खण्डः २ - अध्यायः ०९२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
ततोऽग्निशरणं गत्वा स्मार्तेऽग्नौ विधिपूर्वकम्॥
वैश्वदेवं तु कर्तव्यं हुतोत्सृष्टं तु लौकिके ॥१॥
यत्र क्वचन वा राम दीप्यमानेऽथ चोदके॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिस्तरेत् ॥२॥
सर्वान्नमग्नावुद्धृत्य जुहुयात्प्रयतस्ततः॥
वासुदेवाय देवाय प्रभवे नाप्ययेन च ॥३॥
अग्नये चैव सोमाय मित्राय वरुणाय च॥
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥४॥
विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये तथा॥
अनुमत्यै तथा राम धन्वंतरिण एव च ॥५॥
वास्तोष्पत्यै तथा देव्यै ततः स्विष्टिकृतेऽग्नये॥
चतुर्थ्यन्तेन नत्वा च हुत्वैतेभ्यो बलिं हरेत् ॥६॥
तक्षोपतक्षावभितः पूर्वेणाग्निमतः परम्॥
अम्बानामासि धर्मज्ञ दुर्गा नामानि चाप्यथ ॥७॥
निवन्ती च पनीका च प्रभवन्ती तथैव च॥
मेधवन्ती च नामासि सर्वेषामेव भार्गव॥८।
आग्नेयाद्याक्रमेणाथ ततः सूक्तिषु निक्षिपेत्॥
निर्दित्यै वसुभाग्यै च सुमङ्गल्यै च भार्गव ॥९॥
भद्रंकर्यै ततो दत्त्वा स्थूणायै च तथा श्रियै॥
हिरण्यकेश्यै च तथा वनस्पतय एव च ॥१०॥
धर्माधर्माभ्यां च द्वारे गृहमध्ये ध्रुवाय च॥
मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये ॥११॥
भूतेभ्यश्च बहिर्दद्याच्छरणे धनदाय च॥
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात्पूर्वेण मानवः ॥१२॥
यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस्ततः॥
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्ततः ॥१३॥
सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरम्॥
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥१४॥
आकाशे च तथैवोर्ध्वं स्थण्डिले च तथा क्षितौ॥
दिवाचरेभ्यश्च दिवा रात्रौ रात्रिचराय च ॥१५॥
बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहम्॥
पिण्डनिर्वापणं कार्यं सायं प्रातर्न कारयेत् ॥१६॥
पित्रे तु प्रथमं पिण्डं तत्पित्रे तदनन्तरम्॥
ततो दद्याच्च तत्पित्रे मात्रे च तदनन्तरम् ॥१७॥
पितृमात्रे ततो दद्याच्छ्वश्र्वै तदनन्तरम्॥
दक्षिणाग्रेषु दर्भेषु सलिलेषु विशेषतः ॥१८॥
यत्किञ्चित्पश्यते गेहे भक्ष्यं वा भोज्यमेव वा॥
निवेदयेच्च तत्सर्वं शुभं पानं विशेषतः ॥१९॥
पुष्पैर्धूपेन दीपेन पूजयेत्सततं पितॄन्॥
नामगोत्रे सदा वाच्ये पिण्डनिर्वापणे तथा ॥२०॥
पिण्डं दद्याच्च काकानां तत्र मन्त्रमिमं पठेत्॥
ऐन्द्रा वरुणवायव्या याम्या वै नैर्ऋतास्तथा ॥२१॥
ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम्॥
ततः पिण्डं शुनां दद्यान्मन्त्रं तत्र निबोध मे ॥२२॥
वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ॥
ताभ्यां पिण्डं प्रदास्यामि पथि रक्षन्तु मां सदा ॥२३॥
ततो ग्रासं गवां दद्यादत्र मन्त्रं निबोध मे॥
सौरभेय्यः सर्वहिताः पवित्राः पापनाशिनीः ॥२४॥
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः॥
ततः स्वस्तययनं कार्यं भिक्षा देया च भिक्षवे ॥२५॥
दत्त्वा तु संस्कृतां भिक्षां गोदानफलमाप्नुयात्॥
बालः सुवासिनी वृद्धा गर्भिण्यातुरकन्यकाः ॥२६॥
भृत्याँश्च भोजयेद्राम पूजयित्वा तथातिथीन्॥
नैकग्रामीणमतिथिं विद्यान्नाब्राह्मणं तथा ॥२७॥
अतिथिं भोजयेत्पूर्वं ततो भृत्यांश्च पूजयेत्॥
राजन्यमथवा वैश्यं शूद्रं वा द्विजसत्तम ॥२८॥
वैश्वदेवे च संप्राप्तं भृत्यैः सह च भोजयेत्॥
वयोभ्यश्च तथा दद्याच्चण्डालेभ्यस्तथा भुवि ॥२९॥
साधारणं तत्सर्वेषां शेषकं गृहिणां गृहे॥
वैश्वदेवे च संप्राप्ते न कथंचिदवमानयेत् ॥३०॥
आदाय सुकृतं याति भग्नाशश्चातिथिर्गतः॥
अध्वना यस्तु भग्नाय ब्राह्मणाय तथा दिवि ॥३१॥
सत्कृत्य भोजनं दद्यात्तेन स्वर्गे महीयते॥
देवा ब्राह्मणरूपेण चरन्ति पृथिवीमिमाम् ॥३२॥
तस्मात्संप्राप्तमतिथिं प्रयत्नेन तु पूजयेत्॥
अतिथिं पूजयेच्चाग्रे दशगोदफलं लभेत् ॥३३॥
पादशौचं ततो दत्त्वा प्राप्तायांतिथये गृहे॥
गोदानफलमाप्नोति दत्त्वा चैव तथासनम् ॥३४॥
प्रतिश्रयप्रदानेन नाकपृष्ठे महीयते॥
तालवृन्तानिलं कृत्वा तथा प्राप्ताय मानवः ॥३५॥
गोदानफलमाप्नोति वायुलोकं स गच्छति॥
तालव्यजनहस्तस्तु कृत्वा तदभिचारणम् ॥३६॥
अतिथिर्भोजने प्राप्ते गोदानफलमाप्नुयात्॥
शीताहतातिथिं प्राप्य काष्ठान्प्रज्वालयेन्नरः ॥३७॥
प्रतापयेन्महाभाग दशधेनुफलं लभेत्॥
कायाग्निदीप्तिमाप्नोति प्राकाश्यं परमं तथा ॥३८॥
तृष्णार्तायोदकं दत्त्वा पाने गोदानमाप्नुयात्॥
श्रान्तसंवाहनं कृत्वा धेनुदानफलं लभेत् ॥३९॥
रोगिणः परिचर्यां च कृत्वा दशगुणं लभेत्॥
पादाभ्यंगं नरः कृत्वा प्राप्तायातिथये गृहे ॥४०॥
गोदानफलमाप्नोति नागलोकं च गच्छति॥
प्रतिश्रयं तथा दीनं दत्त्वा चातिथये नरः ॥४१॥
धेनुदानफलं प्राप्य सूर्यलोके महीयते॥
चक्षुष्मांश्च प्रकाशांश्च विरोधश्चैव जायते ॥४२॥
शयनीयप्रदानेन वसुदानफलं लभेत्॥
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात् ॥४३॥
शौचोदकप्रदानेन गोदानफलमाप्नुयात्॥
मृत्प्रदानेन धर्मज्ञ विरोधो नाभिजा यते ॥४४॥
दत्त्वानुलेपनं मालां परां लक्ष्मीमुपासते॥
तथौषधिप्रदानेन विरोगस्त्वभिजायते ॥४५॥
स्नानाभ्यङ्गप्रदानेन रूपवानभिजायते॥
तथा स्नानीयदानेन गन्धर्वैः सह मोदते ॥४६॥
स्नानोदकप्रदानेन वारुणं लोकमाप्नुयात्॥
उपानहः प्रदानेन विमानमधिरोहति ॥४७॥
तथा छत्रप्रदानेन गाणपत्यमवाप्नुयात्॥
वस्त्रप्रदानाद्भवति रूपवान्सुभगस्तथा ॥४८॥
अश्वमेधमवाप्नोति तथा भूमिप्रदो नरः॥
यानदः स्वर्गमाप्नोति पौण्डरीकपदं तथा ॥४९॥
वारिधानीस्तथा दत्त्वा पूर्णाः शीतेन वारिणा॥
सर्वा सभक्षाः प्राप्नोति गोलोकं मानुषोत्तम ॥५०॥
त्रपुषैर्वारुकायुक्तैः शर्कराघृतसंयुतैः॥
सक्तुभिर्लवणोपेतैघृर्तैर्हरितसंयुतैः ॥५१॥
तर्पयित्वातिथिं सम्यग्वारिधान्यैश्च गोरसैः॥
गोलोकं चिरमाप्नोति नात्र कार्या विचारणा ॥५२॥
तृप्तिमाप्नोति च तथा यत्रयत्राभिजायते॥
किमिच्छकेन संयोज्य चाश्वमेधफलं लभेत् ॥५३॥
तांबूलस्य प्रदानेन गन्धर्वैः सह मोदते॥
उप्तिमासावृतं कृत्वा स्वर्गलोके महीयते ॥५४॥
इतिहासानथाश्राव्य गोदानफलमाप्नुयात॥
गोप्रदानेन वित्तेन तोषयित्वा तथातिथिम् ॥५५॥
महत्फलमवाप्नोति गन्धर्वैः सह मोदते॥
अनुव्रज्यातिथिं राम गोदानफलमाप्नुयात् ॥५६॥
तस्मात्सर्वप्रयत्नेन पूजयेदतिथिं सदा॥
राजन्या विप्रदैवत्या नार्यश्च पतिदेवताः॥
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा ॥५७॥
सततमिह नरो यः पूजनं चातिथीनां तृणजलमृदुवाक्यैः सारशक्त्या विदध्यात्॥
सुरसदसि स पूज्यो देवतानां तथा स्याद्भवति च नरलोके जायमानः समृद्धः ॥५८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये वैश्वदेवकथनन्नाम द्विनवतितमोऽध्यायः ॥९२॥
N/A
References : N/A
Last Updated : December 09, 2022
TOP