खण्डः २ - अध्यायः ०९७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच ॥
अग्न्याधानमथाप्नोति शत्रुनाशमथापि वा॥
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ॥१॥
शत्रुनाशकरं कर्म कथयस्व ततः परम्॥
तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥२॥
पुष्कर उवाच॥
कृतोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु॥
पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना ॥३॥
रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम्॥
घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥४॥
निवेदनीयं देवाय तथा सर्वं निवेदयेत्॥
होतव्यं सुसमिद्धेऽग्नौ तथैवात्र शुभं हविः॥
आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा ॥५॥
कर्मैतदुक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि॥
कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः ॥९७॥
N/A
References : N/A
Last Updated : December 09, 2022

TOP