संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २२

ब्रह्मपुराणम् - अध्यायः २२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ नरकवर्णनम्
लोमहर्षण उवाच
ततश्चानन्तरं विप्रा नरका रौरवादयः ।
पापिनो येषु पात्याते ताञ्छृणुध्वं द्विजोत्तमाः ॥१॥

रौरवः शौकरो रोधस्तानो विशसनस्था ।
महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥२॥

रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः ।
असिप्रवनं कृष्णो लालाभक्षश्च दारुणः ॥३॥

तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः ।
सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥४॥

श्वभोजनोऽथाप्रतिष्ठोमावीचिश्च तथापरः ।
इत्येवमादयश्चन्ये नरका भृशदारुणाः ॥५॥

यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः ।
पतन्ति येषु पुरुषाः पापकर्म्मरताश्च ये ॥६॥

कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् ।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥७॥

भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः ।
यान्ति रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥८॥

सूरापो ब्रह्महा हर्त्ता सुवर्णस्य च शूकरे ।
प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥९॥

राजन्यवैश्यहा चैव तथैव गुरुतल्पगः ।
तप्तकुम्बे स्वसृगामो हन्ति राजभटञ्च यः ॥१०॥

माध्वीविक्रयकृद्वध्यपालः केसरविक्रयी ।
तप्तलोहे पतन्त्येते यश्च भवतं परित्यजेत् ॥११॥

सुतां स्नुषाञ्चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥१२॥

वेददूषयिता यश्च वेदविक्रयकश्च यः ।
अगम्यगामी यस्च स्यात् ते यान्ति शबलं द्विजाः ॥१३॥

चौरो विमोहे पतति मर्य्यादादूषकस्तथा ।
देवद्विजपितृदेष्टा रत्नदूषयिता च यः ॥१४॥

स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् ।
पितृदेवातिथीन् यस्तु पर्य्यश्नाति नराधमः ॥१५॥

लालाभक्ष्ये स यात्युग्रे शरकर्त्ता च वेधके ।
करोति कर्णिनो यश्च यश्च खड्गादिकृन्नरः ॥१६॥

प्रयान्त्येते विशसने नरके भृशदारुणे ।
असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥१७॥

अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः ।
कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा ॥१८॥

लाक्षामांसरसानाञ्च तिलानां लवणस्य च ।
विक्रेता ब्राह्मणो याति तमेव नरकं द्विजः ॥१९॥

मार्ज्जारकुवकुटच्छागश्वराहविहङ्गमान् ।
पोषयन्नरकं याति तमेव द्विजसत्तमाः ॥२०॥

रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा ।
सूची माहिषिकश्चैव पर्व्वगामी च यो द्विजः ॥२१॥

अगारदाही मित्रध्नः शकुनिग्रामयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रोणते च ये ॥२२॥

मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये ॥२३॥

ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये ।
असिपत्रवनं याति वनच्छदी वृथैव यः ॥२४॥

औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै ।
यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥२५॥

व्रतोपलोपको यश्च स्वाश्रमाद्विच्युतश्च यः ।
सन्दंशयातनामध्ये पततस्तावुभावपि ॥२६॥

दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः ।
पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥२७॥

एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
येषु दुष्कृतकर्म्माणः पच्यन्ते यातनागताः ॥२८॥

तथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥२९॥

वर्णाश्रमविरुद्धञ्च कर्म्म कुर्व्वन्ति ये नराः
कर्म्मणा मनसा वाचा निरयेषु पतन्ति ते ॥३०॥

अधः शिरोभिरदृश्यन्ते नारकैर्दिवि देवताः ।
देवाश्चाधोमुखान् सर्व्वानधः पश्यन्ति नारकान् ॥३१॥

स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।
धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥३२॥

सहस्रभागाः प्रथमाद्द्वितीयोऽनुक्रमात्तथा ।
सर्व्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥३३॥

यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्‌याति नरकं प्रायश्चित्तपराङमुखः ॥३४॥

पापानामनुरूपाणि प्रायश्चित्तनि यद्‌यथा ।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥३५॥

पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
प्रायश्चित्तानि विप्रेन्द्रा जगुः स्वायम्भुवादयः ॥३६॥

प्रायश्चित्तान्यशेषाणि तपःकर्म्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥३७॥

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परम् ॥३८॥

प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् ।
नारायणमवाप्नोति सद्यः पापक्षयान्नरः ॥३९॥

विष्णुसंस्मरणात् क्षीणसमस्तवलेशसञ्चयः ।
मुक्तिं प्रयाति भो विप्रा विष्णीस्तस्यानुकीर्त्तनात् ॥४०॥

वासुदेव मनो यस्य जपहोमार्च्चनादिषु ।
तस्यान्तरायो विप्रेन्द्रा देवेन्द्रत्वदिकं फलम् ॥४१॥

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिवीजमनुत्तमम् ॥४२॥

तस्मादहर्निशं स्वर्गो नरकस्तद्विपर्य्ययः ।
नरकस्वर्गसंज्ञे वै पापपुष्ये द्विजोत्तमाः ॥४३॥

मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः ।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तमाः ॥४४॥

वस्त्वेकमेव दुःखाय सुकायेर्ष्योदयाय च ।
कोपाय च यतस्तस्माद्वस्तु दुःखात्मकं कुतः ॥४५॥
तदेव प्रीयते भूत्वा पुनर्दुःखाय जायते ।
तदेव कोपाय यतः प्रसादाय च जायते ॥४६॥

तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।
मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥४७॥

ज्ञानमेव परं ब्रह्माज्ञानं बन्धाय चेष्यते ।
ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥४८॥

विद्याविद्ये हिभो विप्रा ज्ञानमेवावधार्यताम् ।
एवमेतन्मयाख्यातं भवतां मण्डलं भुवः ॥४९॥

पातालानि च सर्व्वाणि तथैव नरका द्विजाः ।
समुद्राः पर्व्वताश्चैव द्वीपा वर्षाणि निम्नगाः संक्षेपात् सर्व्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥५०॥

इति श्रीब्राह्मे महापुराणे पातालनरककीर्त्तनं नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP