संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ११७

ब्रह्मपुराणम् - अध्यायः ११७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्तदशाधिकशततमोऽध्यायः ॥
आत्मतीर्थवर्णनम्
ब्रह्मोवाच
आत्मतीर्थमिति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ।
तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥१॥

दत्त इत्यपि विख्यातः सोऽत्रिपुत्रो हरप्रियः ।
दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः ॥
स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥२॥

दत्त उवाच
ब्रह्मत्रानं कथं मे स्यात्कं पृच्छामि क्व यामि च ॥३॥

ब्रह्मोवाच
तच्छ्रुत्वाऽत्रिः पुत्रवाक्यं ध्यात्वा वचनमब्रवीत् ॥४॥

अत्रिरुवाच
गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् ।
स तु प्रीतो यदैव स्यात्तदा ज्ञानमवाप्स्यसि ॥५॥

ब्रह्मोवाच
तथेत्युक्त्वा तदाऽऽत्रेयो गङगां गत्वा शुचिर्यतः ।
कृताञ्जलिपुटो भूत्वा भक्त्वा तुष्टाव शंकरम् ॥६॥

दत्त उवाच
संसारकूपे पतितोऽस्मि दैवान्मोहेन गुप्तो भवदुःखपङके ।
अज्ञाननाम्ना तमसाऽऽवृतोऽहं, परं न विन्दामि सुराधिनाथ ॥७॥

भिन्नस्त्रिशूलेन बलीयसाऽहं, पापेन चिन्ताक्षुरपाटितश्च ।
तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापैः, श्रान्तोऽस्मि संतारय सोमनाथ ॥८॥

बद्धोऽस्मि दारिद्र्यमयैश्च बन्धैर्हतोऽस्मि रोगानलतीव्रतापैः ।
क्रन्तोऽस्म्यहं मृत्युभुजंगमेन, भीतो भृशं किं करवाणि शंभो ॥९॥

भवाभवाभ्यामतिपीडितोऽहं, तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ।
ईदृक्षया जरया चाभिभूतः, पश्यावस्थां कृपया मेऽद्य नाथ ॥१०॥

कामेन कोपेन च मत्सरेण, दम्भेन दर्पादिभिरप्यनेकैः ।
एकैकशः कष्टगतोऽस्मि विद्धस्त्वं नाथवद्वारय नाथ शत्रून् ॥११॥

कस्यापि कश्चित्पतितस्य पुंसो, दुःखप्रणोदी भवतीति सत्यम् ।
विना भवन्तं मम सोमनाथ, कुत्रापि कारुण्यवचोऽपि नास्ति ॥१२॥

तावत्स कोपो भयमोहदुःखान्यज्ञानदारिद्र्यरुजस्तथैव ।
कामादयो मृत्युरपीह यावन्नमः शिवायेति न वच्मि वाक्यम् ॥१३॥

न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर्नाहं विवेकी करुणा कुतो मे ।
दाताऽसि तेनाऽऽशु शरण्य चित्ते, निधेहि सोमेति पदं मदीये ॥१४॥

याचे न चाहं सुरभूपतित्वं, हृत्पद्ममध्ये मम सोमनाथ ।
श्रीसोमपादाम्बुजसंनिधानं, याचे विचार्यैंव च तत्कुरुष्व ॥१५॥

यथा तवाहं विदितोऽस्मि पापस्तथाऽपि विज्ञापनम्श्रृणुष्व ।
संश्रूयते यत्र वचः शिवेति, तत्र स्थितिः स्यान्मम सोमनाथ ॥१६॥

गौरीपते शंकर सोमनाथ, विश्वेश कारुण्यनिधेऽखिलात्मन् ।
संस्तूयते यत्र सदेति तत्र, केषामपि स्यात्कृतिनां निवासः ॥१७॥

ब्रह्मोवाच
इत्यात्रेयस्तुतिं श्रुत्वा तुतोष भगवान्हरः ।
वरदोऽस्मीति तं प्राह योगिनं विश्वकृद्भवः ॥१८॥

आत्रेय उवाच
आत्मज्ञानं च मक्तिं च भुक्तिं च विपुलां त्वयि ।
तीर्थस्यापि च माहात्म्यं वरोऽयं त्रिदशार्चित ॥१९॥

ब्रह्मोवाच
एवमस्त्विति तं शंभुरुक्त्वा चान्तरधीयत ।
ततः प्रभृति तत्तीर्थमात्मतीर्थं विदुर्बुधाः ॥
तत्र स्नानेन दानेन मुक्तिः स्यादिह नारद ॥२०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्य आत्मतीर्थवर्णनं नाम सप्तशाधिकशततमोऽध्यायः ॥११७॥

गौतमीमाहात्म्येऽष्टचत्वारिंशत्तमोऽघ्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP