खण्डः २ - अध्यायः १७५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
श्रीपरशुराम उवाच॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद॥
जिगीषूणां समाचक्ष्व यात्राकालं महीक्षिताम् ॥१॥
पुष्कर उवाच॥
सर्वेषामेव वर्णानां यात्राकालं निबोध मे॥
अधिकृत्य महीनाथं विजिगीषोर्गुणान्वितम् ॥२॥
पूर्वे कपाले पौरोऽर्के यायी भवति चापरे॥
यायिग्रहौ शुक्रकुजौ शेषाः पौराः प्रकीर्तिताः ॥३॥
पौरग्रहैर्बलोपेतैर्न यात्रां सम्प्रयोजयेत्॥
यायिग्रहबले राजा नित्यं यात्रां प्रयोजयेत् ॥४॥
(अस्तं गते नीचगते विवशे रिपुराशिगे॥
प्रतिलोमं च विद्ध्वस्ते शुक्रे यात्रां विवर्जयेत् ॥५॥
प्रतिलोमे बुधे यात्रा दिक्पतौ च तथा ग्रहे॥
विष्टो वृष्ट्यां वाति वाते वात्यायाञ्च विवर्जयेत ॥६॥
वैधृते च व्यतीपाते नागे च शकुनौ तथा॥
चतुष्पदे च किंस्तुघ्ने तथा यात्रां विवर्जयेत् ॥॥ ७॥
विपत्करे नैधने च प्रत्यरौ भे च जन्मनि॥
गणे विवर्जयेद्यात्रां रिक्तायां च तिथावपि ॥८॥
उदीची च तथा प्राची तयोरैक्यं प्रकीर्तितम्॥
पश्चिमा दक्षिणा या दिक्तयोरैक्यं तथैव च ॥९॥
वाय्वग्निदिक्समुद्भूतं परिधिन्तु न लंघयेत्॥
राम संवत्सराद्येषु सर्वेष्वेव महीपतिः ॥१०॥
संवत्सरमदिक्प्राची परिपूर्वस्य दक्षिणा॥
तत्पूर्वस्यापरा ज्ञेया चानुपूर्वस्य दक्षिणा ॥११॥
अद्वारस्तु विनिर्दिष्टस्तथा वत्सरसंज्ञितः॥
उत्तरायणगे सूर्ये प्राचीं यायाद्दिशं नृपः ॥१२॥
चन्द्रे च ब्राह्मणश्रेष्ठ पश्चिमां दक्षिणस्थिते॥
तयोरयनभेदेन यायात्सूर्यायनं दिवा ॥१३॥
रात्रौ चान्द्रायणं यायाद्या दिगुक्ता मया तव॥
वसन्त उत्तरद्वारे ग्रीष्मः प्राग्द्वारिकस्तथा ॥१४॥
शरच्च पश्चिमद्वारः शिशिरश्चोत्तरामुखः॥
हेमन्तः सर्वतोद्वारः प्रावृडद्वारिका स्मृता ॥१५॥
नक्षत्रवद्देवताभिर्या यस्य तु दिगुच्यते॥
मासार्धेऽस्य महाभाग तथैव परिकीर्तिता ॥१६॥
आदित्यचन्द्रसौरार्कदिवसास्तु न शोभनाः॥
त एव चानुकूलस्य दिवसो न प्रशस्यते ॥१७॥
प्राग्द्वारो भास्करो ज्ञेयो दक्षिणेन तथा कुजः॥
पश्चिमेन शनैश्चारी उदग्द्वारस्तु चन्द्रमाः ॥१८॥
सर्वद्वाराः स्मृता राम जीवशुक्रेन्दुनन्दनाः॥
तेषां हि दिवसाः शस्ता विशेषेण गमिष्यताम्॥१९॥
समागमे जितो यस्तु जीवो मित्रगृहे स्थितः॥
स्फुरणो रश्मिहीनश्च न प्रशंसन्ति तद्दिनम्॥२०॥
उच्चस्थो मित्रगृहगः स्वक्षेत्रस्थश्च यो ग्रहः॥
विजयी रश्मिवांस्थूलो दिनं तस्य प्रशस्यते॥२१॥
कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः॥
मैत्राद्याः पश्चिमेनाथ वासवाद्यानि चाप्युदक् ॥२२॥
सर्वद्वाराणि तत्रापि दिवाद्यानि विनिर्दिशेत्॥
भवन्ति स्तम्भसंज्ञानि तानि दिङ्मध्यगानि च ॥२३॥
स्तम्भर्क्षाद्यानि पूर्वाणि तानि प्रावेशिकानि तु॥
निर्गमर्क्षाणि जानीयात्स्तम्भर्क्षादुत्तराणि तु॥२४॥
प्रवेशभेषु दुष्टेषु यायिनां विजयं वदेत्॥
स्तम्भभेषु तु दुष्टेषु दुर्गाणां ग्रहणे तदा॥२५॥
निर्गमर्क्षेषु दुष्टेषु नागराणां जयं वदेत्॥
ऋक्षे पापग्रहाक्रान्ते तथा चास्तमिते द्विज ॥२६॥
दग्धे च धूमिते वापि रजसोपहतेऽथ वा॥
केतुना धूमिते वापि परिविष्टेऽथवा पुनः ऽ। ॥२७॥
उत्पातदर्शनं च स्याद्येन चर्क्षेण भार्गव॥
संक्रान्तिर्वा ग्रहस्य स्याद्येन चास्तोदयौ तथा ॥२८॥
भिन्नश्चन्द्रमसा यश्च ग्रहेणान्येन वा पुनः॥
यन्नक्षत्रगतौ ग्रस्तौ स्यातां वा शशिभास्करौ ॥२९॥
न तेन नृपतिर्यायान्नक्षत्रेण कदाचन॥
अष्टवर्गानुकूलस्थ चन्द्रे यात्रां प्रयोजयेत् ॥३०॥
पूर्वद्वारस्थितानन्दा भद्रा दक्षिणतः स्थिता॥
जया च पश्चिमद्वारा रिक्ता चोदक्प्रकीर्तिता ॥३१॥
पूर्णा तु सर्वतो द्वारा तिथिरुक्ता महाभुज॥
नक्षत्रदेवतातुल्या मुहूर्तानां तु दिग्भवेत् ॥३२॥
त्रिदिग्द्वाराभिजिज्ज्ञेया दक्षिणेन विगर्हिता॥
प्राग्द्वाराः कथिता राम मेषसिंहधनुर्धराः ॥३३॥
तथा च पश्चिमद्वाराः कन्यामकरगोवृषाः॥
तुलामकरकुम्भाश्च ज्ञेयाः पश्चिमदिङ्मुखाः ॥३४॥
कीटवृश्चिकमीनाश्च तथा चोदक्प्रकीर्तिताः॥
लग्नेन दिङ्मुखं यत्नाज्ज्ञेयं प्राङ्मुखमंशकम् ॥३५॥
सौराः सर्वे प्रशस्यन्ते कालरोधं विवर्जयेत् ऽ।
विशाखाद्यं भत्रितयं दीने सूर्ये विवर्जयेत् ॥३६॥
आषाढात्रितयं चन्द्रे तथा ब्राह्मणसंज्ञकम्॥
धनिष्ठाद्यत्रयं भौमे पौष्णाद्यत्रितयं बुधे। ॥३७॥
रोहिण्याद्यं तथा जीवे पुष्याद्यं च तथा सिते॥
अर्यम्णाद्य तथा सौरे प्रयत्नेन महाभुज ॥३८॥
मूलं च श्रवणं चैव आहिर्बुध्न्यं तथैव च॥
आग्नेयमथ चादित्यं भाग्यं वायव्यमेव वा ॥३९॥
आदित्यादिदिनेष्वेते सिद्धियोगाः प्रकीर्तिताः॥
सिद्धियोगान्विशेषेण तिथिष्वपि निबोध मे ॥४०॥
ग्रहक्रमेण धर्मज्ञ सर्वकर्मसु सिद्धिदान्॥
द्वितीया च तृतीया च प्रतिपच्चाष्टमी तथा ॥४१॥
सप्तमी च चतुर्थी च पञ्चमी च तथा तिथिः॥
अन्याश्च सिद्धयोगेषु तिथयस्त्वं शृणु क्रमात् ॥४२॥
एकादशी च दशमी नवमी पञ्चदश्यपि॥
चतुर्दशी द्वादशी च तथा राम त्रयोदशी ॥४३॥
छायाप्रमाणं वक्ष्यामि सिद्धियोगेष्वतः क्रमात्॥
तत्र काले कृतं कर्म सकृत्संपश्यते ध्रुवम् ॥४४॥
आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडश कीर्तिताः॥
भौमे पञ्चदशैवोक्ताश्चतुर्दश तथा बुधे ॥४५॥
त्रयोदश तथा जीवे शुक्रे द्वादश कीर्तिताः॥
उदितेनोत्तरां गच्छेत्प्राचीं मध्यस्थिते रवौ ॥४६॥
दक्षिणामपराह्णे तु अर्धरात्रे तु पश्चिमाम्॥
जन्मराश्युदये यात्रा न प्रशस्ता महाभुज ॥४७॥
ताभ्यामुपचयर्क्षे तु यात्रा शस्ता तथा भवेत्॥
शेषेषु वर्जयेद्यात्रां भूतिकामो नराधिपः ॥४८॥
यात्रा शुभफला ज्ञेया सौम्यग्रहनवांशके॥
पापग्रहांशके यात्रां प्रयत्नेन विवर्जयेत् ॥४९॥
जन्मभे नैधने चैव तथाधाने विपत्करे॥
प्रत्यरौ भगणे यात्रां प्रयत्नेन विवर्जयेत् ॥५०॥
क्षेमे संपत्करे मैत्रे साधके चातिमैत्रके॥
कर्मभे च तथा यात्रा प्रशस्ता मनुजोत्तम ॥५१॥
दिव्यान्तरिक्षक्षितिजे दृष्टे राम महाद्भुते॥
सप्ताहं वर्जेयेद्यात्रां प्रयत्नेन महाभुज ॥५२॥
लग्ने तु विबले यात्रां शून्ये केन्द्रे च वर्जयेत्॥
जन्मपे लग्नपे राम बलहीने विशेषतः ॥५३॥
दिक्पतावनुकूले तु शुभा यात्रा प्रकीर्तिता॥
सम्मुखे शक्रचापे तु यात्रां यत्नेन वर्जयेत् ॥५४॥
न च गच्छेत्तथा राम द्वाराभिहतमस्तकः॥
दृष्ट्वा द्रव्यममङ्गल्यं खिन्नचेतास्तथैव च॥
तुष्टे मनसि गन्तव्यं प्रयत्नेन महीभुजा ॥५५॥
त्रिकोण केन्द्रोपगतास्तु सौम्याः पापास्तथा चोपचयर्क्षसंस्थाः॥
भवन्ति लग्नस्य तु यस्य तेन यात्रा प्रयुक्ता तु शुभावहा स्यात् ॥५६॥
इति श्रीविष्णु० द्वि० मा० सं० रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रमते यात्राधिकारो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥१७५॥
N/A
References : N/A
Last Updated : December 21, 2022
TOP