खण्डः २ - अध्यायः १३०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच ॥
पुरा धर्माणि प्रोक्तानि ब्रह्मचारिगृहस्थयोः॥
कर्माण्युक्तानि च ब्रूहि शिष्टमप्याश्रमद्वयम् ॥१॥
(गृहस्थधर्मानाश्रित्य काम्यानि सुरसत्तम॥
कर्माणि तानि मे ब्रूहि शिष्टान्यप्याश्रमद्वये ॥२॥
पुष्कर उवाच ।
सुखं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः॥
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥३॥)
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः॥
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥४॥
संत्यज्य ग्राम्यमाहारं सर्वञ्चैव परिच्छदम्॥
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥५॥
अग्निहोत्रं समादाय गृह्यं चाग्निं परिच्छदम्॥
ग्रामादरण्यं निःसृत्य निवसेद्विजितेन्द्रियः ॥६॥
मुन्यन्नैर्विविधैमेध्यैः शाकमूलफलेन वा॥
सर्वानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥७॥
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा॥
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखांस्तथा ॥८॥
यद्यच्च स्यात्ततो दद्याद्बलिं भिक्षाञ्च शक्तितः॥
समूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥९॥
स्वाध्यायनित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः॥
दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥१०॥
वैतानिकश्च जुहुयादग्निहोत्रं यथाविधि॥
दर्शयन्स्कन्दयन्पर्वं पौर्णमासीञ्च योगतः ॥११॥
ऋक्षेष्ट्याग्रयणश्चैव चातुर्मास्यानि चाहरेत्॥
उत्तरायणञ्च क्रमशो दक्षिणायनमेव च ॥१२॥
वासन्तैः शारदैमेध्यैर्मुन्यन्नैः सुसमाहृतैः॥
पुरोडाशांश्चरूँश्चैव विधिवन्निर्वपेत्पृथक् ॥१३॥
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः॥
शेषमात्मनि युञ्जीत लवणञ्च स्वयं कृतम् ॥१४॥
स्थलजोदकशाकानि पुष्पमूलफलानि च॥
मध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंयुतान् ॥१५॥
वर्जयेन्मधुमांसानि भौमानि कवकानि च॥
भूस्तृणं शिग्रुकञ्चैव भल्लातकफलानि च ॥१६॥
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम्॥
जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥१७॥
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित्॥
न ग्रामजातमन्नञ्च पुष्पाणि च फलानि च ॥१८॥
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा॥
अश्मविद्धो भवेद्वापि दन्तोलूखलिकस्तथा ॥१९॥
सद्यः प्रक्षालिको वा स्यान्माससञ्चयिकोऽपि वा॥
षण्मासनिचयो वा स्यात्समानिचय एव वा ॥२०॥
नक्तं वान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः॥
चतुर्थकालिको वा स्यात्स्याद्वा चाष्टमकालिकः ॥२१॥
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत्॥
पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् ॥२२॥
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा॥
कालपक्वैः स्वयं शीर्णैर्वैखानसपथि स्थितः ॥२३॥
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्॥
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥२४॥
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षासु भावकाशकः॥
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥२५॥
उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत्॥
तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः ॥२६॥
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि॥
अनग्निरनिकेतश्च मुनिर्मूलफलाशनः ॥२७॥
अप्रपन्नः सुखार्थेषु ब्रह्मचारी धराश्रयः॥
शरणेषु समश्चैव वृक्षमूलनिकेतनः ॥२८॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत्॥
गृहमेध्येषु चान्येषु द्विजेषु वनवासिषु ॥२९॥
ग्रामादाहृत्य नाश्नीयादष्टौ ग्रासान्वने वसन्॥
विविधाश्चोपनिषदो ह्यात्मसंशुद्धये श्रुतीः ॥३०॥
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः॥
विद्यातपोभिवृद्ध्यर्थं शरीरस्य च शुद्धये ॥३१॥
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः॥
आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनम् ॥३२॥
त्यक्त्वा तनुं सम्यगथोदितस्य विधेरथैकस्य वने निवासी॥
प्राप्नोति लोकं स पितामहस्य त्यक्त्वा भयं नात्र विचारमस्ति ॥३३॥
इति श्रीविप्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वानप्रस्थाश्रमकथनन्नाम त्रिंशदुत्तरशततमोऽध्यायः ॥१३०॥
N/A
References : N/A
Last Updated : December 20, 2022
TOP