संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १०९

खण्डः २ - अध्यायः १०९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
मणीनामथ काम्यानां श्रोतुमिच्छाम्यहं विधिम्॥
सर्वकामकरं मुख्यं तथा च दुरितापहम् ॥१॥
पुष्कर उवाच॥
आथर्वणेन विधिना मणिकर्म निबोध मे॥
ध्रुवस्तिष्ठेत्यृचा वृक्षं प्रत्यक्षमनुमन्त्रयेत् ॥२॥
पादोनया मणिस्थानं प्रोक्षयेत्तु द्वितीयया॥
अस्याः पादेनोत्तरेण निर्मिमीत मणिं ततः ॥३॥
सबन्धुश्चेति तमृचा तस्माच्छिन्द्यादिति श्रुतिः॥
आहरेत मणिं तस्मात्सूक्तादस्मात्तृतीयया ॥४॥
सर्वत्र तु मणीनां च निर्माणं केवलं भवेत्॥
उपयुक्तास्तु केवाक्षा द्रव्यास्ते परिकीर्तिताः ॥५॥
अङ्गुष्ठपर्वमात्रास्ते कर्तव्यास्तु समन्ततः॥
सम्यगुत्पादयेत्तेषां सम्यग्ग्रन्थिचतुष्टयम् ॥६॥
अग्रतो मूलतो वापि कल्पमानेऽतिरिच्यते॥
अरातीयोरित्यनया छिन्द्याच्छस्त्रेण तत्त्ववित् ॥७॥
अर्थं च सुशिरः कृत्वा ततः प्रक्षाल्य वारिणा॥
पात्रं तमग्नौ कृत्वा तु सम्यगेव यथाविधि ॥८॥
यत्राचक्रुरित्यनया ससूत्रमत उत्तरम्॥
कुर्यात्तदग्निकुण्डं च प्रबोध्य जुहुयाद् घृतम् ॥९॥
प्रत्यृचा स्वेन मन्त्रेण सम्पातानयनं भवेत्॥
कृतशान्त्युदके पात्रे रम्ये लोहमये दृढे ॥१०॥
स्वलिङ्गोद्धृमन्त्रेण दर्विदण्डादतः परम्॥
विमुच्य सर्वं तेनैव मन्त्रेण भ्रामयेन्मणिम् ॥११॥
पात्रे तस्मिंस्ततस्तस्मादुद्धृत्या बन्धनं भवेत्॥
सकलेनैव मन्त्रेण मन्त्रयेच्च तथोद्गतम् ॥१२॥
सामान्यमिदमुक्तं ते शृणु वैशेषिकं द्विज॥
अभीवर्तमणौ कर्म तव वक्ष्याम्यतः परम् ॥१३॥
अभीवर्त्तेन मणिनेत्याद्याभिस्तिसृभिर्मणौ॥
अत्रायं वासवं पात्रं द्वेभ्यश्च प्रत्यृचं पुनः १४॥
दत्त्वा सर्वेण सूक्तेन मणेराधन्वनं भवेत्॥
अभीवर्तमणिः प्रोक्तो नो वा काष्ठान्भृगूत्तम ॥१५॥
अयं योनिरत इति तस्य होमो विधीयते॥
शशकेष्विह ये श्रान्तवत्सभैषज्यभाजनम ॥१६॥
क्षुद्रेषु यदपामार्गं मणिः शान्तविसंज्ञकः॥
इत्येते यावदुक्ताः स्युर्विवाहमधुराश्च ये ॥१७॥
पूर्वोक्तेन भवेद्धर्म एतेषामिति मे मतिः॥
द्रव्यौषधिमणीनां च सभार्याणां तथैव च ॥१८॥
दाक्षायणमणीनां च भवेद्धोमाधिको विधिः॥
ओषधीनामिहेदानीं विधानं शृणु भार्गव ॥१९॥
व्रीहीणां वा यवानां वा मूले तु परितः किरेत्॥
यदि सौम्य सुमन्त्रेण फलकान्येकविंशतिः ॥२०॥
अमुष्मिन्स्थानरूढासु यथाभिलषितां बुधः॥
योजयेन्नाम सम्भूताममुकस्य विभूतये ॥२१॥
घृताहुतेति च द्वाभ्यां घृतेन प्रोक्षयेत्ततः॥
मा ते रिषसीत्यनया ह्या त्वा तमभिमन्त्रयेत् ॥२२॥
गन्धं संछादयेच्चैव ततो भूमेत्यनन्तरम्॥
इत्यौषधीनां सर्वासां सामान्योऽयं विधिः स्मृतः ॥२३॥
एककाद्यास्तु मणयः सलिङ्गं निखनेद्बुधः॥
मन्त्रेण तान्प्रवक्ष्यामि यथावदनुपूर्वशः ॥२४॥
एकाङ्क एककामायेत्येकांके विधिवत्खनेत्॥
आक्रन्दयति सूक्तेन प्रदध्नां यद्यथाविधि ॥२५॥
इयं वीरुदित्यनया विधिवन्मधुघः खनेत्॥
सूक्तेन सुकलेनास्य मणेराबन्धनं भवेत् ॥२६॥
इमां खनामीत्यनया नितनीलिङ्गया खनिम्॥
प्रतीची सौममसितां बध्नीयात्तु यथाविधि ॥२७॥
यात्वा गन्धर्व इन्द्राभ्यां कपिकच्छुं खनेद्वधः॥
सूक्तेनानेन तन्मेढ्रे प्रबध्नीयादिति स्थितः ॥२८॥
इमां खनामीत्यनया दशधास्रुतया खनेत्॥
पाठासूक्तेन बध्नीयादेका राज्ञीमिति श्रुतिः ॥२९॥
दशशीर्ष इति द्वाभ्यां महाख्यं विधिवत्खनेत्॥
आपः पुनन्त्वित्यनेन बध्नीयात्तां यथाविधि ॥३०॥
इमां खनाम्यौषधीं त्वां ढबीं नाम तथोत्खनेत्॥
काण्डीयाऋक्तया त्वेते बध्नीयात्तु यथाविधि ॥३१॥
य आत्मजा इत्यनया खन्यादिति तथैव ताम्॥
अनेनैव प्रबध्नीयाद्विद्वान्सूक्तेन तं मणिम् ॥३२॥
अरिष्टस्त्वा खनतु वै पिप्पलं तु खनेत्तथा॥
यावद्द्यौरिति सूक्तेन तस्य चाबन्धनं भवेत् ॥३३॥
साहसीनावचेत्येवं सैधकं च तथा खनेत्॥
अनेवैव प्रबध्नीयात्सूत्रेण तु यथाविधि ॥३४॥
पयोऽसीत्यथवा हन्यात्स्वर्गपत्रीं यथाविधि॥
सूक्तेन तां प्रबध्नीयादनेनैव यथाक्रमम् ॥३५॥
इमां खनामीत्यनया माषपर्णीं तथा खनेत्॥
द्वाभ्यां चानर्थसक्तत्वप्रबध्नीयादिति श्रुतिः ॥३६॥
ततः खण्डारिकां खन्याद्राजा त्वां वरुणः खनेत्॥
ऋचानया समस्तेन सूक्तेनाबन्धनं भवेत् ॥३७॥
एकार्कप्रभृतीनां तु लिङ्गः कल्प्यं फलं बुधैः॥
सामीयात्वाह वरुणेत्येवमादिषु संश्रिताः ॥३८॥
सामीदयः पदार्थास्ते उपक्लृप्तास्तथा स्मृताः॥
द्रव्यैस्तैस्तु मणिं कुर्यादाम्नायोक्तैर्यथाविधि ॥३९॥
तल्लिङ्गेन तु मन्त्रेण यथावदनुपूर्वशः॥
कुष्ठस्य मणयः पञ्च उदपात्रे विदुर्बुधाः ॥४०॥
प्रत्यैकपाठसंस्कार शुद्धये वेति नः श्रुतम्॥
चतुरस्रं प्रबध्नीयान्मणिमञ्जनवत्तथा ॥४१॥
सैन्धवं लवणं सिद्धमुभयत्र परिग्रहात्॥
कुर्याद्वाक्ष्यं च संस्कारं व्याघ्रत्यपमणौ तथा ॥४२॥
चतुरस्रौ तु कर्तव्यौ मणी कारणकालजौ॥
नैमित्तिकाश्च मणयो मणयः संविदुश्च ये ॥४३॥
स्वंस्वं मन्त्रं भवेत्तेषामिति मे निश्चिता मतिः॥
नैमित्तिकानां घोरास्ते तेषां नैमित्तिकं भवेत् ॥४४॥
सम्पदानां तथा मध्ये साम्पदं नात्र संशयः॥
सीमात्र्यात्वाहेत्यनेन सीमसं जनवद्भवेत् ॥४५॥
पिशाचशातनः पुंसां यातुधानविनाशनः॥
मन्त्रलिङ्गादयं ज्ञेयो मन्त्रश्चास्य प्रवक्ष्यते ॥४६॥
शरकाष्ठे तु संयोज्य सीसं कृत्वेति बुद्धिमान्॥
भार्ङ्गीं ज्यां धनुषः कृत्वा बाधकेनाथ तेन तत ॥४७॥
भूमौ पिशाचमालिख्य भगवेन तु ताडयेत्॥
उत्तरेण शरेणैव पिशाचो नाशमाप्नुयात् ॥४८॥
शंकुधारमणेर्मन्त्र अनुसूर्यमिति स्मृतिः॥
प्रज्ञातवर्णशाब्दाश्च रोहितस्य परिग्रहः ॥४९॥
चर्मणः स्यात्तथा वर्गो रोहितासाभवेच्च गाः॥
शंकुर्निधीयते यत्र विस्तरार्थं तु चर्मणः ॥५०॥
तस्माद्देशान्मणिः कार्यः शंकुर्धनपरिग्रहः॥
मणिधनं च दुग्धं स्यादुपविष्टाय चर्मणि ॥५१॥
यजमानाय धर्मज्ञ उदपात्रं तथामया॥
अतिकामल रोगघ्नमायुष्यश्च तथा मणिः ॥५२॥
इमं मे कुष्ठेत्यनेन पञ्चानां स्यात्परिग्रहः॥
अत्यर्थमेव नैतेषां जलं कुष्ठेन संयुतम् ॥५३॥
सत्कृत्य पानयोगत्वाद्यजमानः पिबेत्ततः ।
मणयः पञ्चकुष्ठे द्वौ मणिशब्दपरिग्रहम् ॥५४॥
तुल्येन विधिना कार्याः फलं तेषां पृथक्पृथक्॥
शिरोर्तिनाशनः पूर्वो द्वितीयो विषदूषकः ॥५९॥
तृतीयश्च तथा प्रोक्तो विषमज्वरनाशनः॥
चतुर्थश्च तथा प्रोक्तः सततज्वरनाशनः ॥५६॥
चक्षुष्यः पञ्चमः प्रोक्तो मणिर्भार्गवनन्दन॥
कृत्वोदपात्रं कुष्ठाम्भो नवनीतविमिश्रितम् ॥५७॥
भूयः कुष्ठं क्षिपेत्तत्र मणिं तत्रावतारयेत्॥
मणिबन्धं ततः कृत्वा तोयं तत्पाययेन्नरम् ॥५८॥
लिप्येच्च सरुजं देशमुदपात्रजलेन तु॥
याः पुरस्तादित्यनेन मणिः स्याल्लवणस्य तु ॥५९॥
पितुर्वस्त्रपुटे बद्ध्वा लवणस्य तु तन्मणिम्॥
आबन्धे कुष्ठवत्स्याच्च यातुधानविनाशनः ॥६०॥
व्याघ्ररूप इत्यनेन खंतव्यं वाटरूषकम्॥
व्याघ्ररूप इति द्वाभ्यामृग्भ्यामाबन्धनं भवेत् ॥६१॥
पिशाचनाशकस्त्वेवं स मणिः स्यादसंशयम्॥
एवमेवोत्तराभ्यां च भवेप्रत्यभिचारकः ॥६२॥
विष्कन्दस्येत्यनेनाह त्रिपर्णी विश्वभेषजी॥
स्कन्दस्योपरि यः स्कन्दो भवेत्तस्य विनाशिनी ॥६३॥
यस्मादङ्गादिति भवेद्गणादित्वात्परिग्रहः॥
गणस्य कर्म सामान्यं प्रतिसूक्तं न कारयेत ॥६४॥
गोराचवारि कर्माणि हन्तव्यानीवमादिभिः॥
पतङ्गाद्याश्च चत्वारः संस्कृत्य प्राणिनो बुधः ॥६५॥
तृष्णत्वप्तैश्च मन्त्रेण गात्रं प्रक्षालयेत्खिलम्॥
प्रथमेन तु सूक्तेन वेणुपौत्रे द्रवो मणिः ॥६६॥
वेणुः कुर्याद्भवेद्धर्मो वाक्षवद्देवदारुणः॥
संस्कृत्य पूर्वमन्त्रेण माषकादीन्प्रमर्दयेत् ॥६७॥
गात्रसंस्कारसहितैः पिष्टैर्वा प्रकृतिर्भृशम्॥
केवलेनैव मन्त्रेण मर्दयेत्तु विनश्यति ॥६८॥
तथा स्वलोमप्रभृती विधूलो धूशिरो युतिः॥
देवप्रवेशं जतुना स्थगयित्वा तु रक्तिका ॥६९॥
दूष्या इति प्रतीकेन कुर्यात्प्रतिसरं मणिम्॥
कृत्वा दूषणमायुष्यं तदा प्रत्यभिवादकः ॥७०॥
अयं प्रतिसरः पाणौ यात्राकाले सपत्नहा॥
सूत्रेणानेन बध्नीयाल्लिङ्गात्प्रतिसरो परः ॥७१॥
अनेन विधिना वृत्रं निजघान शतक्रतुः॥
अशंस इति मन्त्रेण प्रबध्नीयाद्यथाविधि ॥७२॥
भूतिश्रीप्रभृतीनां च विघ्नमेवं करोति यः॥
विनाशनं तस्य भवेदाबन्धाद्यक्षनाशनम् ॥७३॥
ज्यासूत्रप्रोथिताः सप्त वंशप्राप्ताः समुद्भवाः॥
रत्तयान्तरव्यवहिता गर्भिण्या उद्धरेद् बुधः ॥७४॥
मासे चतुर्थे बध्नीयान्मन्त्रेणानेन बुद्धिमान्॥
एकैकस्मिन्नतीते तु मासे सूत्रान्तरे मणिः ॥७५॥
एकैकं प्रक्षिपेद्धीमान्ससूत्रं पश्चिमं तथा॥
प्राची दिगिति मन्त्रेण उदीची भयनाशनी ॥७६॥
अक्षीयाभ्यामित्यनेन दाप्यः स्याद्यक्ष्मनाशनः॥
सन्धानार्थं शीतमग्ने रात्रीमातेत मोहनः॥
मयूरगोसुरवृद्धौ द्वौ वेतीति प्रकीर्तितम् ॥७७॥
प्रोक्तास्तथैते मणयो नृवीर काम्या मया सर्वहिताय पुण्याः॥
येषां हि बन्धो दुरितापहारी भयापहः केवलवृद्धिकारी ॥७८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मणिबन्धवर्णनन्नाम नवोत्तरशततमोऽध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : December 16, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP