवातस्थं प्रशस्यते ॥३॥
लवणैः पञ्चभिर्मिश्रा प्रतिपानाय वारुणी॥
विडङ्गत्रिफलाव्योषसैन्धवैः कवलाः कृताः ॥४॥
मूर्च्छास्वभोजयेन्नागं क्षौद्रतोयं तु पाययेत्॥
अभ्यङ्गः शिरसः कार्यो नस्यश्चैव प्रशस्यते ॥५॥
नागानां स्नेहकटुकैः पादरोगानुपक्रमेत्॥
पञ्चकल्ककषायेण शोधनं च विधीयते ॥६॥
मन्दनं कार्यं मृदुस्निग्धं च भोजयेत्॥
शिखितित्तिरलावानां पिप्पलीमरिचान्वितैः ॥७॥
रसैः सम्भोजयेन्नागं वेपधुर्यस्य जायते॥
बालबिल्वं तथा रोध्रं धातुकीं वितुषा सह ॥८॥
अतीसारविनाशाय पिण्डं भुञ्जीत कुञ्जरः॥
नस्यं करग्रहे देयं घृतं लवणसंयुतम् ॥९॥
मागधी मरिचाढ्या च यवागुर्मस्तुसाधितः॥
तत्कर्णके च दातव्यं वाराहं च तथा रसम् ॥१०॥
दशमूलकुलत्थाम्ल काकमाची विपाचितम्॥
तैलमूषणसंयुक्तं गलग्रहगदापहम् ॥११॥
अष्टभिर्लवणैः पिष्टैः प्रसन्नां पाययेद्युताम्॥
मूत्रसंघेऽथवा बीजं क्वथितं त्रपुसस्य च ॥१२॥
त्वग्दोषेषु पिबेन्निम्बं वृषं वा क्वथितं द्विपः॥
गवां मूत्रं विडङ्गानि कृमिदोषेषु शस्यते ॥१३॥
शृङ्गबेरकणाद्राक्षाशर्कराभिः शृतं पयः॥
क्षतक्षयहरं पानात्तथा मांसरसः शुभः ॥१४॥
मुद्गोदनं व्योषयुतं ह्यरुचौ च प्रशस्यते॥
द्रोणिकाशान्तये यूषं पटोलीनिम्बदुर्गजम् ॥१५॥
त्रिवृद्योषाग्निदन्त्यर्कश्यामक्षीरेभपिप्पली॥
एष गुल्महरः स्नेहः कृतश्चैव तथासवः ॥१६॥
क्षीरवृक्षनदीजम्बुमल्लकीनां त्वचः शुभाः॥
हृद्रोगशान्तये देया विदार्यश्च रसोदनात् ॥१७॥
भेदनश्रावाणभ्यङ्गस्नेहपानानुवासनैः॥
सर्वानेव समुत्पन्नान्विद्रवेत्समुपाचरेत् ॥१८॥
यष्टिकं मुद्गयूषेण शारदेषु तथा पिबेत्॥
बालबिल्वैस्तथा लेपः कटिरोगेषु शस्यते ॥१९॥
विडंगेन्द्रयवा हिङ्गुसरलं रजनीद्वयम्॥
पूर्वाह्णे दापयेत्पिण्डं सर्वशूलोपशान्तये ॥२०॥
भारेण चलितं दन्तं कुञ्जरस्य समुद्धरेत्॥
प्रधाना भोजने तेषां यष्टिकाव्रीहिशालयः ॥२१॥
मध्यमौ यवगोधूमौ शेषाः प्रत्यवराः स्मृताः॥
विधौ योगे प्रयत्नेन दग्धिकां तु विवर्जयेत् ॥२२॥
यवसेषु तथैवेक्षुर्नागानां बलवर्धनम्॥
नागानां यवसं शुष्कं कफवातप्रकोपनम् ॥२३॥
मदक्षीणस्य नागस्य पयःपानं प्रशस्यते॥
जीवनीयैस्तथा द्रव्यैः शृतो मांसरसः शुभः ॥२४॥
मदवृद्धिकरान्योगान्वक्ष्याम्यहमतः परम्॥
रणकाले समापन्ने यान्राजा संप्रयोजयेत् ॥२५॥
वायसः कुरवश्चोभौ काकोली नाकुली हरिः॥
भवेत्क्षौद्रेण संयुक्तः पिण्डः सद्यः प्रभेदनः ॥२६॥
जातिभंगं समूलश्च कपोतत्वक्तथेङ्गुदी॥
अश्वसारकभङ्गश्च पिण्डोऽयमपरस्तथा ॥२७॥
अजशृङ्ग्यर्कमूलाभ्यां सकुञ्जमधुसंयुतः॥
मधुमिश्रोप्ययं पिण्डः पुष्पमूलफलान्वितः ॥२८॥
युद्धकालेऽत्र नागस्य कर्तव्या मदवर्धिनी॥
कटुमत्स्या विडङ्गानि क्षारः कोशातकी पयः ॥२९॥
हरिद्रा चेति धूपोऽयं कुञ्जरस्य जयावहः॥
पिप्पल्यः श्वेतलशुनं हरितालं मनःशिला ॥३०॥
अश्वमूत्रोषितो धूपः स्यात्सूर्यपरिशोषितः॥
मार्द्वीकं कटुमत्स्याश्च तथा कटुकरोहिणी ॥३१॥
आभयं च त्रयः शैलं धूपोऽयमपरः शुभः॥
अग्निकः सर्ववर्णश्च पीलुरित्येष दीपनः ॥३२॥
प्रदेयः कवलो युद्धे मनुष्यास्थिप्रधूपितः॥
जीर्णे विधानो देयः स्यात्पिण्डश्च तृट्क्षयङ्करः ॥३३॥
पिप्पली तण्डुलस्तैलं मार्द्वीकं माक्षिकं तथा॥
नेत्रयोः परिषेकोऽयं दीपनीयः प्रशस्यते ॥३४॥
पुरीषं वृश्चिकायाश्च तथा पारावतस्य च॥
क्षीरवृक्षकरीराश्च प्रपन्नाविष्टमञ्जनम् ॥३५॥
अनेनाञ्जितनेत्रस्तु करोति कदनं रणे॥
उत्पलानि च नीलानि मुस्तं तगरमेव च ॥३६॥
तण्डुलोदकपिष्टानि नेत्रनिर्वापणं परम्॥
प्रवृद्धये नदीजानां पञ्चमेऽब्दे वनौकसाम् ॥३७॥
दन्तमूलपरीणाहाद्विगुणात्कल्पयेत्परम्॥
वनेवृद्धैर्न्नवे च्छेदः कर्तव्यश्च तदा भवेत् ॥३८॥
शय्यास्थानं भवेच्चास्य करीषैः पांसुभिस्तथा॥
तैलावसेकः शीते स्यान्मासिमासि तथैव च ॥३९॥
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते॥
राज्यद्विपादभ्यधिकां तु शोभां नागस्य चान्यस्य न जातु कुर्यात्॥
शोभाविधानं त्वधिकं सदैव राज्यद्विपस्यैव नृपस्तु कुर्यात् ॥४०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने हस्तिचिकित्सा नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥
N/A
References : N/A
Last Updated : December 08, 2022
TOP