संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२१

खण्डः २ - अध्यायः ०२१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
स्नानं समाचरेद्राज्ञो होमकाले पुरोहितः॥
आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत् ॥१॥
पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः॥
वल्मीकाग्रमृदा कर्णौ चन्दनैः केशबालकान् ॥२॥
चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात्॥
करिदन्तोद्धृतमृदा दक्षिणं तु तथा भुजम् ॥३॥
वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम् ॥४॥
सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा॥
नदीकूलद्वयमृदा पार्श्वे संशोधयेत्तथा ॥५॥
अश्वस्थानात्तथा जंघे राजा संशोधयेद्बुधः॥
रथचक्रोद्धृतमृदा तथैव च करद्वयम् ॥६॥
मृत्स्नातः स्नपनीयः स्यात्पञ्चगव्यजलेन तु॥
ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् ॥७॥
वर्णप्रधानं भूपालमभिषिञ्चेद्यथाविधि॥
पूर्वतो हेभकुम्भेन घृतपूर्णेन ब्राह्मणः ॥८॥
रूप्यकुम्भेन याम्येन क्षीरपूर्णेन क्षत्रियः॥
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतो द्विज ॥९॥
माहेयेन जलेनो दक्शूद्रामात्योऽभिषेचयेत्॥
ततोऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः ॥१०॥
कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः॥
सम्पातवन्तं कलशं तथा नुत्वा पुरोहितः ॥११॥
विधाय वह्निरक्षां तु सदस्येषु यथाविधि॥
राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः ॥१२॥
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनेन तु॥
ततः पुरोहितो गच्छेद्वेदिमूलं तदैव तु ॥१३॥
विभूषितं तु राजानं सर्वतोभद्र आसने॥
शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि ॥१४॥
अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः॥
या ओषधीरौषधीभिः सर्वाभिः सुसमाहितः ॥१५॥
रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च॥
बीजैः पुष्पैस्तथा चैनं राम पुष्पवतीति च ॥१६॥
तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत्॥
आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव ॥१७॥
ये देवाः पुरस्सदेति कुशाभिः परिमार्जयेत्॥
ऋग्वेदक्रतुतो राज्ञे रोचनाया यथाविधि ॥१८॥
मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत्॥
ततो ब्राह्मणमुख्याश्च क्षत्त्रियाश्च विशस्तथा ॥१९॥
शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः॥
नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥२०॥
चतुस्सागरजैर्लाभादलाभाद्द्विजकल्पितैः॥
गङ्गायमुनयोश्चैव निर्झरैश्च तथोद्भिजैः ॥२१॥
छत्रपाणिर्भवेत्कश्चित्केचिश्चामरपाणयः॥
अमात्यमुख्यास्तं कालं केचिद्वेत्रकरास्तथा ॥२२॥
शंखभेरीनिनादेन बन्दीनां निस्वनेन च॥
गीतवादित्रघोषेण द्विजकोलाहलेन च ॥२३॥
राजानमभिषिञ्चेयुस्समेत्य सहिता जनाः॥
सर्वैः स्तुतोऽभिषिक्तश्च संमिश्रजलमिश्रितम् ॥२४॥
सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा॥
रत्नबीजसमायुक्तं फलबीजयुतं तथा ॥२५॥
ऊर्जितं सितसूत्रेण वेष्टितग्रीवमेव च॥
श्वेतवस्त्राम्रपत्रैश्च संवीतं सुविभूषितम् ॥२६॥
क्षीरवृक्षलताछत्रं सुदृढं कांचनं नवम्॥
आदाय कलशं राज्ञा स्वयं सांवत्सरस्तथा ॥२७॥
मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह॥
ततः पश्येन्मुखं राजा दर्पणे चाथ सर्पिषि ॥२८॥
सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः॥
कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ॥२९॥
लोकपालान्ग्रहांश्चैव नक्षत्राणि च भार्गव॥
ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥३०॥
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम्॥
पुरोधा मधुपर्केण तत्रस्थं तं समर्चयेत् ॥३१॥
राजा चैवार्चयेत्तत्र सांवत्सरपुरोहितौ॥
मधुपर्केण धर्मज्ञस्ततस्तस्य सदैव हि ॥३२॥
पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम्॥
ततः स बद्धमुकुटः काले पूर्वं मयेरितम् ॥३३॥
परार्ध्यास्तरणोपेते पञ्चचर्मोत्तरच्छदे॥
ध्रुवा द्यौ इति मन्त्रेण सोपवेश्य पुरोधसा ॥३४॥
वृकस्य वृषदंशस्य द्वीपिनश्च भृगूत्तम॥
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥३५॥
तत्रोपविष्टस्य ततः प्रतीहारः प्रदर्शयेत्॥
अमात्यांश्च तथा पौरान्नैगमांश्च वणिग्वरान् ॥३६॥
ततः प्रकृतयश्चान्या यथावदनुपूर्वशः॥
ततो ग्रहावरास्त्रेभतुरङ्गकनकोत्तमैः ॥३७॥
गोजाविग्रहदानैश्च सांवत्सरपुरोहितौ॥
पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम् ॥३८॥
अनेनैव विधानेन येन राजाभिषेचितः॥
ततस्त्वमात्यान्संपूज्य सांवत्सरपुरोधसः ॥३९॥
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत्॥
गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥४०॥
मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः॥
मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः ॥४१॥
वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम्॥
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव ॥४२॥
पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम्॥
मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः ॥४३॥
आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत्॥
मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः ॥४४॥
सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः॥
तासां संपूजनं कृत्वा नगरे या निवेशिताः ॥४५॥
प्रविशेत गृहं राजा प्रहृष्टनरवाहनः॥
दानमानानि सत्कारैर्गृह्णीयात्प्रकृतीस्ततः ॥४६॥
संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा॥
विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात् ॥४७॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP