खण्डः २ - अध्यायः १२३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच॥
भूय एव समाचक्ष्व कर्मणा येन मानवाः॥
दुर्गाण्यतितरन्त्याशु सर्वधर्मभृतां वर ॥१॥
पुष्कर उवाच॥
दुर्गाण्यतितरन्त्याशु ये नरा कृच्छ्रकारिणः॥
प्राप्नुवन्ति तथा कामान्सर्वान्वै मनसेप्सितान् ॥२॥
राम उवाच॥
कृच्छ्राणां श्रोतुमिच्छामि नामानि च विधींस्तथा॥
एवं मे ब्रूहि धर्मज्ञ त्वं हि वेत्सि यथातथम् ॥३॥
पुष्कर उवाच॥
कृच्छ्राण्येतानि कार्याणि राम वर्णत्रयेण च॥
कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ॥४॥
आदौ तु मुण्डनं कार्यं सर्वकृच्छ्रे भार्गव॥
नित्यं त्रिषवणस्नानं केशवस्य च पूजनम् ॥५॥
होमः पवित्रमन्त्रैश्च तथान्ते जाप्य एव च॥
स्त्रीशूद्रपतितानां च तथालापं विवर्जयेत् ॥६॥
एतत्कृच्छ्रेषु सर्वेषु कर्तव्यं चाविशेषतः॥
वीरासनं च कर्तव्यं कामतोऽप्यथवा न वा ॥७॥
वीरासनेन सहितं कृच्छ्रं बहुगुणं भवेत्॥
वीरासनेन रहितं विधिहीनं प्रकीर्तितम् ॥८॥
राम उवाच॥
वीरासनमहं त्वत्तः श्रोतुमिच्छामि सुव्रत॥
वीरासनेन सहितं कृच्छ्रं बहुगुणं यतः ॥९॥
पुष्कर उवाच॥
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि॥
एतद्वीरासनं प्रोक्तं महापातकनाशनम् ॥१०॥
आमिक्षया तु द्वौ मासौ पक्षं तु पयसा तथा॥
अष्टरात्रं तथा दध्ना त्रिरात्रमथ सर्पिषा ॥११॥
निराहारस्त्रिरात्रं तु कुर्याद्वा तालकव्रतम्॥
सर्वपापप्रशमनं सर्वकामप्रदं तथा ॥१२॥
स्नपयेदात्मनोऽर्थाय पावकं भृगुनन्दन॥
वह्नौ ततोऽऽनुजुहुयाद्दद्यादन्नञ्च कस्यचित् ॥१३॥
ब्रह्मा देवेति मन्त्रेण साध्यमाने विचक्षणः॥
दर्भांस्तु खलु बध्नीयाद्रक्षार्थमिति नः श्रुतिः ॥१४॥
श्रितं च श्राप्यमाणं च भाण्डे न्यस्त तथा पुनः॥
अनेन राम मन्त्रेण नरस्त्रिरभिमन्त्रयेत् ॥१५॥
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः॥
निर्णोदः सर्वपापानां पवित्रमृषिभिः। स्मृतम् ॥१६॥
घृतं यवा मधु यवा आपो वा अमृतं यवाः॥
सर्वं पुनीत मे पापं यन्मया दुष्कृतं कृतम् ॥१७॥
वाचा कृतं कर्मकृतं दुःस्वप्नं दुर्विचिन्तितम्॥
अलक्ष्मीं नाशय तथा सर्वं पुनीत मे यवाः ॥१८॥
श्वसुकरावलीढं च ह्युच्छिष्टोपहृतं च यत्॥
मातुर्गुरोरशुश्रूषा सर्वं पुनीत मे यवाः ॥१९॥
गणान्नं गणिकान्नं च शूद्रान्नं च तथा विशाम्॥
चौरस्यान्नं नवश्राद्धं सर्वं पुनीत मे यवाः ॥२०॥
बालवृत्तमधर्मं च राजधर्मकृतं च यत्॥
सुवर्णस्तेयमव्रात्यमयाज्यस्य च याजनम् ॥२१॥
ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः॥
भाण्डेन्यस्तस्य मन्त्रोऽयं ततस्तु परिकीर्तयेत ॥२२॥
(ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा)
अनेनात्मनि धर्मज्ञ जुहुयात्प्रयतः सदा॥
न कुर्यादतिसौहित्यं व्रतमेतद्धि यावकम् ॥२३॥
मेधार्थिनस्त्रिरात्रं तु षड्रात्रमतिपापिनः॥
उपपातकिनः प्रोक्तं सप्तरात्रमरिन्दम ॥२४॥
महापातकिनश्चैव षड्रात्त्रं द्विगुणं स्मृतम्॥
एकविंशतिरात्रेण कामानाप्नोत्यभीप्सितान् ॥२५॥
मासेन सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम्॥
गवां निर्हारमुक्तैस्तु यवैः कृत्वैतदेव हि ॥२६॥
फलं प्राप्नोति धर्मज्ञ तथा दशगुणं ध्रुवम्॥
मासेन साक्षात्त्रिदशान्वेदान्विद्याश्च पश्यति ॥२७॥
वरशापसमर्थस्तु तथा भवति भार्गव॥
शुक्लपक्षसमारम्भादारभेत्प्रत्यहं नरः ॥२८॥
एकैकवृद्ध्या ह्यश्नीयात्पिण्डाञ्श्रीखण्डसंयुतान्॥
एकैकं ह्रासयेत्कृष्णे प्रतिपत्प्रभृति क्रमात् ॥२९॥
हविष्यस्य महाभाग नाश्नीयाच्चन्द्रसंक्षये॥
एतच्चान्द्रायणं प्रोक्तं यवमध्यं महात्मभिः ॥३०॥
एतदेव विपर्यस्तं वज्रमध्यं प्रकीर्तितम्॥
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतम् ॥३१॥
प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ॥।
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ॥३२॥
मासेन भक्षयेदेतत्सुरचान्द्रायणं स्मृतम्॥
गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयम् ।३३।
स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात्॥
स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् ॥३४॥
एतत्सोमायनं नाम व्रतं कल्मषनाशनम्॥
त्र्यहं पिबेदपस्तूष्णास्त्र्यहमुष्णं पयः पिबेत् ॥३५॥
त्र्यहमुष्णं घृतं पीत्वा वायुभक्ष्यो भवेत्त्रयहम्॥
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितम् ॥३६॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतीन्॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥३७॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्॥
एतच्च प्रत्यहाभ्यस्तं महासान्तपनं स्मृतम् ॥३८॥
कृच्छ्रं पराकसंज्ञं स्याद्द्वादशाहमभोजनम्॥
एकभुक्तेन नक्तेन तथैवायाचितेन च ॥३९॥
उपवासेन चैकेन कृच्छ्रपादः प्रकीर्तितः॥
एतदेव त्रिरभ्यस्तं शिशुकृच्छ्रं प्रकीर्तितम् ॥४०॥
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम्॥
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥४१॥
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्॥
एकैकमुपवासं च सौम्यकृच्छं प्रकीर्तितम् ॥४२॥
अम्बुसिद्धैस्तथा मासः केवलैर्वारुणं समैः॥
फलैर्मासेन कथितं फलकृच्छ्रं मनीषिभिः ॥४३॥
श्रीकृच्छ्रं श्रीफलैः प्रोक्तं पद्माक्षैरपरं तथा॥
मासमामलकैरेव श्रीकृच्छ्रमपरं स्मृतम् ४४॥
पत्रैर्मतं पत्रकृच्छ्रं पुष्पैस्तत्कृच्छ्रमुच्यते॥
मूलकृच्छ्रं तथा मूलैस्तोयकृच्छ्रं जलेन तु ॥४५॥
दध्ना क्षीरेण तक्रेण पिण्याकेन कणैस्तथा॥
शाकैर्मासं तु कार्याणि सुनामानि विचक्षणैः ॥४६॥
सायं प्रातस्तु भुञ्जानो नरो यो नान्तरा पिबेत्॥
षडभिर्वर्षैरिदं प्रोक्तं कृच्छ्रं नित्योपवासिता ॥४७॥
एकभक्तेन मासेन कथितं चैकभक्तकम्॥
न तु कृच्छ्रं तु नक्तेन महत्संवत्सराद्भवेत् ॥४८॥
नक्ताशिनस्तु धर्मज्ञ एकभुक्तस्य वा पुनः॥
त्र्यहं वोपवसेद्युक्तः स्नायीत सवनत्रयम् ॥४९॥
निम्नवत्सु तथैवाप्सु त्रिः पठेदघमर्षणम् ॥
देवताभाववृत्तस्तु च्छन्दश्चैवाप्यनुष्टुभम् ॥५०॥
संस्मरेत्तस्य च तथा ऋषिं चैवाघमर्षणम्॥
चतुर्थेऽहनि दातव्या ब्राह्मणाय तपस्विने ॥५१॥
त्र्यहं जपेद्यथाशक्ति शुचिश्चैवाघमर्षणम्॥
भाववृत्तस्तथा देवस्तथा च पुरुषः परः ॥५२॥
तद्दैवत्यं विजानीयात्सूक्तं तदघमर्षणम्॥
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ॥५३॥
तथाघमर्षणं सूक्तं सर्वकल्मषनाशनम्॥
कृष्णाजिनं वा कुतपं परिधायाथ वल्कलम् ॥५४॥
संवत्सरं व्रतं कुर्यात्सम्मितं नाम भार्गव॥
गृहं न प्रविशेत्तत्र भवेदाकाशशायकः ॥५५॥
अशक्तौ वा भवेद्राम तथा शैलगुहाशयः॥
नित्यं त्रिषवणस्नायी तथा स्याद्द्विजसत्तम ॥५६॥
भैक्ष्यशाकफलाहारः कामं स्याद्द्विजपुङ्गव॥
वीरासनं तथा कुर्यात्काष्ठमौनं तथैव च ॥५७॥
सर्वकामप्रदं ह्येतत्सर्वकल्मषनाशनम्॥
वायव्यं कृच्छ्रमुक्तं तु पाणिपूरान्नभोजिनः ॥५८॥
मासेनैकेन धर्मज्ञ सर्वकल्मषनाशनम्॥
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमुच्यते ॥५९॥
लाजाप्रसृतिमप्येकां कनकेन समन्विताम्॥
भुञ्जानस्य तथा मासं कृच्छ्रं धनददैवतम् ॥६०॥
गवां निर्हारनिर्मुक्तैर्यवैः सक्तून्समन्त्रतः॥
याम्यं कृच्छ्रं विनिर्दिष्टं मासेन भृगुनन्दन ॥६१॥
गोमूत्रेण चरेत्स्नानं वृत्तिं गोमयमाचरेत्॥
गवां मध्ये सदा तिष्ठेद्गोपुरीषे च संवसेत् ॥६२॥
गोष्वतृप्तासु न पिबेदुदकं भृगुनन्दन॥
अभुक्तासु तु नाश्रीयादुत्थितासूत्थितो भवेत् ॥६३॥
तथा चैवोपविष्टासु सर्वासूपविशेन्नरः॥
मासेनैकेन कथितं गोमूत्रं कल्मषापहम् ॥६४॥
अजाकृच्छ्रं तथैवैतदजामध्ये तु वर्ततः॥
तृणानां भक्षणेनेह समतुल्यफले उभे ॥६५॥
द्वादशाहेन कथितं सर्वपातकनाशनम्॥
उपोषितश्चतुर्दश्यां पञ्चदश्यामनन्तरम् ॥६६॥
पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम्॥
ब्रह्मकूर्चमिदं कुर्यादुक्तप्रशमनाय वै ॥६७॥
पक्षान्ते त्वथ वा कार्यं मासमध्ये तु वा पुनः॥
ब्रह्मकूर्चं नरः कुर्यात्पौर्णमासेषु यः सदा ॥६८॥
तस्य पापं क्षयं याति दुर्भुक्तादि न संशयः॥
मासाभ्यां च नरः कृत्वा ब्रह्मकूर्चं समाहितः ॥६९॥
सर्वपापविनिर्मुक्तो यथेष्टां गतिमाप्नुयात्॥
ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च ॥७०॥
योगभूतं परिचरेत्केशवं महदाप्नुयात्॥
एवमेतानि कृच्छ्राणि कथितानि मया तव ॥७१॥
शासनानीह पापानां दुरितानां च भार्गव॥
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ॥७२॥
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः॥
अज्ञातं यदि वा ज्ञातं कृच्छ्रं पापं विशोधयेत् ॥७३॥
कृच्छ्रसंशुद्धपापानां नरकं न विधीयते॥
श्रीकामः पुष्टिकामश्च स्वर्गकामस्तथैव च ॥७४॥
देवताराधनपरस्तथा कृच्छ्रं समाचरेत्॥
रसायनानि मन्त्राश्च तथा चैवौषधाश्च ये ॥७५॥
तस्य सर्वे हि सिध्यन्ति यो नरः कृच्छ्रकृद्भवेत्॥
वैदिकानि च कर्माणि यानि काम्यानि कानिचित् ॥७६॥
सिध्यन्ति सर्वाणि सदा कृच्छ्रकर्तुर्भृगूत्तम॥
तेजसा तस्य संयोगो महता चैव जायते ॥७७॥
वाञ्छितान्मानसान्कामान्स चाप्नोति न संशयः॥
ज्ञातो भवति देवेषु तथा चर्षिगणेषु च॥
विपाप्मा वितमस्कश्च संशुद्धश्च विशेषतः ॥७८॥
आराधनार्थं पुरुषोत्तमस्य कृच्छ्राणि कृत्वा मधुसूदनस्य॥
सुरोत्तमानां समतीतलब्धं तल्लोकमाप्नोति जनार्दनस्य ॥७९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृच्छ्रप्रायश्चित्तवर्णन्नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥१२३॥
N/A
References : N/A
Last Updated : December 20, 2022
TOP