खण्डः २ - अध्यायः ०४५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन॥
तस्मात्सर्वं प्रयत्नेन तुरङ्गाणां समर्जनम् ॥१॥
राज्ञा यत्नवता भाव्यं पालने च विशेषतः॥
तावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ॥२॥
कर्तुं शक्यं न धार्यास्ते दुःखिताः क्षुधितास्तथा॥
दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा ॥३॥
धारणीयाः सुविहिता विधिना यवसादिताः॥
विधृतास्ते तथा कुर्युर्लोकद्वयजयं तथा ॥४॥
मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च॥
कैवल्यस्यैव ते भक्ता देवस्य परमेष्ठिनः ॥५॥
अन्ति मध्ये तथा तेन नानुज्ञाता दिवौकसाम्॥
ततोऽश्वमेधतुरगस्तस्यैवैकस्य हूयते ॥६॥
सर्वरत्नाधिको जातस्तुरगोऽमृतमन्थनात्॥
उच्चैःश्रवास्तेन हयः सर्वरत्नोत्तमः स्मृतः ॥७॥
सपक्षा देववाह्यास्ते मनुष्याणामपक्षकाः॥
पद्मना शालिहोत्रेण वाहनार्थं पुरा कृताः ॥८॥
नीराजयन्ति ते देशान्ह्रेषितैर्बलशालिनः॥
गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः ॥९॥
प्रधानमंगं सैन्यस्य शोभा च परमा हयाः॥
सुदूरगमने युद्धे यानश्रेष्ठास्तुरङ्गमाः ॥१०॥
वल्गन्तमुच्चैस्तुरगं चामरापीडधारिणम्॥
आरुह्य या भवेत्तुष्टिर्न सा राम त्रिविष्टपे ॥११॥
सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः॥
दृष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम् ॥१२॥
तुरङ्गपादोद्धृतधूलिदण्डं यस्यातपत्रानुकृतिं करोति॥
नभः समग्रा वसुधा तु तस्य शैलावतंसा भवतीह वश्या ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने अश्वप्रशंसा नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : December 08, 2022

TOP