खण्डः २ - अध्यायः ०४३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच ॥
अतः परं प्रवक्ष्यामि तव राम चिकित्सितम्॥
संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ॥१॥
शृङ्गमूलेषु धेनूनां तैलं दद्यात्ससैन्धवम्॥
शृङ्गीवीरबलामांसीकल्कसिद्धं समाक्षिकम् ॥२॥
सिमिचूर्णयुतं देयमथवापि तथा घृतम्॥
कर्णमूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ॥३॥
सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः॥
माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिहाम् ॥४॥
अजाक्षीरेण संपेष्य गुलिकां कारयेद्भिषक्॥
एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम् ॥५॥
बिल्वमूलमपामार्गं धातकीं च सपाटलाम्॥
कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम् ॥६॥
दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितम्॥
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् ॥७॥
शृङ्गवेरं हरिद्रे द्वे त्रिफलां च गलग्रहे॥
शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च ॥८॥
अपामार्गविडंगांश्च लवणेन विमिश्रितम्॥
औषधं मुखरोगघ्नं ज्वरदाहविनाशनम् ॥९॥
हृच्छूले बस्तिशूले च वातरोगे क्षते तथा॥
त्रिफलाघृतसमिश्रं गवां पानं प्रशस्यते ॥१०॥
शतपुष्पायुतं पक्वं तैलं कुटजचित्रकैः॥
गवां राम प्रदातव्यं सर्वहृद्रोगनाशनम् ॥११॥
अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत्॥
आनाहे घृतसंयुक्तां दापयेत्पद्मचारिणीम् ॥१२॥
सर्वेषु कुष्ठरोगेषु तथा शाखागदेषु च॥
शृङ्गवेरं च दार्वीं च कासे श्वासे प्रदापयेत् ॥१३॥
दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ।
वातरोगेषु सर्वेषु शतपुष्पाविपाचितम् ॥१४॥
गवां तैलं प्रदातव्यं सर्ववातगदापहम्॥
यूषणं मधुसंमिश्रं कफरोगेषु दापयेत् ॥१५॥
पित्त रोगेषु सर्वेषु मधुयष्टिविपाचितम्॥
गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम् ॥१६॥
शाखोटकरमापानं रक्तपित्ते प्रशस्यते॥
गोधूमानां च चूर्णानि माषाश्चैव ससर्षपाः ॥१७॥
पयसा च समालोड्य गुरुमिश्राः प्रदापयेत्॥
रक्तस्रावेषु कृच्छ्रेषु गवामेतत्प्रशस्यते ॥१८॥
तिलाम्भकरुहांश्चैव हरितालं घृतं तथा॥
भग्नक्षतानां धेनूनां लेपने तत्प्रशस्यते ॥१९॥
वत्सानां च सरोगाणां पाठां तक्रेण पाययेत्॥
हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये ॥२०॥
माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा॥
एषां पिण्डाः प्रदातव्या लवणेन सुसँस्कृताः॥
पुष्टिप्रदा तु वत्सानां वृषभाणां बलप्रदा ॥२१॥
देवदारुवचामांसीगुग्गुलुर्हिङ्गुसर्षपाः॥
एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः ॥२२॥
सर्वग्रह विनाशाय पलङ्कशयुतः शुभः॥
घण्टा चापि गवां कार्या धूपेनानेन धूपिता ॥२३॥
अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते॥
अश्वगन्धायुतं तक्रं तिलान्वस्ति प्रशस्यते॥
भवति क्षीरिणी तेन धेनुर्भृगुकुलोद्भव ॥२४॥
पिण्याकमेव निर्दिष्टं गवां राम रसायनम्॥
शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत् ॥२५॥
जरान्विता तथा स्थानं तच्च शीतं द्विजोत्तम॥
धार्यं चैव गवां मध्ये मत्तोजः सर्वथा भवेत् ॥२६॥
गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः ॥२७॥
गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव॥
आनाहशूलारुचिनाशनं तदजाविकस्यापि तथा प्रशस्तम् ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०- रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥
N/A
References : N/A
Last Updated : December 08, 2022
TOP