खण्डः २ - अध्यायः १७८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच॥
धनुर्वेदं समाचक्ष्व संक्षेपात्सुरनन्दन॥
सर्वं त्वमेव जानासि यथा देवः पितामहः ॥१॥
पुष्कर उवाच॥
चतुष्पादो धनुर्वेदस्तथा पञ्चविधो द्विज॥
रथनागाश्वपत्तीनां पादानाश्रित्य कीर्तितः ॥२॥
यन्त्रमुक्तं प्राणिमुक्तं मुक्तसन्धारितं तथा॥
अमुक्तं बाहुयुद्धं च पञ्चधा तत्प्रकीर्तितम् ॥३॥
तच्च शस्त्रास्त्रसंपत्त्या द्विविधं परिकीर्तितम्॥
दण्डमायाविभेदेन भूयो द्विविधमुच्यते॥
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ॥४॥
क्षेपणीचापयन्त्राद्यं यन्त्रमुक्तं प्रकीर्तितम् ॥५॥
शिलातोमरचक्राद्यं पाणिमुक्तं तथैव च॥
मुक्तसन्धारितं ज्ञेयं पाशाद्यमपि यद्भवेत् ॥६॥
खड्गादिकमनुक्तं च तथा ज्ञेयं महाभुज॥
नियुद्धं व्यायुधं ज्ञेयं पाणिप्रहरणादिकम् ॥७॥
तत्रादावेव योग्यत्वं गात्राणां तु विधीयते॥
तथा व्यायामचारित्वं भारकर्षणमेव च ॥८॥
जितश्रमो हि युद्धेषु कर्मयोग्यत्वमाप्नुयात्॥
रथाश्वगजपृष्ठेषु तानि शस्त्राणि चाभ्यसेत्॥
तानि वै खड्गमुख्यानि बाहुप्रत्यवराणि च॥
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ॥१०॥
वैश्यस्य गुरुतां कुर्यान्न वा कुर्यात्तथा द्विजम्॥
धनुर्वेदे न गुरुतां शूद्रः कुर्यात्कदाचन ॥११॥
स्वयमेव तु शूद्रं च कर्तव्या कर्मयोग्यता॥
तस्मायुद्धाधिकारोस्ति शूद्रस्यापि विशांपते ॥१२॥
सङ्गराणामपि तथा हितः स्यात्स स्वयं प्रभोः॥
सर्वरत्नैर्महाराज राजा रक्ष्यः प्रयत्नतः ॥१३॥
श्रद्धावतो भक्तिमतः सुशीलान्नम्रान्विनीतान्क्षमयोपपन्नान्॥
स्निग्धान्नरेशान्सुदृढान्मनोज्ञानध्यापनीयांस्तु वदन्ति सन्तः ॥१४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे धनुर्वेदवर्णनो नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥१७८॥
N/A
References : N/A
Last Updated : December 21, 2022

TOP