ब्रह्मपुराणम् - अध्यायः ९५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ पञ्चनवतितमोऽध्यायः
शुक्रतीर्थवर्णनम्
ब्रह्मोवाच
शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥१॥
अङिगीराश्च भृगुश्चैव ऋषी परमधार्मिकौ ।
तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥२॥
जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ ।
उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः ॥३॥
ऋषी ऊचतुः
आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः ।
तस्मादेकः शासिता स्यात्तिष्ठत्वेको यथासुखम् ॥४॥
ब्रह्मोवाच
एतच्छ्रुत्वा ततः शीघ्रमङ्गीराः प्राह भार्गवम् ।
अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥५॥
एतच्छ्रुत्वा चाङिगिरसो वाक्यं भृगृकुलोद्वहः ।
तथेति मत्वाऽङिरसे शुक्रं तस्मै न्यवेदयत् ॥६॥
उभावपि सुतौ नित्यमध्यापयति वै पृथक् ।
वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रोऽब्रवीदिदम् ॥७॥
शुक्र उवाच
तैषम्येण गुरो मां त्वमध्यापयसि नित्यशः ।
गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः ॥८॥
वैषम्येम च वर्तन्ते मूढाः शिष्येषु देशिकाः ।
नैषा विषमबुद्धीनां संख्या पापस्य विद्यते ॥९॥
आचार्य सम्यग्ज्ञातोऽसि पुनः पुनः ।
गच्छेयं गुरुमन्यं वै मामनुज्ञातुर्महसि ॥१०॥
गच्छेयं पितरं ब्रह्मन्यद्यसौ विषमो भवेत् ।
ततो वाऽन्यत्र गच्छामि भवेत् ।
ततो वाऽन्यत्र गच्छामि स्वामिन्पृष्टोऽसि गम्यते ॥११॥
ब्रह्मोवाच
गुरुं बृहस्पतिं दृ(पृ)ष्ट्वा अनुज्ञातस्त्वगात्ततः ।
अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत् ॥१२॥
तस्मात्कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत् ।
इति स्मरन्महाप्राज्ञमपृच्छद्वृद्धगौतमम् ॥१३॥
शुक्र उवाच
को गुरुः स्यान्मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत् ।
त्रयामामपि लोकानां यो गुरुस्तं व्रजाम्यहम् ॥१४॥
ब्रह्मोवाच
स प्राह जगतामीशं शंभुं देवं जगद्गुरुम् ।
क्वाऽऽराधायामि गिरिशमित्युक्तः प्राह गौतमः ॥१५॥
गौतम उवाच
गौतम्यान्तु शिचिर्भूत्वा स्तोत्रैस्तोषय शङ्करम् ।
ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥१६॥
ब्रह्मोवाच
गौतमस्य तु तद्वाक्यात्प्रागाद्गङ्गां स भार्गवः ।
स्नात्वा भूत्वा शिचिः सम्यक्स्तुतिं चक्रे स बालकः ॥१७॥
शुक्र उवाच
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
नाहं जानामि ते किंचित्स्तुतिं कर्तुं नमोऽस्तु ते ॥१८॥
परित्यक्तस्य गुरुणा न ममास्ति सुहृत्सखा ।
त्वं प्रभुः सर्वभावेन जगन्नाथ नमोऽस्तु ते ॥१९॥
गुरुर्गुरुमतां देव महतां च महानसि ।
अहमल्पतरो बालो जगन्मय नमोऽस्तु ते ॥२०॥
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् ।
मां त्वं च कृपया पश्य लोकसाक्षिन्नमोऽस्तु ते ॥२१॥
ब्रह्मोवाच
एवं तु स्तुवतस्तस्य प्रसन्नोऽभूत्सुरेश्वरः ॥२२॥
शिव उवाच
कामं वरय भद्रं ते यच्चापि सुरदुर्लर्भम् ॥२३॥
ब्रह्मोवाच
कविरप्याह देवेशं कृताञ्जलिरुदारधीः ॥२४॥
शुक्र उवाच
ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा ।
तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम् ॥२५॥
ब्रह्मोवाच
मृतसंजीवनीं विद्यामज्ञातां त्रिदशैरपि ।
तां दत्तवान्सुरश्रेष्ठस्तस्मै शुक्राय याचते ॥२६॥
इतरा लौकिकी विद्या वैदिकी चान्यगोचरा ।
किं पुनः शंकरे तुष्टे विचार्यमवशिष्यते ॥२७॥
स तु लब्ध्वा महाविद्यां प्रायात्स्वपितरं गुरुम् ।
दैत्यानां च गुरुश्चाऽऽसीद्विद्याया पूजितः कविः ॥२८॥
ततः कदाचित्तां विद्यां कस्मिंश्चित्कारणान्तरे ।
कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस्तु ताम् ॥२९॥
कचाद्बृहस्पतिश्चापि ततो देवाः पृथक्पृथक् ।
अवापुर्महतीं विद्यां यामाहुर्मृतजीविनीम् ॥३०॥
यत्र सा कविना प्राप्ता विद्याऽऽपूज्य महेश्वरम् ।
गौतम्या उत्तरो पारे शुक्रतीर्थं तदुच्यते ॥३१॥
मृतसंजीविनीतीर्थमायुरारोग्यवर्धनम् ।
स्नानं दानं च यत्किंचित्सर्वमक्षयपुण्यदम् ॥३२॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे मृतसंजीविनीतीर्थमाहात्म्यनिरूपणं नाम पञ्चनवतितमोऽध्यायः ॥९५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP