संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१३

खण्डः २ - अध्यायः ०१३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
हंसपक्षैर्विरचितं मयूरस्य शुकस्य च॥
पक्षैरथ बलच्छाया च्छत्रं राज्ञः प्रशस्यते ॥१॥
मित्रपक्षं न कर्तव्यं हीनं परिमितं तथा॥
चतुरस्रं तु कर्तव्यं ब्राह्मणस्य भृगूत्तम ॥२॥
वृत्तं राज्ञां प्रशस्तं स्याच्छुक्लवस्त्रविभूषितम्॥
सितं दूकूलसंछन्नं पताकाभिर्विभूषितम् ॥३॥
एतस्मिन्दिग्विभागे तु कार्याश्चन्द्रांशुनिर्मलाः॥
चतस्रस्तस्य धर्मज्ञ पताका रुक्मभूषिताः ॥४॥
दण्डं चामरवत्कार्यं वैणवं च प्रशस्यते॥
त्रिचतुःपञ्चषड्सप्तचाष्टपर्वः प्रशस्यते ॥५॥
दशद्वादशभिर्वापि शेषैस्तु परिवर्जयेत्॥
छत्रं दण्डोग्रपर्वाणं दण्डः सर्वत्र शस्यते ॥६॥
धारयन्ति च दण्डं वै वैणवं गृहमेधिनः॥
राज्ञां प्रशस्तं षड्ढस्तं छत्रदण्डं भृगूत्तम ॥७॥
अथ पञ्चोनहस्तं तु महिषीयुवराजयोः॥
सेनापतिसुराध्यक्षसांवत्सरपुरोहितैः ॥८॥
पञ्चहस्तस्तु कर्तव्यश्छत्रदण्डो भृगूत्तम॥
चतुर्हस्तस्तु कर्तव्यो मया येऽत्र न कीर्तिताः ॥९॥
व्यासो दण्डार्धमानेन सदा छत्रस्य शस्यते॥
छत्रं विभूषयेद्राज्ञां त्वर्धचन्द्रदिवाकरैः ॥१०॥
वज्रेन्द्रनीलैः स्फटिकैश्च राम वैदूर्यमुक्ताफलसत्प्रवालैः॥
विभूषितं रश्मियुतं प्रशस्तं सदातपत्रं तु महीपतीनाम् ॥११॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे छत्रलक्षणं नाम त्रयोदशोऽध्यायः ॥१३॥


References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP