खण्डः २ - अध्यायः ००५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच॥
राज्ञा पुरोहितः कार्यस्तथा मन्त्री च कीदृशः॥
महिषी च तथा ज्येष्ठा तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
अव्यङ्गं लक्षणोपेतमनुकूलं प्रियंवदम्॥
अथर्ववेदविद्वांसं यजुर्वेदविशारदम् ॥२॥
द्विवेदं ब्राह्मणं राजा पुरोहितमथर्वणम्॥
पञ्चकल्पविधानज्ञं वरयेत सुदर्शनम् ॥३॥
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः॥
चतुर्थोङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ॥४॥
पञ्चकल्पविधानज्ञमाचार्यं प्राप्य भूपतिः॥
सर्वोत्पातप्रशान्तात्मा भुनक्ति वसुधां चिरम् ॥५॥
स च राज्ञस्तथा कुर्यान्नित्यं कर्म सदैव तु॥
नैमित्तिकं तथा काम्यं दैवज्ञवचने रतः ॥६॥
न त्याज्यस्तु भवेद्राजा दैवज्ञेन पुरोधसा॥
पतितस्तु भवेत्त्याज्यो नात्र कार्या विचारणा ॥७॥
तथैव पतितौ राम न त्याज्यौ तौ महीभुजा॥
तयोस्त्यागेन राजेन्द्र राज्यभ्रंशो विनिर्दिशेत ॥८॥
दुर्गतिः परलोके च बहुकालमसंशयम्॥
सांवत्सरविरुद्धस्तु त्याज्यो राज्ञा पुरोहितः॥
पुरोहितोऽन्यथा राज्ञो यथा माता यथा पिता॥
अनिष्टमस्य व्यसनं हन्याद्दैवोपघातजम् ॥१०॥
ब्राह्मणो निष्कृतिस्तस्य कुत्र शक्या महीभुजा॥
यावन्न राज्ञा विद्वांसौ सांवत्सरपुरोहितौ ॥११॥
वृत्तिच्छेदे तयो राज्ञः कुलं त्रिपुरुषं व्रजेत्॥
नरकं वर्जयेत्तस्माद्वृतच्छेदं तयोः सदा ॥१२॥
स्थावरेण विभागश्च तयोः कार्यो विशेषतः॥
अनुरूपेण धर्मज्ञ सांवत्सरपुरोहितौ ॥१३॥
भाव्यं सदा भार्गववंशचन्द्र पुरोहितस्यात्मसमस्य राज्ञा॥
राज्ञो यथापि स्वजनेन भाव्यो विद्वान्प्रभुः स्यान्नृपतेः पुरोधाः ॥१४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरोहितलक्षणं नाम पञ्चमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : December 06, 2022

TOP