संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६२

खण्डः २ - अध्यायः ०६२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
धर्मश्चार्थश्च कामश्च पुरुषार्थः परः स्मृतः॥
अन्योन्यरक्षणात्तेषां सेवा कार्या महीक्षिता ॥१॥
धर्ममूलोर्थविटपस्तथा कामफलो महान्॥
त्रिवर्गपादपस्तस्य रक्षणात्फलभाग्भवेत् ॥२॥
धर्माविरोधिनी कार्या कामसेवा सदैव तु॥
मूलच्छेदे भवेन्नाशो विटपस्य फलस्य च ॥३॥
कामसेवाविहीनस्य धर्मार्थावपि निष्फलौ॥
ओषधीनां फलार्थाय कीनाशो यत्नवांस्तथा ॥४॥
कामार्थी यत्नवानेवं लोभो धर्मार्थयोर्द्विज॥
कामस्यापि परं नार्यो धर्मरागमदोत्कटाः ॥५॥
तदर्थं रत्ननिधयो विभवाश्च तथा परे॥
गीतं वाद्यं सुमधुरं भोज्यं पानं स्रजिस्तथा ॥६॥
भूषणानि सुगन्धीनि तदर्थं सर्वमेव हि॥
तपश्चापि तपस्यन्ति दुःखं परमुपाश्रिताः ॥७॥
दुर्गमाणि च तीर्थानि व्रजन्ति पुरुषास्तथा॥
त्यजन्ति समरे प्राणान्प्राणेभ्योऽप्यधिकं धनम् ॥८॥
त्यजन्ति ब्रह्मणादिभ्यस्तथा स्वर्गेप्सवो जनाः॥
स्वर्गस्यापि धनं राम कारणं विद्धि भार्गव ॥९॥
ता एव चपलापाङ्गविक्षेपविजिताः प्रजाः॥
क्षयमेव क्षयं तस्य यस्य नाध्यसितं सदा ॥१०॥
अधः कृत्वेन्दुबिम्बाग्रवदनाभिः पुरन्ध्रिभिः॥
तस्यैकं सफलं जन्म सम्पदश्च मनोरथाः ॥११॥
यस्यैताश्चञ्चलापाङ्ग्यस्तरुण्यो वशमागताः॥
सेव्यास्ता नातिसेव्याश्च भूभुजा विजिगीषुणा ॥१२॥
असेवनाद्वृथा जन्म दोषग्रामोऽतिसेवनात्॥
ऊरुस्तम्भत्रयं प्रोक्तं शरीरेषु शरीरिणाम् ॥१३॥
आहारं मैथुनं निद्रा यैर्वृतं सकलं जगत्॥
असेवनादथैतस्य तथैवात्यन्तसेवनात् ॥१४॥
रोगग्रामो नृणां देहे सम्भवत्यतिदारुणः॥
विश्वासमतिसक्तिं च तीक्ष्णतां स्त्रीषु वर्जयेत् ॥१५॥
न चाधिकारे कर्तव्या भूषणाच्छादनाशनैः॥
सुविभक्ताश्च कर्तव्या लालनीयास्तथैव च ॥१६॥
ज्ञेयौ रागापरागौ च तथा तासां विशेषतः॥
नारी रागवते लोके नानृतेन विशिष्यते ॥१७॥
विरक्ताभिर्महीपाल छद्मना बहवो हताः॥
द्विष्टान्याचरते या तु नाभिनन्दति तत्कथाम् ॥१८॥
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता॥
चुम्बिता मार्ष्टि वदनं दत्तं न बहुमन्यते ॥१९॥
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यति॥
स्पृष्ट्वा धुनोति गात्राणि कान्तं चैव रुणद्धि या ॥२०॥
ईषत्स्मितेन वाक्यानि प्रियाण्यपि पराङ्मुखी॥
नयत्यश्रुतवद्या तु जघनं च विगूहति ॥२१॥
दृष्टे विवर्णवदना मित्रेष्वपि पराङ्मुखी॥
तत्कामितासु च स्त्रीषु मध्यस्थैव च लक्ष्यते ॥२२॥
ज्ञातमङ्गलकालापि न करोति च मण्डनम्॥
या सा विरक्ता रक्ता च निबोध गदतो मम ॥२३॥
दृष्ट्वैव हृष्टा भवति वीक्षते च पराङ्मुखम्॥
दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलाम् ॥२४॥
तथाप्यपावर्तयति नैव शक्नोत्यशेषतः॥
विवृणोति तथाङ्गानि सुगुह्यान्यपि भार्गव ॥२५॥
गर्हितं च तथैवांगं प्रयत्नेन विगूहते॥
तद्दर्शनेन कुरुते बालालिङ्गनचुम्बनम् ॥२६॥
आभाष्यमाणा भवति सन्नवाक्या तथैव च॥
स्पृष्ट्वा पुलकितैरंगैः सखे दैर्वापि भज्यते ॥२७॥
करोति च तथा राम सुलभद्रव्ययाचनम्॥
ततः स्वल्पमपि प्राप्य प्रयाति परमां मुदम् ॥२८॥
नाम संकीर्तनादेव मुदिता बहु मन्यते॥
करजाङ्काकितान्यस्य फलानि प्रेषयत्यपि ॥२९॥
तत्प्रेषितानि हृदये विन्यस्यत्यपि चादरात्॥
आलिङ्गनैश्च गात्राणि लिम्पन्तीवामृतेन च ॥३०॥
सुप्ते स्वपित्यथादौ तु तथा तस्य विबुध्यते॥
ऊरू स्पृशति चात्यर्थं सुप्तं चैनं विचुम्बते ॥३१॥
एवं रक्तां तु विज्ञाय कामयेतात्मवान्नरः॥
कामं च भोजनं सख्यं ज्ञेयाः कृत्रिमपुत्रिकाः ॥३२॥
स्वीकर्तुमिच्छन्बालायाः क्रीडनादिस्तथैव च॥
गन्धमाल्यप्रदानेन यौवनस्थां वशं नयेत् ॥३३॥
वस्त्रभूषणदानेन तया यौवनविच्युताम्॥
क्रीडासाधुप्रिया बाला तथा यौवनविच्युता ॥३४॥
रतिप्रिया तु विज्ञेया तरुणी चोभयप्रिया॥
आत्मसंभावना स्त्रीषु न कर्तव्या कथंचन ॥३५॥
असूया जायतेऽत्यर्थमात्मसंभाविते नरे॥
न चासां दर्शनं देयं न चात्यन्तमदर्शनम् ॥३६॥
उभयेनाप्यथैतासामुत्कण्ठा तु विहन्यते॥
हृद्यैः सुविहितैर्भोगैर्गन्धयुक्तैश्च कौशलैः॥
कार्यमाराधनं स्त्रीणां रतिकामैः सदैव तु ॥३७॥
एवं सदा यस्तु करोति राम स्त्रीचेतसां स्वीकरणं मनुष्यः॥
तस्यान्तराया न भवन्ति किञ्चित्स्त्रीद्वारमासाद्य सदासपत्नः ॥३८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अन्तःपुरचिन्ता नाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP