संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १२७

खण्डः २ - अध्यायः १२७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
शान्तातीतं गणं हुत्वा शान्तिमाप्नोति मानवः॥
भैषज्यं च गणं हुत्वा सर्वान्रोगानपोहति ॥१॥
त्रिषस्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते॥
क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम् ॥२॥
न क्वचिज्जायते राम गणं हुत्वा पराजयः॥
आयुष्यं च गणं हुत्वा चापमृत्यून्व्यपोहति ॥३॥
एते दशगुणाश्चैव होतव्याः स्युर्यथाक्रमम्॥
अष्टादशसु धर्मज्ञ दशशान्तिषु भार्गव ॥४॥
वैष्णवी च तथा चैन्द्री ब्राह्मी रौद्री तथैव च॥
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥५॥
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता॥
मारुद्गणी च गान्धारी शान्तिर्वै रुदती तथा ॥६॥
शान्तिरांगिरसी याम्या पार्थिवी च भृगूत्तम॥
एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ॥७॥
यस्त्वामृत्युरितीत्येतज्जप्तं मृत्युविनाशनम्॥
हुत्वा च मातृनामानि कामानेवमवाप्नुयात् ॥८॥
सुपर्णस्त्विति हुत्वा च भुजगैर्नैव बाध्यते॥
यस्येदं भूमिमिति च भूमिकामो जपेत्सदा ॥९॥
पृथिव्यामुत्तमोसीति हुतं श्रैष्ठ्यप्रदं सदा॥
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ॥१०॥
इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम्॥
हिरण्यवर्ण इति च स्नानं पापहरं भवेत् ॥११॥
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम॥
सारस्वतीति मन्त्रांश्च विषघ्नान्निर्विशेद्बुधः ॥१२॥
शरभादीनि सर्वाणि पिशाचक्षपणानि च॥
यमस्य लोकादित्येतद्दुःस्वप्नशमनं परम् ॥१३॥
अग्नेर्व इति चाप्येतत्कथितं मन्युनाशनम्॥
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः ॥१४॥
इन्द्रं वयं वणिजमिति पण्यलाभकरं परम्॥
कामो मे राज्ञीति हुतं स्त्रीणां सौभाग्यवर्धनम् ॥१५॥
भद्राय कर्णमित्येतत्कर्णप्रस्यन्दने जपेत्॥
भद्रासाक्षिवधे जाता कर्णप्रस्यन्दने तथा ॥१६॥
तुभ्यमेवाजिरिति आयुष्यं तु हुतं भवेत्॥
आयातु पितमित्येतन्मित्रलब्धिकरं हुतम् ॥१७॥
आशासानमिदं जना मिश्रधान्येन होमयेत्॥
आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम ॥१८॥
अग्निरीशेभिरित्येतद्गवां वृद्धिकरं परम्॥
द्वादशाहं तु जुहुयात्पराकेण विशेषतः ॥१९॥
शातो हविरितीत्येतद्ग्रामस्वास्थ्यकरं भवेत्॥
तस्माद्ग्रामान्मृदा कृत्वा वेदिसाम्यं समश्नुते ॥२०॥
विधाय स्वेति सर्वाणि राष्ट्रस्वीकरणानि तु॥
त्रिभ्यो भद्रेभ्य इत्येतद्वास्तोष्पतमुदाहृतम् ॥२१॥
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत्॥
अच्युतापोस्तथा राम कथितं स्थानलाभदम् ॥२२॥
पयो देवेष्विति हुतं रायस्पोषकरं परम्॥
युनक्त सीरेति शुना कृषिलाभकरं भवेत् ॥२३॥
अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत्॥
शुने वत्सा तथा ह्येतद्गवां वृद्धिकरं हुतम् ॥२४॥
  मेति कथितं सर्वत्र श्रैष्ठ्यकारकम्॥
यदग्न इति चाप्येतद्बन्धनान्मोक्षकारकम् ॥२५॥
यो न स्व इति चाप्येतच्छत्रुनाशकरं परम्॥
सवन्नहन्निति तथा नात्र कार्या विचारणा ॥२६॥
( त्वमत्वममितीत्येतद्यशसो वर्धनं परम्॥
यथा वृषिमितीत्येतत्स्त्रीणां सौभाग्यवर्धनम् ॥२७॥
आनो अग्न इत्येतच्च कथितं पतिलाभदम्॥
येन वेहेति मां चैव गर्भलाभकरं भवेत् ॥२८॥
इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम्॥
यत्पृथिव्यामनावृत्तं हुतमेतद्यथाविधि ॥२९॥
कृत्वा तु संशनं ज्ञेयं नात्र कार्या विचारणा॥
 ॥३०॥)
शिवं शिवाभिरित्येतद्भवेच्छ्रेयस्करं परम्॥
दूत्या दूषणमित्येतत्कृत्यादूषणमुच्यते ॥३१॥
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत्॥
मनो विवन्न भयदं पथि स्वस्त्ययनं भवेत् ॥३२॥
अयन्नो अग्निरध्यक्षो भवेदग्निप्रसादतः॥
संवत्सरं तु शिरसा धारयेद्यो हुताशनम् ॥३३॥'
 मन्त्रमेतज्जपेन्नित्यमाग्नेयाशामुखः स्थितः॥
अनग्निज्वलनं कुर्याद्रामसंवत्सरे गते ॥३४॥
दूत्या दूतिरसीत्येतज्जपेन्मन्त्रमनुत्तमम्॥
कुर्यात्प्रदिसराबन्धं सर्वदोषनिबर्हणम् ॥३५॥
प्राणसूक्तञ्च कथितं तथा प्राणविवर्धनम्॥
मुञ्चामि त्वेति कथितमपमृत्युविमोक्षणम् ॥३६॥
अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते॥
परमं पावनं तद्धि सर्वकल्मषनाशनम् ॥३७॥
एवमेते शुभा मन्त्राः प्रतिवेदं मया तव॥
समासात्कथिता राम समुद्धृत्य प्रधानतः ॥३८॥
एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः॥
कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः ॥३९॥
न ते शक्या महाभाग वक्तुं वर्षशतैरपि॥
प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम् ॥४०॥
होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव॥
हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ॥४१॥
वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः॥
आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥४२॥
अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव॥
दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च ॥४३॥
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव॥
तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम् ॥४४॥
समिधः कण्टकोपेता अभिचारेषु योजयेत्॥
आर्षं वै दैवतं छन्दस्त्वविज्ञाय भृगूत्तम ॥४५॥
मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत्॥
छन्दसि ब्राह्मणे सूक्ते यदव्यक्तं प्रदृश्यते ॥४६॥
विद्वद्भि सह निश्चित्य तद्यज्ञमवतारयेत्॥
सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः ॥४७॥
शाखां प्रति तथा तत्र तत्प्रमाणमिति स्थितिः॥
यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते ॥४८॥
अप्रमाणमृषिं कृत्वा सोऽप्यधमेण युज्यते॥
तस्मात्सर्वप्रयत्नेन स्वसूत्त्रं न विलंघयेत् ॥४९॥
प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यया द्विज॥
सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ॥५०॥
अथर्वणोऽयं कथितो विधिस्ते संक्षेपतो भार्गववंशमुख्य॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥५१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनन्नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥१२७॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP