संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६४

खण्डः २ - अध्यायः ०६४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
शोधनं वसनं चैव तथैव च विरेचनम्॥
भावना चैव पाकश्च बोधनं धूपनं तथा ॥१॥
वासनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम्॥
कपित्थबिल्वजम्बाम्रबीजपूरकपल्लवैः ॥२॥
कृत्वोदकं तु यद्द्रव्यं शोधितं शौचितं तु तत्॥
तेषामभावे शौचं तु मृतदर्शाम्भसा भवेत् ॥३॥
तदभावे तु कर्तव्यं तदा मुस्ताम्भसा द्विज॥
शुष्कं शुष्कं पुनर्द्रव्यं पञ्चपल्लववारिणा ॥४॥
प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम्॥
पञ्चपल्लवतोयेन क्वाथयित्वा पुनःपुनः ॥५॥
द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत्॥
हरीतकीं ततः पिष्ट्वा पञ्चपल्लववारिणा ॥६॥
तेन पथ्याकषायेण तच्चूर्णं भावयेत्सकृत्॥
शोषितं शोधयेदेतद्विरेकं तत्प्रकीर्तितम् ॥७॥
ततस्तु गन्धद्रव्येण यथेष्टं कुङ्कुमादिना॥
भावयेत्तेन तद्द्रव्यं भावना सा प्रकीर्तिता ॥८॥
तेनैव भावयेद्द्रव्यं पञ्चपल्लववारिणा॥
आश्वत्थेनैव तेनाथ द्रव्यं राम तथास्तु तत् ॥९॥
मृदा पिहितसत्त्वो तु मृण्मये भाजनद्वये॥
विपचेत्तु विधूमाग्नावर्तधूमः पुनःपुनः ॥१०॥
तावेव क्वाथयेत्तावत्तत्रैवानुगतो रसः॥
एतत्पाकविधानं ते पञ्चमं परिकीर्तितम् ॥११॥
ततस्तु भावनाद्रव्यं कल्कपिष्टं नियोजयेत्॥
कल्कपिष्टे तथा द्रव्ये बोधनं परिकीर्तितम् ॥१२॥
ततस्तु पूजयेद्द्रव्यं पूर्वमेव तु पथ्यया॥
ततस्तु गुरुशुक्तिभ्यां चन्दनागरुभिस्ततः ॥१३॥
कर्पूरमृगदर्पाभ्यां ततश्चैनं प्रधूपयेत्॥
इत्येतद्वासनं राम कर्म तेऽभिहितं मया ॥१४॥
ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः॥
पुष्पैर्बकुलजातीनां तथान्येषां सुगन्धिभिः ॥१५॥
छायासु शोष्यमाणस्य वासना क्रियते तु या॥
वासना सा विनिर्दिष्टा कर्मैतच्चाष्टमं शुभम् ॥१६॥
कर्माष्टकमिदं कृत्वा वचां पिण्डनिभां तथा॥
मुस्तं शैलेयकं वापि सेव्यं वा द्विजसत्तम ॥१७॥
शोधयेद्गान्धिको विद्याद्यथान्यत्कर्मसेत्स्यति॥
निर्यासानां च पुष्पाणां कर्माष्टकमिदं शुभम् ॥१८॥
विदुषा नैव कर्तव्यं कार्यमन्यत्र भार्गव॥
अशोधितैस्तथा धूपाः कार्या द्रव्यैर्यथाविधि ॥१९॥
अतः परं तु ते योगान्कांश्चिद्वक्ष्यामि ताञ्छृणु॥
नखं कुष्ठं धनं मांसीस्पृक्त्वा शैलेयकं जलम् ॥२०॥
तथैव कुङ्कुमं लाक्षा चन्दनागुरुणी नतम्॥
सरला देवकाष्ठं च कर्पूरं कार्तया सह ॥२१॥
बोलं कन्दुरकश्चैव गुग्गुलः श्रीनिवासकः॥
सह सर्जरसेनेयं धूपद्रव्यैकविंशतिः ॥२२॥
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया॥
द्वेद्वे द्रव्ये समादाय सर्जभागे नियोजयेत् ॥२३॥
नवे पिण्याकवलयैः संयोज्य मधुना तथा॥
धूपयोग्या भवन्तीह यथावत्स्वेच्छया कृताः ॥२४॥
त्वचं जातीफलं तैलं कुङ्कुमं ग्रन्थिपर्णकम्॥
शैलेयं तगरं काष्ठं ताम्बूलं तगरं तथा ॥२५॥
मांसीसरावकुष्ठं च नव द्रव्याणि निर्दिशेत्॥
एतेभ्यस्तु समादाय द्रव्यं तत्र यथेच्छया ॥२६॥
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनम्॥
द्रुक्सुरानलदैस्तुल्यैर्वान्यकारसमायुतैः ॥२७॥
स्नानमुत्पलगन्धि स्यात्सतैलं कुङ्कुमैर्युतम्॥
जातीपुष्पसुगन्धि स्यात्तगरार्धेन योजितम् ५२८॥
बालकाञ्चनसंयुक्तं पाटलाकुसुमायते॥
सव्यापकं स्याद्बकुलैस्तुल्यगन्धि मनोहरम् ॥२९॥
नालिकावंशसहितं कुट्टिपादेन चार्यकम्॥
द्विकेसरं वेणुपादं कुन्दपुष्पायते तथा ॥३०॥
शैलपादार्थसंयुक्तं व्यक्तं मदनकं भवेत्॥
मञ्जिष्ठा तगरं बालं द्वयं व्याघ्रनखं नखम् ॥३१॥
गन्धपत्रं च विन्यस्य गन्धतैलं भवेच्छुभम्॥
तैलं निष्पीडितं राम तिलैः पुष्पाधिवासितैः ॥३२॥
वासनापुष्पसदृशं गन्धने तु भवेद्द्रुतम्॥
पूर्ववच्छोधयित्वा तु मुस्तं सेव्यं वचां निशाम् ॥३३॥
अभीष्टमन्यत्कलुषं यथावदनुलेपयेत्॥
उद्धृत्य चन्दनादिं च शोधनं वमनं तथा ॥३४॥
वर्जयित्वा विरेकं च शेषकर्माणि कारयेत्॥
तद्वा भवति धर्मज्ञ वर्णकं त्रिदिवप्रियम् ॥३५॥
पटवासांसि कार्याणि वर्णकैः श्लक्ष्णचूर्णितैः॥
एलालवङ्गकक्कोलजातीफलनिशाकराः ॥३६॥
जातिपत्रिकया सार्द्धं स्वतन्त्रं मुखवासकम्॥
कर्पूरं कुङ्कुमं कान्तं मृगदर्पं हरेणुकम् ॥३७॥
कक्कोलैलालवङ्गं च जाती कोशकमेव च॥
द्रुक्पत्रं त्रुटिमुस्तं च लताकस्तूरिकं तथा ॥३८॥
कण्टकानि लवङ्गस्य फलपत्रैश्च जातितः॥
कटुकं च फलं राम कर्षिकाण्डां प्रकल्पयेत् ॥३९॥
तच्चूर्णे खादिरं सारं दद्यात्तुल्यतुलार्पितम्॥
सहकण्यारसेनास्य कर्तव्या गुलिकाः शुभाः ॥४०॥
मुखे न्यस्ताः सुगंधास्ता मुखरोगविनाशनाः॥
पूर्वं प्रक्षालितं सम्यक्पद्यपल्लववारिणा ॥४१॥
शक्त्या तु गुलिकद्रव्यैर्वासिकं मुखवासकम्॥
कटुकं दन्तकाष्ठं च गोमूत्रे वासितं त्र्यहम् ॥४२॥
कृतं च पूगवद्राम मुखसौगन्ध्यकारकम्॥
त्वक्पथ्ययोः समावंशौ सितभागार्धसंयुतौ ॥४३॥
नागवल्लीसमो भाति मुखवासो मनोहरः ॥४४॥
कटुकफलनताम्बुत्वक्त्रुटिव्याधिपत्त्रैर्नलदनतसुराभिस्तुल्यभागान्वितानि॥
द्विगुणितकृतमात्राप्रातिकक्कोलसैम्यैः शशिरसरसमोऽयं गन्धपत्रं विदध्यात् ॥४५॥
निहितमिदमनर्घं कर्णपत्रं युवत्याः शमयति विविधानि श्रोत्रपालीगदानि॥
अपरमपि च यावत्काममामोदमत्तुं भ्रमदलिपटलेन व्याप्यते वक्त्रभागः ॥४६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपाख्याने गन्धयुक्तिर्नाम चतुष्षष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP