खण्डः २ - अध्यायः ०३२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
ब्राह्मणान्पूजयेद्राजा ब्राह्मणान्पालयेत्सदा॥
ब्राह्मणा हि महाभाग देवानामपि दैवतम् ॥१॥
ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिवः॥
ब्राह्मणेषु तु यद्दत्तं निधिस्तत्पारलौकिकम् ॥२॥
वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भारत॥
उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते ॥३॥
ब्रह्मस्वं चैव नादद्याद्ब्रह्मस्वं पालयेत्तथा॥
ब्रह्मस्वहरणाद्राम नरकं पश्यते नरः ॥४॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यतै॥
विषमेकाकिनं हन्ति ब्रह्मस्वं सप्तपूरुषम् ॥५॥
ब्रह्मस्वं प्रणयाद्भुक्तं हिनस्त्यासप्तमं कुलम्॥
द्रोहाद्भुक्तं तदेवेह कुलानां पातयेच्छतम् ॥६॥
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्।॥
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥७॥
दृष्ट्वा विटं दुराचारं ब्राह्मणं न द्विषेत्क्वचित्॥
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः ॥८॥
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्॥
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ॥९॥
ब्रह्महा नरकं याति यावदाभूतसम्प्लवम्॥
वर्षाणामयुतं राम पच्यते स्नायुपूरिते ॥१०॥
शोणितं यावतः पांशून्गृह्णातीह द्विजन्मनाम्॥
कर्ता तावन्ति वर्षाणि कृतकृन्नरके वसेत् ॥११॥
उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः॥
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा ॥१२॥
देहत्यागाच्च नरकं ब्राह्मणोऽपि प्रपद्यते॥
तेन चाधिकमाप्नोति राम पापं नराधमः ॥१३॥
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम्॥
ब्राह्मणाश्च महाभागा नमस्यास्ते सदैव हि ॥१४॥
ब्राह्मणानां तथा कार्यं यत्नात्कुर्वीत पार्थिवः॥
कालातिपातं च तथा विप्रकार्ये न कारयेत् ॥१५॥
निष्पीडितस्तूपवसेद्येन विद्वान्निशां जनः॥
स राम नरकं याति वर्षाणां तु दशायुतम् ॥१६॥
ब्राह्मणी रुदती हन्ति कुलं रोदायते ध्रुवम्॥
तदश्रुवह्निर्दहति कुलं त्रिपुरुषं ध्रुवम् ॥१७॥
विद्वानप्यथवाविद्वान्ब्राह्मणो मानमर्हति॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्द्विजपुङ्गव ॥१८॥
प्रतिष्ठां प्राप्नुवन्तीह सुरा विप्रप्रतिष्ठिताः ॥१९॥
तन्मुखे तु तथाश्नन्ति देवाश्च पितृभिः सह॥
वह्नौ हुताच्छ्रेष्ठतमं हुतं विप्रमुखाग्निषु ॥२०॥
अस्कन्दमविरुद्धं च प्रायश्चित्तैर्विवर्जितम्॥
यावतो ग्रसते ग्रासान्विद्वान्विप्रः सुसंस्कृतः ॥२१॥
अन्नप्रदस्य तावन्तः क्रतवः परिकीर्तिताः॥
ब्राह्मणानां करान्मुक्तं तोयं शिरसि धारयेत् ॥२२॥
ब्राह्मणस्य करे यस्मात्सर्वतीर्थसमागमः॥
ब्राह्मणेभ्यः समुत्पन्नं त्रैलोक्यं सचराचरम् ॥२३॥
अमोघशापा धर्मज्ञ कथितास्ते जगत्त्रये॥
आशीर्वादममोघं च ब्राह्मणानां प्रकीर्तितम् ॥२४॥
आशीर्वादपराः कार्यास्तस्माद्राज्ञा द्विजोत्तमाः॥
यैः कृतः सर्वभक्ष्योग्निरपेयश्च महोदधिः ॥२५॥
क्षयी सोमोऽजवृषणस्तथैव च शतक्रतुः॥
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥२६॥
विपुलश्च तथा येषां प्रसादो भृगुनन्दन॥
येषां प्रसादात्क्षीणोऽपि वृद्धिमिच्छति चन्द्रमाः ॥२७॥
येषां प्रसादाद्रक्षोभिर्नाभिभूयेत भास्करः॥
येषां प्रसादाद्विपुलां कार्तवीर्यः श्रियं गतः ॥२८॥
येषां प्रसादाद्धनदो धनाध्यक्षत्वमागतः॥
अस्नातः स्नानमाप्नोति व्रतमाप्नोत्यथाव्रती ॥२९॥
येषां वचनमात्रेण किम्भूतमधिकं ततः॥
भोगं राज्यं तथा स्वर्गं येषां वाक्येन लभ्यते ॥३०॥
अपावनकरः क्रोधो येषां राम सदा स्थितः॥
ते पूज्यास्ते च सत्कार्यास्तेषां दाराणि दापयेत् ॥३१॥
धारयन्ति जगत्सर्वं ब्राह्मणा वेदपारगाः॥
देवानाप्याययन्तीह ब्राह्मणा भृगुनन्दन ॥३२॥
ते तृप्तास्तर्पयन्तीह भुवनं सकलं सुराः॥
ब्राह्मणेनाहुतिर्दत्ता वह्नौ भृगुकुलोद्वह ॥३३॥
आदित्यमाप्नोत्यादित्याद्वृष्टिर्भवति भूतले॥
अन्नस्य च तथोत्पत्तिरन्नाद्भूतोद्भवः स्मृतः ॥३४॥
तस्मात्त्रिभुवनं सर्वं ब्राह्मणैरेव धार्यते॥
ब्राह्मणप्रभवा भूमिर्ब्राह्मणप्रभवो दिवः ॥३५॥
ब्राह्मणानामिमे लोकाः परलोकास्तथैव च॥
इज्यास्वाध्यायतपसामुपरोधाद्यदा द्विजाः ॥३६॥
स्वाम्यं भुवि न विन्दन्ति क्षत्त्रियास्तु तदा कृताः॥
ब्राह्मणानां वचः कार्यं राजभिः सततोत्थितैः ॥३७॥
धर्ममर्थं च कामं च तेषां वाचि प्रतिष्ठितम्॥
ब्राह्मणानां तु वाक्येन निग्रहानुग्रहावुभौ ॥३८॥
लोके कार्यौ भूमिभृता भूतिकामेन नित्यदा॥
राजा ब्राह्मणवाक्येन यः कुर्याच्छासनादिकम् ॥३९॥
सम्यग्वाप्यथवासम्यक्तेन नाके महीयते॥
उल्लंघ्य शास्त्रं नृपतिर्यो यथारुचि वर्तते ॥४०॥
स राम नरकं याति सुकृतेनापि कर्मणा॥
यत्र ब्राह्मणवाक्यानि न करोतीह यो नरः ॥४१॥
न तत्र दोषवान्विप्रो राजा दोषेण लिप्यते॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ॥४२॥
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता॥
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥४३॥
तस्मात्पूज्या नमस्कार्यास्सं विभाज्यास्तथा द्विजाः॥
राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता ॥४४॥
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥४५॥
इति श्रीविष्णुधर्मोत्तरे द्वि०खण्डे मा० सं० रामं प्रति पुष्करवाक्ये ब्राह्मणप्रशंसावर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ॥३२॥
N/A
References : N/A
Last Updated : December 07, 2022
TOP