खण्डः २ - अध्यायः १४८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
उत्पातैरनृतैः कार्यं परस्योद्वीजनं नृपैः॥
अरातिशिबिरस्यात्र वसतिर्यस्य पक्षिणः ॥१॥
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज॥
विसृज्यैनं ततस्तीरमुल्कापातं प्रदर्शयेत् ॥२॥
अनेनैवात्र सारेण बुद्ध्या निश्चित्य यत्नतः॥
उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः ॥३॥
उद्वेजनं तथा कुर्यात्कुहकैर्द्विविधैर्द्विषाम्॥
संवत्सरानहार्षश्च नाशं ब्रूयुः परस्य च ॥४॥
जिगीषुः पृथिवी राज्ये तेन चोद्वेजयेत्परान्॥
देवतानां प्रसादानि कीर्तनीयानि तस्य तु ॥५॥
स स्वप्नलाभांश्च तथा जिगीषुः प्रतिकीर्तयेत्॥
दुःस्वप्नलाभं च तथा परेषामिति निश्चयः ॥६॥
आगतं नो मित्र बलं प्रहरध्वमभीतवत्॥
एवं ब्रूयाद्रणे प्राप्ते मया भग्नाः परे इति ॥७॥
क्ष्वेडाः किलकिलाशब्दं मम शत्रुर्हतस्तथा॥
देवाज्ञाबृंहितो राजा सन्नद्धः समरं प्रति ॥८॥
एवं प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः॥
मायाहतः शत्रुरथ प्रसह्य शक्यः सुखं हन्तुमदीनसत्त्वः ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उपाधिवर्णनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४८॥
N/A
References : N/A
Last Updated : December 20, 2022
![Top](/portal/service/themes/silver/images/up.gif)
TOP