ब्रह्मपुराणम् - अध्यायः १५०
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
पैशाचतीर्थवर्णनम्
ब्रह्मोवाच
पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे ।
पिशाचत्वात्पुरा विप्रो मुक्तिमाप महामते ॥१॥
सुयवस्याऽऽत्मजो लोकेऽजीगर्तिरिति विश्रुतः ।
कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः ॥२॥
मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् ।
विक्रीतवान्क्षत्रियाय वधाय बहुलैर्धनैः ॥३॥
किं नामाऽऽपद्गतः पापं नाऽऽचरत्यपि पण्डितः ।
शमितृत्वे धनं चापि जगृहे बहुलं मुनिः ॥४॥
विदारणार्थं च धनं जगृहे ब्राह्मणाधमः ।
ततोऽप्रतिसमाधेयमहारोगनिपीडितः ॥५॥
स मृतः कालपर्याये नरकेष्वथ पातितः ।
भोगादृते न क्षयोऽस्ति प्राक्तनानामिहांहसाम् ॥६॥
किंकरैर्यमवाक्येन बहुयोन्यन्तरं गतः ।
ततः पिशाचो ह्यभवद्दारुणो दारुणकृतिः ॥७॥
शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा ।
ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः ॥८॥
कन्यापुत्रमहीवाजिगवां विक्रयकारिणः ।
नरकान्न निवर्तन्ते यावदाभूतसंप्लवम् ॥९॥
स्वकृताघविपाकेन दारुणैर्यमकिंकरैः ।
संघाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन् ॥१०॥
पथि गच्छन्कदाचित्स जीगर्तेर्मध्यमः सुतः ।
शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः ॥११॥
पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा ।
पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम् ॥१२॥
शुनःशेपस्तदोवाच को भवानतिदुःखितः ।
जीगर्तिरब्रवीद्दुःखाच्छुनःशेपपिता ह्यहम् ॥१३॥
पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम् ।
नरकेष्वथ पक्वश्च पुनः प्राप्तोऽन्तरालकम् ॥
ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः ॥१४॥
जीगर्तिपुत्रस्तमुवाच दुःखात्सोऽहं सुतस्ते मम दोषेण तात ।
विक्रीत्वा मां नरकानेवमाप्तस्ततः करिष्ये स्वर्गतं त्वामिदानीम् ॥१५॥
एवं प्रतिज्ञाय स गाधिपुत्रपुत्रत्वमाप्तोऽथ मुनिप्रवीरः ।
गङ्गामभिध्याय पितुश्च लोकाननुत्तमानीहमानो जगाम ॥१६॥
अशेषदुःखानलधूपितानां, निमज्जातां मोहमहासमुद्रे ।
शरीरिणां नान्यदहो त्रिलोक्यामालम्बनं विष्णुपदीं विहाय ॥१७॥
एवं विनिश्चित्य मुनिर्महात्मासमुद्दिधीर्षुः पितरं स दुर्गतेः ।
शुचिस्ततो गौतमीमाशु गत्वा, तत्र स्नात्वा संस्मरञ्छंभुविष्णू ॥१८॥
ददौ जलं प्रेतरूपाय पित्रे, पिशाचरूपाय सुदुःखिताय
तद्दानमात्रेण तदैव पूतोऽजीगर्तिरावाप वपुः सुपुण्यम् ॥१९॥
विमानयुक्तः सुरसंघजुष्टं विष्णोः पदं प्राप सुतप्रभावात् ।
गङ्गाप्रभावाच्च हरेश्च शंभोर्विधातुरर्कायुततुल्यतेजाः ॥२०॥
ततः प्रभृत्येतदतिप्रसिद्धं, पैशाचनाशं च महागदं च ।
महान्ति पापानि च नाशमाशु, प्रयान्ति यस्य स्मरणेन पुंसाम् ॥२१॥
तीर्थस्य चेदं गदितं तवाद्य, माहात्म्यमेतत्त्रिशतानि यत्र ।
तीर्थान्यथान्यानि भवन्ति भुक्तिमुक्तिप्रदायीनि किमन्यदत्र ॥२२॥
सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम् ।
तीर्थानां मुनिजुष्टानां स्मरणादप्यभीष्टदम् ॥२३॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पैशाचादिशतत्रयतीर्थवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः ॥१५०॥
गौतमीमाहात्म्य एकाशीतितमोऽध्यायः ॥८१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP