संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २८

ब्रह्मपुराणम् - अध्यायः २८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ कोणादित्यमाहात्म्यवर्णनम्
ब्रह्मोवाच
तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः ।
ओष्ड्रदेश इति ख्यातः स्वर्गमोक्षप्रदायकः ॥१॥

समुद्रदुत्तरं तावद्‌यावद्विरजमण्डलम् ।
देशोऽसौ पुण्यशीलानां गुणैः सर्व्वैरलङ्कृतः ॥२॥

तत्र देशप्रसूता ये ब्राह्मणाः संयतेन्द्रियाः ।
तपःस्वाध्यायनिरता वन्द्याः पूज्याश्च ते सदा ॥३॥

श्राद्धे दाने विवाहे च यज्ञे वाचार्य्यकर्म्मणि ।
प्रशस्ताः सर्व्वकार्य्येषु तत्रदेशोद्भवा द्विजाः ॥४॥

षट्‌कर्म्मनिरतास्तत्र ब्राह्मणा वेदपारगाः ।
इतिहासविदश्चैव पुराणार्थविशारदाः ॥५॥

सर्व्वशास्त्रार्थकुशला यज्वानो वीतमत्‌सराः ।
अग्निहोत्ररताः कोचित्‌केचित् स्मार्त्ताग्नितत्‌पराः ॥६॥

पुत्रदारधनैर्युक्ता दातारः सत्यवादिनः ।
निवसन्त्युत्‌कले पुण्ये यज्ञोत्सवविभूषिते ॥७॥

इतरेऽपि त्रयो वर्णाः क्षत्रियाद्याः सुसंयताः ।
स्वकर्म्मनिरताः शान्तास्त्र तिष्ठन्ति धार्म्मिकाः ॥८॥

कोणादित्य इति ख्यातस्तस्मिन् देशे व्यवस्थितः ।
यं दृष्ट्वा भास्करं मर्त्त्यः सर्व्वपापैः प्रमुच्यते ॥९॥

मुनय ऊचुः
श्रोतुमिच्छाम तद्‌ब्रिह क्षेत्रं सूर्य्यस्य साम्प्रतम् ।
तस्मिन् देशे सुरश्रेष्ठ यत्रास्ते स दिवाकरः ॥१०॥

ब्रह्मोवाच
लवणस्योदधेस्तीरे पवित्रे सुमनोहरे ।
सर्व्वत्र वालुकाकीर्णे देशे सर्व्वगुणान्विते ॥११॥

चम्पकाशोकबकुलैः करवीरैः सपाटलैः ।
पुन्नागैः कर्णिकारैश्च वकुलैर्नागकेसरैः ॥१२॥

तगरैर्धवबाणैश्च अतिमुक्तैः सकुज्जकैः ।
मालतीकुन्दपुष्पैश्च तथान्यैर्मल्लिकादिभिः ॥१३॥

केतकीवनखण्डैश्च सर्व्वर्त्तुकुसुमोज्ज्वलैः ।
गतम्बैर्लुकुचैः शालैः पनसैर्दैवदारुभिः ॥१४॥

सरलैर्मुचुकुन्दैश्च चन्दनैश्च सितेतरैः ।
अश्वत्थैः सप्तपर्णैस्च आर्म्रराम्रातकैस्तथाः ॥१५॥

तालैः पूगफलैश्चैव नारिकेलैः कपित्थकैः ।
अन्यैश्च विविधैर्वृक्षैः सर्व्वतः समलङकृतम् ॥१६॥

क्षेत्रं त६ रवेः पुण्यमास्ते जगति विश्रुतम् ।
समन्ताद्‌योजनं साग्रं भुक्तिमुक्तिफलप्रदम् ॥१७॥

आस्ते तत्र स्वयं देवः सहस्रांशुर्दिवाकरः ।
कोणादित्य इति ख्यातो भुक्तिमुक्तिफलप्रदः ॥१८॥

माघे मासि सिते पक्षे सप्तम्यैं संयतेन्द्रियः ।
कृतोपवासो यत्रैत्य स्नात्वा तु मकरालये ॥१९॥

कृतशौचो विशुद्धात्मा स्मरन् देवं दिवाकरम् ।
सागरे विधिवत् स्नात्वा शर्व्वर्य्यन्ते समाहितः ॥२०॥

देवानृषीन्मनुष्यांश्च पितॄन् सन्तर्प्य च द्विजाः ।
उत्तीर्य्य चवाससी धौते परिधाय सुनिर्म्मले ॥२१॥

आचम्य प्रयोत भूत्वा तीरे तस्य महोदधेः ।
उपविश्योदये काले प्राङ्मुखः सवितुस्तदा ॥२२॥

विलिख्य पद्‌मं मेधावी रक्तचन्दनवारिणा ।
अष्टपत्रं केसराढ्यं वर्त्तुलं चोर्ध्वकर्णिकम् ॥२३॥

तिलतण्डुलतोयञ्च रक्तचन्दनसंयुतम् ।
रवतपुष्पं सदर्भञ्च प्रक्षिपेत्ताम्रभाजने ॥२४॥

ताम्राभावेऽर्कपत्रस्य पुटैः कृत्वा तिलदिकम् ।
पिधाय तन्मुनिश्रेष्ठाः पात्रं पात्रेण विन्यसेत् ॥२५॥

करन्यासाङ्गविन्यासं कृत्वाङ्गैर्हृदयादिभिः ।
आत्मानं भास्करं ध्यात्वा सम्यक् श्रद्धासमन्वितः ॥२६॥

मध्ये चाग्निदले धीमान्नैर्ऋते श्वसने दले ।
कामारिगोचरे चैव पुनर्मध्ये च पूजयेत् ॥२७॥

प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।
सम्पूज्य पद्‌ममावाह्य गगनात्तत्र भास्करम् ॥२८॥

कर्णिकोपपि संस्थाप्य ततो मुद्रां प्रदर्शयेत् ।
कृत्वा स्नानादिकं सर्व्वं ध्यात्वा तं सुसमाहितः ॥२९॥

सितपद्‌मोपरि रविं तेजोबिम्बे व्यवस्थितम् ।
पिङ्गाक्षं द्विभुजं रक्तं पद्‌मपत्रारुणाम्बरम् ॥३०॥

सर्व्वलक्षणसयुक्तं सर्व्वाभरणभूषितम् ।
सुरूपं वरदं शान्तं प्रभामण्डलमिण्डितम् ॥३१॥

उद्यन्तं भास्करं दृष्ट्‌वा सान्द्रसिन्दूरसन्निभम् ।
ततस्तत्पात्रमादाय जानुभ्यां धरणों गतः ॥३२॥

कृत्वा शिरसि तत्प्रत्रमेकचित्तस्तु वाग्‌यतः ।
त्र्यक्षरेण तु मन्त्रेण सूर्य्यायार्घ्यं निवेदयेत् ॥३३॥

अदीक्षितस्तु तस्यैव नाम्नैवार्घ्घं प्रयच्छति ।
श्रद्धया भावयुक्तेन भक्तिग्राह्यो रविर्यतः ॥३४॥

अग्निनि र्ऋतिवाय्वीशमध्यपूर्व्वादिदिक्षु च ।
हृच्छिरश्च शिखावर्मनेत्राण्यस्त्रञ्च पूजयेत् ॥३५॥

दत्त्वार्घ्यं गन्धधूपञ्च दीपं नैवेद्यमेव च ।
जप्त्वा स्तुत्वा नमस्कृत्वा मुद्रां बद्‌ध्वा विसर्ज्जयेत् ॥३६॥

ये वार्घ्यं सम्प्रयच्छन्ति सूर्य्याय नियतेन्द्रियाः ।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च संयताः ॥३७॥

भक्तितभावेन सततं विशुद्धेनान्तरात्मना ।
ते भुक्त्‌वाभिमतान् कामान् प्राप्नुवन्ति परां गतिम् ॥३८॥

त्रैलोक्यदीपकं देवं भास्करं गगनेचरम् ।
ये संश्रन्ति मनुजास्ते स्युः सुखस्य भाजनम् ॥३९॥

यावन्न दीयते चार्घ्यं भास्कराय तथोदितम् ।
तावन्न पूजयेद्धिष्णुं शङ्करं वा सुरेश्वरम् ॥४०॥

तस्मात् प्रयत्नमास्थाय दद्यादर्घ्यं दिने दिने ।
आदित्याय शुचिर्भूत्वा पुष्पैर्गन्धैर्मनोरमैः ॥४१॥

एवं ददाति यश्चार्घ्यं सप्तम्यां सुसमाहितः ।
आदित्याय शुचिः स्नातः स लभेदोप्सितं फलम् ॥४२॥

रोगाद्विमुत्यते रोगी वित्तार्थी लभते धनम् ।
विद्यां प्राप्नोति विद्यार्थी सुतार्थी पुत्रवान् भवेत् ॥४३॥

यं यं काममभिध्यायन् सूर्य्यायार्घ्यं प्रयच्छति ।
तस्य तस्य फलं सम्यक् प्राप्नोति पुरुषः सुधीः ॥४४॥

स्नात्वा वै सागरे दत्त्वा सूर्य्यायार्घ्यं प्रणम्य च ।
नरो वा यदि वा नारी सर्व्वकामफलं लभेत् ॥४५॥

ततः सूर्य्यालयं गच्छेत् पुष्पमादाय वाग्‌यतः ।
प्रविश्य पूजयेद्‌भानुं कृत्वा तु त्रिः प्रदक्षिणम् ॥४६॥

पूजयेत् परया भक्त्या कोणार्कं मुनिसत्तमाः
गन्धैः पुष्पैस्तथा दीपैर्धूपै र्नैवेद्यके रपि ॥४७॥

दण्डवत् प्रणिपातैस्च जयशब्दैस्तथा स्तवैः ।
एव सम्पूज्य तं देवं सहस्रांशु जगत्‌पतिम् ॥४८॥

दशानामश्वमेधानां फलं प्राप्नोति मानवः ।
सर्व्वपापविनिर्म्मुक्तो युवा दिव्यवपुर्नरः ॥४९॥

सप्तावरान् सप्त परान् वंशानुद्‌धृत्य भो दिजाः ।
विमानेनार्कवर्णेन कामगेन सुवर्च्चसा ॥५०॥

उपगीयमानो गन्धर्व्वैः सूर्य्यलोकं स गच्छति ।
भुक्त्‌वा तत्र वरान् भोगान् यावगाभूतसंप्लवम् ॥५१॥

पुण्यक्षयादिहायातः प्रवेर योगिनां कुले ।
चतुर्व्वेदो भवेद्विप्रः स्वधर्म्मनिरतः शुचिः ॥५२॥

योगं विवस्वतः प्राप्य ततो मोक्षमवाप्नुयात् ।
चैत्रे मासि सिते पक्षे यात्रां मदनभञ्जिकाम् ॥५३॥

यः करोति नास्तत्र पूर्व्वोक्तं स फलं लभेत् ।
शयनोत्थापने भानोः संक्रान्त्यां विषुवायने ॥५४॥

वारे रवेस्तिथौ चैव पर्व्वकालेऽतवा द्विजाः ।
येतत्र यात्रां कुर्व्वन्ति श्रद्धया संयतेन्द्रियाः ॥५५॥

विमानेनार्कवर्णेन सूर्य्यलोकं व्रजन्ति ते ।
आस्ते तत्र महादेवस्तीरे नदनदीपतेः ॥५६॥

रामेश्वर इति ख्यातः सर्व्वकामफलप्रदः ।
ये तं पश्यन्ति कामारिं स्नात्वा सम्यङमहोदधौ ॥५७॥

गन्धैः पुष्पैस्तथा धूपैर्दीपैनैवेद्यकैर्व्वरैः ।
प्रणिपातैस्तथा स्तोत्रैर्गोतैर्वद्यैर्मनोहरैः ॥५८॥

राजसूयफलं सम्यग्वाजिमैधफलं तथा ।
प्राप्नुवन्ति महात्मानः संसिद्धिं परमां तथा ॥५९॥

कामगेन विमानेन किङ्किणीजालमालिना ।
उपगीयमाना गन्धर्व्वैः शिवलोकं व्रजन्ति ते ॥६०॥

आभूतसंप्लवं यावद्‌भुक्त्वा भोगान्मनोरमान् ।
पुण्यक्षयादिहागत्य चातुर्व्वेदा भवन्ति ते ॥६१॥

शाङकरं योगमास्थाय ततो मोभं व्रजन्ति ते ।
यस्तत्रच सवितुः क्षेत्रे प्राणांस्त्यजति मानवः ॥६२॥

स सूर्य्यलोकमास्थाय देववन्मोदते दिवि ।
पुनर्मानुषतां प्राप्य राजा भवति धार्म्मिकः ॥६३॥

योगं रवेः समासाद्य ततो मोक्षमवाप्नुयात् ।
एवं मया मुनिश्रेष्ठाः प्रोक्तं क्षेत्रं सुदुर्लभम् ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP