संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६९

खण्डः २ - अध्यायः १६९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


अथ यथाकालं।
गतमनवस्त्वेकसप्ततिहताश्चतुर्युगाब्दहताः कार्याः ।
तेषु कृतप्रमाणं क्षेप्यम् ।
तमेव तत्र भूयो गतसंख्याहतं च ततो वर्तमानमन्वन्तराद्गतचतुर्युगसंख्याहतानि चतुर्युगाब्दानि युगानि च वर्तमानयुगाच्चैत्रप्रभवगताब्दानि च एवमिष्टकालाब्दगणो भवति ।
स द्वादशहतश्चैत्रसितादिमासयुक्तस्त्रिंश द्धतोवमानमितादितिथिसहितः कार्यः ।
एवं सौरो दिनगणो भवति ।
तं पृथक्कल्पाधिमासकहतं कल्पनविदिनैर्विभजेत् ।
लब्धं गताधिमासाः ।
तैस्त्रिंशदब्दैरर्काहर्गणोयुक्ते चन्द्राहर्गणो भवति ।
तं पृथक्कल्पावमहतं कल्पचन्द्रदिनैर्विभजेत् ।
लब्धं गतोनरात्रिः तैश्चन्द्राहर्गणाद्धनं साधनाहर्गणो भवति ।
अधिमासशेषस्य कल्पाधिमासकैर्भागे हते एष्याधिमासकैर्भागे हते गताधिमासकस्य दिनादिः कालो लभ्यते । अधिमासशेषं कल्परविदिवसेभ्यः संशोध्यावशेषस्य कल्पाधिमासकैर्भागे हते एष्येधिमासेकतास्य कालो लभ्यते । अवमशेषस्य कल्पेन रात्रेर्भागे हते एष्योनरात्रकालः अवमशेषकल्पचन्द्रदिवसेभ्यः संशोध्यावशेषस्य कल्पोनरात्रेनरात्रेर्भागे हते एष्योनरात्रपातकालः संवत्सरगणात्पंचहतावशेषे संवत्सराद्योब्दः आदित्यः, चन्द्रः , भौमः, बुधः, जीवः, सितः, सौरश्चेति क्रमेण ग्रहणं संवत्सराः सप्तहतावशेषे चतुर्थक्रमेण संवत्सराधिपः सावनाद्दिनगणात्सप्तहृतात्क्रमेणैव दिवसाधिपः चान्द्राः दिनगणा दशात्यधिकशतहताल्लब्धं सप्तहतं तदवशेषं पर्व ब्रह्मचन्द्रेंद्रवैश्रवणवरुणाग्नियमाश्च पर्वपतयः दिनगणमि ष्टग्रहभगणगुणभूदिनैर्विभजेत् ।
लब्धं भगणादिः लेखार्कोदयो ग्रहो भवति ।
एवंरूपेणाहर्गणेन ग्रहभुक्तिः ।
इष्टां कालाद्यावताकालेनार्कोदयो भविष्यति तावता कालेन ग्रहस्येकदिवसभुक्तिं संगुण्य षष्ट्या विभजेत् ।
अवाप्तं रव्युदये ग्रहस्य धनमस्तमये ऋणम् ।
एवमुत्तरगोले दक्षिणेन विपरीत दिशान्तरयोजनानि षष्ठ्यासङ्गुण्य पञ्चभिः सहस्रैर्विभजेत् ।
लब्धं लेखाप्राग्भावे संशोध्यमपरस्मिन्देयमेवमिष्टे देशे ।
इष्टे च काले ग्रहो मध्यमो भवति ।
तत्कालार्कचन्द्रमन्दकर्मणैव स्फुटे कार्यो भौमः कर्मचतुष्टयेन तस्य मन्द शीघ्रं मंदं शीघ्रमिति च कर्माणि ।
अन्येषां मन्दशीघ्रे कर्मणी तत्र भौममर्दः संस्कार्यः तच्छीघ्रपरिधिश्च शुक्रस्य परिधिद्वयमपि तत्र भौमजीवसौराणामर्कः शीघ्रः ।
स्वयं मध्यमो बुधशुक्रयोरर्को मध्यमः ।
स्वयं शीघ्रोशीघ्रो ग्रहोनं केन्द्रः ग्रहश्च मन्दोनः भौमशीघ्रकेन्द्रपदभुक्ताभुक्तयोरल्पस्य जीवं चतुर्भिः शतैः ग्रहैश्च मन्दोनः भाणितं द्वादश्या जीवया विभजेत् ।
लब्धेन केन्द्रे मकरादिगे भौममन्दयुतं कार्यं कर्कटादिगे चोनमिति शुक्रमदं केन्द्रज्यां न्यासार्धावहूतां
लब्धेन तं मदं परिधिरूनः स्पष्टो भवति ।
तस्यैव शीघ्रकेन्द्रज्यां व्यासार्धं पञ्चमेन विभजेत् ।
लब्धे युतः शुक्रशीघ्रपरिधिः स्पष्टो भवतीति मन्दकेन्द्रात् जीवा भुजज्या त्रिराशिसहितार्कोटिज्याकोटिभुजज्ये स्वमर्दवारिधिहते खरसामिभिर्विभजेत ।
लब्धं भुजकोटिपाते मकरादिकेन्द्रे कोटिफलं व्यासार्थे दद्यात ।
कुलीरादिके शोधयेत्कोटिर्भवति ।
भुजाफलं भुजा कोटिभुजावर्गयोगमूलं कर्णः व्यासार्धहतां भुजज्यां स्फुटकर्णेन विभजेत् ।
लब्धचापं फलकलाः मेषादिकेन्द्रे ग्रहे शोध्यास्तुलादौ देयाः ।
भौमस्य श्यममन्दकर्मण्यधिकृताः एवं स्पन्दस्फुटग्रहं शीघ्रादपास्य केन्द्रं कृतैतदेव शीघ्रपरिधिना कर्म कुर्यात् । तत्फलं मन्दस्फुटे ग्रहे मेषादिकेन्द्रे धनं तुलादृणमिति ।
भौमस्य प्रथमे शीघ्रकर्मणि तदूनीकृतं एवं ग्रहः स्फुटो भवति।
बुधसितपातौ विपरीतेन अब्दफलेन स्फुटो कार्यो भौमजीवसौराणां शीघ्रान्त्यफलेनानुलोमेनानीतवर्तमानस्फुटं ग्रहान्तरं स्फुटभुक्तिः अर्कफलम् ।
स्फुटभक्तिहतं भवनकलाभिर्विभजेत् लब्धमर्ककेन्द्रवशे तद्वदेव ग्रहस्य धनर्णे योज्ये ।
अन्त्यशीघ्रकर्माविशेषं केन्द्रस्य वक्रादिकेन्द्रस्य वान्तरं स्फुटभुक्तिशीघ्रमुत्संतरेण विभजेत् ।
लब्धो वक्रादेर्दिनादिः कालः धुवककेन्द्रेधिक एष्यः शीघ्रकेन्द्रेधिकेतीतः॥
इति श्रीवि० मा० वज्र सं० द्वितीयखण्डे रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रे ग्रहगतिर्नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥१६९॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP