संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४४

ब्रह्मपुराणम् - अध्यायः ४४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


इन्द्रद्युम्नस्य दक्षिणोदधितटगमनम्
ब्रह्मोवाच
तस्यां स नृपतिः पूर्वं कुर्वनाज्यमनुत्तमम् ।
पालयामास मतिमान्प्रजाः पूत्रानिवौरसान् ॥१॥

सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः ।
मतिमान्धर्मसंपन्नः सर्वशास्त्रभृतां वरः ॥२॥

सत्यवाञ्छीलवान्दान्तः श्रीमान्परपुरंजयः ।
आदित्य इव तेजोभी रूपैरास्विनयोरिव ॥३॥

वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः ।
शारदेन्दुरिवाऽऽभाति लक्षणैः समलंकृतः ॥४॥

आहर्ता सर्वयज्ञानां हयमेधादिकृत्तथा ।
दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः ॥५॥

सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः ।
प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम् ॥६॥

हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् ।
रत्नानां धनधान्यानामन्तस्तस्य न विद्यते ॥७॥

एवं सर्वघनैर्युक्तो गुणैः सर्वैरलंकृतः ।
सर्वकामसमृद्धात्मा कुर्वनाज्यमकण्टकम् ॥८॥

तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम् ।
कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम् ॥९॥

विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम् ।
इतिहासपुराणानि वेदाङ्गानि च सर्वशः ॥१०॥

धर्मशास्त्राणि सर्वाणि नियमानृषिभाषितान् ।
वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च ॥११॥

गुरुं संसेव्य यत्नेन ब्रह्मणान्वेपारगान् ।
आधाय परमां काष्ठां कृतकृत्योऽभवत्तदा ॥१२॥

संप्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम् ।
भ्रान्तिज्ञानादतीतस्तु मुमुक्षुः सेयतेन्द्रियः ॥१३॥

कथमाराधयिष्यामि देवदेवं सनातनम् ।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥१४॥

वनमालावृतोरस्कं पद्मपत्रायतेक्षणम् ।
श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम् ॥१५॥

स्वपुरात्स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः ।
बलेन महता युक्तः सभृत्यः सपुरोहितः ॥१६॥

अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः ।
रथैर्विमानसंकाशैः पतकाध्वजसेवितैः ॥१७॥

सादिनश्च तथा सर्वे प्रासतोमरपामयः ।
अश्वैः पवनसंकाशैरनुजग्मुस्तु तं तृपम् ॥१८॥

हिमवत्संभवैर्मत्तैर्वारणैः पर्वतोपमैः ।
ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः ॥१९॥

हेमकक्षैः सपताकैर्घण्टकुण्डलाः ।
अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः ॥२०॥

संख्येयाश्च पादाता धनुष्प्रासासिपाणयः ।
दिव्यमाल्याम्बधरा दिव्यगन्धानुलेपनाः ॥२१॥

अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः ।
सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः ॥२२॥

अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः ।
विम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः ॥२३॥

दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः ।
दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः ॥२४॥

सुमध्यमाश्चारुवेषाश्चारुकर्णाकाञ्चिताः ।
ताम्बूलरञ्जितमुखा रक्षिभिस्च सुरक्षिताः ॥२५॥

यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः ।
उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः ॥२६॥

वेष्टिताः शस्त्रहस्तैश्च पद्मपत्रायतेक्षणाः ।
ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुस्च तं नृपम् ॥२७॥

वणिग्ग्रामगणाःसर्वे नानापुरनिवासिनः ।
धनै रत्नैः सुवर्णेश्च सदाराः सपरिच्छदाः ॥२८॥

अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः ।
तृमविक्रयकाश्चैव काष्ठविक्रयकारकाः ॥२९॥

रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा ।
तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा ॥३०॥

फलविक्रयिणश्चैव पत्रविक्रयिणस्तथा ।
तथा जवसहाराश्च रजकाश्च सहस्रशः ॥३१॥

गोपाला नापिताश्चैव तताऽन्ये वस्त्रसूचकाः ।
मेषपालास्चाजपाला मृगपालाश्च हंसकाः ॥३२॥

धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये ।
गुडविक्रयिकाश्चैव तथा लवणजीविनः ॥३३॥

गायना नर्तकाश्चैव तथा मङ्गलपाठकाः ।
शैलूषाः कथकाश्चैव पुराणार्थविशारदाः ॥३४॥

कवयः काव्यकर्तारो नानाकाव्यविशारदाः ।
विषध्ना गारुडाश्चैव नानारत्नपरीक्षकाः ॥३५॥

व्योकारास्ताम्रकाराश्च कांस्यकाराश्चरूठकाः ।
कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः ॥३६॥

दण्डकाराश्चासिकाराः सुराधूतोपजीविनः ।
मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः ॥३७॥

तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः ।
लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः ॥३८॥

गजवैद्याश्च वैद्याश्च नरवैद्याश्च यै नराः ।
वृक्षवैद्यास्च गोवैद्या ये चान्ये छेददाहकाः ॥३९॥

एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः ।
अनुजग्मुस्तु राजानं समस्तपुरवासिनः ॥४०॥

यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः ।
अनुयान्ति यथा पुत्रास्तथा तं तेऽपि नागराः ॥४१॥

एवं स नृपतिः श्रीमान्वृतः सर्वैर्महाजनैः ।
हस्त्श्वरथपादातैर्जगाम च शनैः शनैः ॥४२॥

एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम् ।
सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः ॥४३॥

ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम् ।
अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम् ॥४४॥

नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् ।
वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम् ॥४५॥

तीर्थराजं महाशब्दमपारं सुभयंकरम् ।
मेघवृन्दप्रतीकाशमगाधं मकरालयम् ॥४६॥

सत्स्यैः कूर्मैश्च शङ्खैश्च सुक्तिकान्क्रशङ्कुभिः ।
शिशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः ॥४७॥

लवणोदं हरेः स्थानं शयनस्य नदीपतिम् ।
सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम् ॥४८॥

अनेकावर्तगम्भीरं दानवानां समाश्रयम् ।
अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम् ॥४९॥

विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् ।
सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥५०
तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम् ।
चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम् ॥५१॥

अभेद्यं सर्वभूतानां देवानाममृतालयम् ।
उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम् ॥५२॥

उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् ।
दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः ॥५३॥

निवासमकरोत्तत्र वेलामासाद्य सागरीम् ।
पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते ॥५४॥

वृतं शालैः कदम्बैश्च पुंनागैः सरलद्रुमैः ।
पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः ॥५५॥

तालैः पिप्लैः खर्जूरैर्नारङ्गैर्बीदजपूरकैः ।
शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः ॥५६॥

कपित्थैः कर्णिकारैस्च पाटलालशोकचम्पकैः ।
दाडिमैश्च तमालैश्च पारिजातैस्तथाऽर्जुनैः ॥५७॥

प्राचीनामलकैर्बिल्वैः प्रियंगुवटखादिरैः ।
इङ्गदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुनकैः ॥५८॥

मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः ।
पलाशबदरैर्नीपैः सिद्धनिम्बशुभाठ्जनैः ॥५९॥

वारकैः कोविदारैश्च भल्लातामलकैस्तथा ।
इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः ॥६०॥

ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः ।
शाखोटकैर्निम्बवटैः कुम्भीकोष्ठहरीतकैः ॥६१॥

गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरूपाटलैः ।
जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः ॥६२॥

एवं नानाविधैर्वृक्षैस्तथाऽन्यैर्बहुपादपैः ।
कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः ॥६३॥

नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः ।
मयूरवरसंघुष्टैः शुकसारिकसंकुलैः ॥६४॥

हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः ।
जीवंजीवककाकोलैः कलविङ्कै कपोतकैः ॥६५॥

खगैर्नानाविधश्चान्यैः श्रोत्ररम्यैर्मनोहरैः ।
पुष्पिताग्रेषु वृक्षेषु कूजद्मिश्चार्वधिष्ठितैः ॥६६॥

केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः ।
मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा ॥६७॥

कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः ।
मालतीकरवीरैश्च तथा कदलकाञ्चनैः ॥६८॥

अनयैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः ।
वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः ॥६९॥

विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः ।
गन्धर्वोरगरक्षोभिर्भूताप्सरसकिंनरैः ॥७०॥

मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः ।
मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः ॥७१॥

तथाऽन्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः॥
शार्दूलैर्दीप्तमातङ्गैस्तथाऽन्यैर्वनचारिभिः ॥७२॥

एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः ।
लतागुल्मवितानैस्च विविधैश्च जलाशयैः ॥७३॥

हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः ।
कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपसोभितैः ॥७४॥

कमलैः शतपत्रैश्च कह्लारैः कुमुदोत्पलैः ।
खगैर्जलचरैस्चान्यैः पुष्पैर्जलसमुद्‌भवैः ॥७५॥

पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः ।
नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः ॥७६॥

सर्वाश्चर्यमयैः श्रृङ्गैः सर्वभूतालयैः शुभैः ।
सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः ॥७७॥

एवं सर्वैः समुदितैः शोभितं सुमनोहरैः ।
ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम् ॥७८॥

दशयोजनविस्तीर्ण पञ्चयोजनमायतम् ।
नानाश्चर्यसमायुक्तं क्षेत्रं परमुर्लभम् ॥७९॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे क्षेत्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः॥ ४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP