खण्डः २ - अध्यायः ०८४
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
स्वयं सूपोषितो विद्वान्यजमानमुपोषितम्॥
मूलेन स्नापयेन्नित्यं तथाप्याशामुखास्थितम् ॥१॥
दूर्वाकुश शमीपत्रपूर्णेन सुदृढेन च॥
कुम्भद्वयेन स्नातस्तु पूजयेन्मधुमूदनम् ॥२॥
विरूपाक्षं सवरुणं चन्द्रं मूलं तथैव च॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥३॥
एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज॥
पीतवासास्ततो भूत्वा मत्स्यकुल्माषसूकरैः ॥४॥
सुराकृसरसंयुक्तैः स्नानोक्ताशामुखस्थितः॥
बलिं निर्ऋतये दद्याज्जानु कृत्वा ततः क्षितौ ॥५॥
ततोष्टादशभिः पुष्पैर्मूलैः पञ्चभिरेव च॥
सुवर्णगर्भं च मणिं विद्वाञ्शिरसि धारयेत् ॥६॥
कृत्वैतत्सकलं कर्म कृषिं बहुफलां लभेत्॥
दक्षिणा चात्र दातव्या मूलानि च फलानि च ॥७॥
पीतानि चैव वस्त्राणि कनकं रजतं तथा॥
भोजनं चात्र दातव्यं ब्राह्मणानामभीप्सितम् ॥८॥
अलंघयन्मूलमिदं हि कुर्वन्स्नानं सदा भार्गव वंशमुख्य॥
कृषिं समाप्नोति सदैव विद्वान्यथेप्सितं नात्र विचारमस्ति ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मूलस्नानवर्णनो नाम चतुरशीतितमोऽध्यायः ॥८४॥
N/A
References : N/A
Last Updated : December 09, 2022

TOP