ब्रह्मपुराणम् - अध्यायः ८८
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथाष्टाशीतितमोऽध्यायः
जनस्थानतीर्थवर्णनम्
ब्रह्मोवाच
तस्मादप्यपरं तीर्थं जनस्थानमिति श्रुतम् ।
चतुर्योजनविस्तीर्णं स्मरणान्मुक्तिदं नृणाम् ॥१॥
वैवस्वतान्वये जातो राजाऽभूज्जनकः पुराः ।
सोऽपांपतेस्तु तनुजामुपयेमे गुणार्णवाम् ॥२॥
धर्मार्थकाममोक्षाणां जनकां जनको नृपः ।
अनुरूपगुणत्वाच्च तस्य भार्या गुणार्णवा ॥३॥
याज्ञवल्क्यश्च विप्रेन्द्रस्तस्य राज्ञः पुरोहितः ।
तमपृच्छन्नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥४॥
जनक उवाच
भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः ।
दासीदासेभतुरागरथाद्यैर्भुक्तिरुत्तमा ॥५॥
किंत्वन्तविरसा बुक्तिर्मुक्तिरेका निरत्यया ।
भुक्तेर्मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥६॥
सर्वसङ्गपरित्यागान्मुक्तिप्राप्तिः सुदुःखतः ।
तद्ब्रूहि द्विजशार्दूल सुखान्मुक्तिः कथं भवेत् ॥७॥
अपांपातिस्तव गुरुः श्वशुरः प्रियकृत्तथा ।
तं गत्वा पृच्छ नृपते उवदेक्ष्यति ते हितम् ॥८॥
याज्ञवल्क्यश्च जनको राजानं वरुणं तदा ।
गत्वा चोचतुरव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥९॥
वरुण उवाच
द्विधा तु संस्थिता मुक्तिः कर्मद्वारेऽप्यकर्मणि ।
वेदे च निश्चितो मार्गः कर्म ज्यायो ह्यकर्मणः ॥१०॥
सर्वं च कर्मण बद्धं पुरुषार्थचतुष्टयम् ।
अकर्मणैवाऽऽप्यत इति मुक्तिमार्गो मृषोच्यते ॥११॥
कर्मणा सर्वदान्यानि सेत्स्यन्ति नृपसत्तम ।
तस्मात्सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥१२॥
तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः ।
अकर्णः कर्म पुण्यं कर्म चाप्याश्रमेषु च ॥१३॥
जात्याश्रितं च राजेन्द्र तत्रापि श्रृणु धर्मवित् ।
आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥१४॥
चतुर्णाणाश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् ।
तस्माद्भुक्तिश्च मुक्तिश्च भवतीति मतिर्मम ॥१५॥
ब्रह्मोवाच
एतच्छ्रुत्वा तु जनको याज्ञवल्क्यश्च बुद्धिमान् ।
वरुणं पूजयित्वा तु पुनर्वचनमुचतुः ॥१६॥
को देशः किं च तीर्थं स्याद्भुक्तिमुक्तिप्रदायकम् ।
तद्वदस्व सुरश्रेष्ठ सर्वज्ञोऽसि नमोऽस्तु ते ॥१७॥
वरुण उवाच
पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् ।
तस्मिन्क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥१८॥
तीर्थानां गौतमी गङ्गां श्रेष्ठा मुक्तिप्रदा नृणाम् ।
तत्र यज्ञेन दानेन भोगान्मुक्तिमवाप्स्यति ॥१९॥
ब्रह्मोवाच
याज्ञवल्क्यश्च जनको वाचं श्रुत्वा ह्यपांपतेः ।
वरुणेन ह्यनुज्ञातौ स्वपुरीं जग्मतुस्तदा ॥२०॥
अश्वमेधादिकं कर्म चकार जनको नृपः ।
याजयासाय विप्रेन्द्रो याज्ञवल्क्यश्च तं नृपम् ॥२१॥
गङ्गातीरं समाश्रित्य यज्ञान्मुक्तिमवाप राट् ।
तथा नजकराजानो बहवस्तत्र कर्मणाः ॥२२॥
मुक्तिं प्रापुर्महाभागा गौतम्याश्च प्रसादतः ।
ततः प्रभृति तत्तीर्थं जस्थानेति विश्रुतम् ॥२३॥
जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् ।
चतुर्योजनविस्तीर्णं स्मरणात्सर्वपापनुत् ॥२४॥
तत्र स्नानेन दानेन पितॄणां तर्पणेन तु ।
तीर्थस्य स्मरणाद्वाऽपि गमनाद्भक्तिसेवनात् ॥२५॥
सर्वान्कामानवाप्नोति मुक्तिं च समवाप्नुयात् ॥२६॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये जनस्थानतीर्थवर्णनं नामाष्टाशीतिमोऽध्यायः ॥८८॥
गौतमीमाहात्म्ये एकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP