ब्रह्मपुराणम् - अध्यायः १८५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
कालीयदमनाख्यानम्
व्यास उवाच
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥१॥
स जगामाथ कालिन्दीं लोककल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥२॥
तस्यां चातिमहाभीमं विषाग्निकणदूषितम् ।
ह्रदं कालीयनाकस्य ददर्शातिविभीषिणम् ॥३॥
विषाग्निना विसरता दग्धतीरमहातरुम् ।
वाताहताम्बुविक्षेपस्पर्शदग्धविहङ्गमम् ॥४॥
तमतीव महारौद्रं मृत्युवक्त्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥५॥
अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधौ ॥६॥
तेनेयं दूषिता सर्वा यमुना सागरंगमा ।
न नरैर्गोधनैर्वाऽपि तृषार्तैरुपभुज्यते ॥७॥
तदस्य नागराजस्य कर्तव्यो निग्रहो मया ।
नित्यत्रस्ताः सुखं येन चरेयुर्व्रजवासिनः ॥८॥
एतदर्थं नृलोकेऽस्मिन्नवतारो मया कृतः ।
यदेषामुत्पथस्थानां कार्यां शास्तिर्दुरात्मनाम् ॥९॥
तदेतन्नातिदूरस्थं कदम्बमुरुशाखिनम् ।
अधिरुह्योत्पतिष्यामि ह्रदेऽस्मिञ्जीवनाशिनः ॥१०॥
व्यास उवाच
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र सर्पराजस्य वेगतः ॥११॥
तेनापि पतता तत्र क्षोभितः स महाह्रदः ।
अत्यर्थदूरजातांश्च तांश्चासिञ्चन्महीरुहान् ॥१२॥
तेऽहिदुष्टविषज्वालातप्ताम्बुतपनोक्षिताः ।
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ॥१३॥
आस्पोटयामास तदा कृष्णो नागहृदं भुजैः ।
तच्छब्दश्रवणाच्चाथ नागराजोऽभ्युपागमत् ॥१४॥
आताम्रनयनः कोपाद्विषज्वालाकुलैः फणैः ।
वृतो महाविषैश्चानायैररुणैरनिलाशनैः ॥१५॥
नागपत्न्यश्च शतशो हारिहारोपशोभिताः ।
प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः ॥१६॥
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ।
ददंशुश्चापि ते कृष्णं विषज्वालाविलैर्मुखैः ॥१७॥
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् ।
गोपा व्रजमुपागत्य चुक्रुशुः शोकलालसाः ॥१८॥
गोपा ऊचुः ।
एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे ।
भक्ष्यते सर्पराजेन तदागच्छत मा चिरम् ॥१९॥
व्यास उवाच
एतच्छ्रुत्वा ततो गोपा वज्रपातोपमं वचः ।
गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥२०॥
हा हा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ ॥२१॥
नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः ॥२२॥
ददृशुश्चापि ते तत्र सर्पराजवशंगतम् ।
निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम् ॥२३॥
नन्दगोपश्च निश्चेष्टः पस्यन्पुत्रमुखं भृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तमाः ॥२४॥
गोप्यस्त्वन्या रुदत्यश्च ददृशुः शोककातराः ।
प्रोचुश्च केशवं प्रीत्य भयकातरगद्गदम् ॥२५॥
सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदे ।
नागरास्य नो गन्तुमस्माकं युज्यते व्रजे ॥२६॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना दुग्धेन का गावो विना कृष्णेन को व्रजः ॥
विना कृता न यास्यामः कृष्णेनानेन गोकुलम् ॥२७॥
व्यास उवाच
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
उवाच गोपान्विधुरान्विलोक्य स्तिमितेक्षणः ॥२८॥
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्च्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया ॥२९॥
बलराम उवाच
किमयं देवदेवेश भावोऽयं मानुषस्त्वया ।
व्यज्यते तमात्मानं किमन्यं त्वं न वेत्सि यत् ॥३०॥
त्वमस्य जगतो नाभिः सुराणामेव चाऽऽश्रयः ।
कर्ताऽपहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ॥३१॥
अत्रावतीर्णयोः कुष्ण गोपा एव हि बान्धवाः ।
गोप्यश्च सीदतः कस्मात्त्वं बन्धून्समुपेक्षसे ॥३२॥
दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् ।
तदयं दम्यतां कृष्ण दुरात्मा दशनायुधः ॥३३॥
व्यास उवाच
इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसंपुटः ।
आस्फाल्य मोचयामास स्वं देहं भोगबन्धनात् ॥३४॥
आनाम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम् ।
आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः ॥३५॥
व्रणाः फणेऽभवंस्तस्य कृष्णस्याङ्घिविकुटुनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥३६॥
मुर्च्छामुपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ॥३७॥
तं निर्भुग्नशिरोग्रीवमास्यप्रस्रुतशोणितम् ।
विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥३८॥
ज्ञातोऽसि देवदेवेश सर्वेशस्त्वमनुत्तम ।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥३९॥
न समर्थाः सुर स्तोतुं यमनन्यभवं प्रभुम् ।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥४०॥
यस्याखिलमहीव्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम् ॥४१॥
ततः कुरु जगत्स्वामिन् प्रसादमवसीदतः ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥४२॥
व्यास उवाच
इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥४३॥
कालीय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥४४॥
त्वं परस्त्वं परस्याऽऽद्यः परं त्वं तत्परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्वहम् ॥४५॥
यथाऽहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥४६॥
यद्यन्यथा प्रवर्तेय देवदेव ततो मयि ।
न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥४७॥
तथाऽपि यं जगत्स्वामी दण्डं पातितवान्मयि ।
स सोढोऽयं दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥४८॥
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥४९॥
श्रीभगवानुवाच
नात्र स्थेयं त्वया सर्प कदाचिद्यमुनाजले ।
सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ॥५०॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥५१॥
व्यास उवाच
इत्युक्त्वा सर्पराजानं मुमोच भगवान्हरिः ।
प्रणम्य सोऽपि कृष्णाय जगाम पयसांनिधिम् ॥५२॥
पश्यतां सर्वभूतानां सभृत्यापत्यबान्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥५३॥
गते सर्पे परिष्वज्य मृतं पुनरिवाऽऽगतम् ।
गोपा मूर्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः ॥५४॥
कृष्णमक्लिष्टकर्मामन्ये विस्मितचेतसः ।
तुष्टुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥५५॥
गीयमानोऽथ गोपीभिश्चरितैश्चरुचेष्टितैः ।
संस्तूयमानो गोपालैः कृष्णो व्रजमुपागमत् ॥५६॥
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते कालीयदमननिरूपणं नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥१८५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP