ब्रह्मपुराणम् - अध्यायः ११
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
तत्रादौ सोमवंशवर्मनम्
लोमहर्षण उवाच
आयोः पुत्राश्च ते पञ्च सर्व्वे वीरा महारथाः ।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥१॥
नहुषः प्रथमं जज्ञे वृद्धशर्म्मा ततः परम् ।
रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥२॥
रजिः पुत्रशतानीह जनयामासं पञ्च वै ।
राजेयमिति विख्यातं क्षत्रमिन्द३भयावहम् ॥३॥
यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥४॥
देवासुरा ऊचुः
आवयोर्भगवन् युद्धे को विजेता भविष्यति ।
ब्रूहि नः सर्व्वभूतेश श्रोतुमिच्छाम तत्त्वतः ॥५॥
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः ॥६॥
यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।
यतो धृतिश्च श्रीश्चैव धर्म्मस्तत्र जयस्तथा ॥७॥
ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा ।
अभ्ययुर्जयमिच्छन्तो वृण्वानास्तं नरर्षभम् ॥८॥
स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
राजा परमतेजेस्वी सोमवंशविवर्द्धनः ॥९॥
ते हृष्टमनसः सर्व्वे रजिं वै देवदानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्म्मुकम् ॥१०॥
अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।
अर्थज्ञः स्वर्थमुदिदश्य यशः स्वं च प्रकाशयन् ॥११॥
रजिरुवाच
यदि दैत्यगणान् सर्व्वान् जित्वा वीर्य्येण वासवः ।
इन्द्रो भवामि धर्म्मेण ततो योत्स्यामि संयुगे ॥१२॥
देवाः प्रथमतो विप्राः प्रतीयुर्हृष्टमानसाः ।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव ॥१३॥
श्रुत्वा सुरागणानान्तु वाक्यं राजा रजिस्तदा ।
पप्रच्छासुरमुक्यांस्तु यथा देवानपृच्छत ॥१४॥
दानवा दर्पसम्पूर्णाः स्वार्थमेवावगम्य ह ।
प्रत्यूचुस्तं नृपवरं साभिमानमिदं वचः ॥१५॥
दानवा ऊचुः
अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे ।
अस्मिंस्तु समरे राजंस्तिष्ठ त्वं राजसत्तम ॥१६॥
स तथेति ब्रुवन्नेव देवैरप्यतिचोदितः ।
भविष्यसीन्द्रो जित्वैनं देवैरुक्तस्तु पार्थिवचः ॥१७॥
जघान दानवान् सर्व्वान् येऽवध्या वज्रपाणिनः ।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥१८॥
निहत्य दानवान् सर्व्वानाजहार रजिः प्रभुः ।
ततो रजिं महावीर्य्यं देवैः सह शतक्रतुः ॥१९॥
रजिपुत्रोऽहमित्युवत्वा पुनरेवाब्रवीद्वचः ।
इन्द्रोऽसि तात देवानां सर्व्वेषां नात्र संशयः ॥२०॥
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्म्मभिः ।
स तु शत्रुवचः श्रुत्वा वञ्चितस्तेन मायया ॥२१॥
तथैवेत्यब्रवीद्राजा प्रीयमाणः शतक्रतुम् ।
तस्मिंस्तु देवैः सदृशे दिवं प्राप्ते महीपतौ ॥२२॥
दायाद्यमिन्द्रादाजह्रुः राज्यं तत्तनया रजेः ।
पञ्च पुत्रशतान्यस्य तद्वै स्तानं शतक्रतोः ॥२३॥
समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।
ते यदा तु स्वम्मूढा रागोन्मत्ता विधर्म्मिणः ॥२४॥
ब्रह्मद्विषश्च संवृत्ता हतवीर्य्यपराक्रमाः ।
ततो लेभे स्वमैस्वर्य्यमिन्द्रः स्थानं तथोत्तमम् ॥२५॥
हत्वा रजिसुतान् सर्व्वान् कामक्रोधपरायणान् ।
य इदं च्यावनं स्थानात्प्रतिष्ठानं शतक्रतोः ।
श्रृणुयाद्धारयेद्वापि न स दौर्गत्यमाप्नुयात् ॥२६॥
लोमहर्षण उवाच
रम्भोऽनपत्यस्त्वासीच्च वंशं वक्ष्याम्यनेनसः ।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥२७॥
प्रतिक्षत्रसुतश्चासीत् सञ्जयो नाम विश्रुतः ।
सञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ॥२८॥
विजयस्य कृतिः पुत्रस्तस्य हर्य्यत्वतः सुतः ।
हर्य्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥२९॥
सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः ॥३०॥
सङ्कृतेरपि धर्म्मात्मा क्षत्रवृद्धो महायशाः ।
अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥३१॥
क्षत्रवृद्धात्मत्मजस्तत्र सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास्त्रयः पमधार्मिकाः ॥३२॥
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥३३॥
ब्रह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।
शलात्मज आर्ष्टिसेनस्तनयस्तस्य काश्यपः ॥३४॥
काशस्य काशिपो राजा पुत्रो दीर्घतपास्तथा ।
धनुस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ॥३५॥
तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
पुनर्धन्वन्तरिर्देवो मानषेष्विह जन्मनि ॥३६॥
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराजः सर्व्वरोगप्रणाशनः ॥३७॥
आयुर्व्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः ।
तमष्टधा पुनर्व्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥३८॥
धन्वन्तरेस्तु तनयः केतुमानिति वश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥३९॥
पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
दिवोदासस्तु धर्म्मात्मा वाराणस्यधिपोऽभवत् ॥४०॥
एतस्मिनेव काले तु पुरीं वाराणसीं द्विजाः ।
शून्यां निवेशयामास क्षेमको नाम राक्षशः ॥४१॥
शप्ता हि सा मतिमता निकुम्बेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥४२॥
तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥४३॥
भद्रश्रेण्यस्य पूर्व्वं तु पुरी वाराणसी ह्यभूत् ।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥४४॥
हत्वा निवेशयामास दिवोदासो नराधिपः ।
भद्रश्रेण्यस्य तद्राज्यं हृतं येन बलीयसा ॥४५॥
भद्रश्रेष्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः ।
दिवोदासेन बालेति घृणया स विसर्जितः ॥४६॥
हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः ।
आजह्रे पितृधायाद्यं दिवोदासहृतं बलात् ॥४७॥
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
वैरस्यान्तो महाभागाः कृतश्चात्मीयतेजसा ॥४८॥
दिवोदासाद्दुषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
तेन बालेन पुत्रेण प्रहृतं तु पुनर्बलम् ॥४९॥
प्रतर्दनस्य पुत्रौ द्वौ वत्सभगौ सुविश्रुतौ ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥५०॥
अलर्कस्तस्य पुत्रस्तु ब्रह्मण्यः सत्यसङ्गरः ।
अलर्कं प्रति राजर्षिः श्लोको गीतः पुरातनैः ॥५१॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
युवा रूपेण सम्पन्नः प्रागासीच्च कुलोद्वहः ॥५२॥
लोपामुद्राप्रसादेन परमायुरवाप्तवान् ।
तस्यासीत् सुमहद्राज्यं रूपयौवनसालिनः ॥५३॥
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयामास पुरीं वाराणसीं पुनः ॥५४॥
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥५५॥
क्षेमस्य केतुमान् पुत्रः सुकेतुस्तस्य चात्मजः ।
सुकेतोस्तनयश्चापि धर्म्मकेतुरिति स्मृतः ॥५६॥
धर्म्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥५७॥
आनर्त्तस्तु विभोः पुत्रः सुकुमारश्च तत्सुतः ।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥५८॥
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।
वेणुहोत्रसुतश्चापि भार्गो नाम प्रजेश्वरः ॥५९॥
वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गजः ।
एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ॥६०॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयः पुत्राः सहस्रशः ।
इत्येते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥६१॥
इति श्रीब्राह्मे महापुराणे सोमवंशे वृद्धक्षत्रप्रसूतिनिरूपणं नामैकादशोऽध्यायः॥११॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP