ब्रह्मपुराणम् - अध्यायः १४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
तत्रादौ यदुपुत्र-क्रोष्टुवंश-वर्णनम्
लोमहर्षण उवाच
गान्धारी चैव माद्री च क्रोष्टार्भर्य्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम् ॥१॥
माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलबर्द्धनः ॥२॥
माद्रयाः पुत्रौ तु जज्ञाते श्रुतौवृष्ण्यन्धकावुभौ ।
जज्ञाते तनयौ वृष्णे श्वफल्कश्चित्रकस्तथा ॥३॥
श्वफल्फस्तु मुनिश्रेष्ठा धर्म्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षस्तपमेव च ॥४॥
कदाचित् काशिराजस्य विषये मुनिसत्तमाः ।
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥५॥
स तत्र चानयामास श्वफल्कं परमार्च्चितम् ।
श्वफल्कपरिवर्त्तेन ववर्ष हरिवाहनः ॥६॥
श्वफल्फः काशिराजस्य सुतां भार्य्यामविन्दत ।
गान्दिनी नाम गां सा च ददौ विप्राय नित्यशः ॥७॥
दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच्छ्वफलकाद्भूरिदक्षिणः ॥८॥
उपमद्गुस्तथा मद्गुर्मेदुरश्चारिमेजयः ।
अविक्षितस्तथाक्षेपः शत्रुघ्नश्चारिमर्दनः ॥९॥
धर्म्मधृग् यतिधर्म्मा च धर्म्मोक्षान्धकरुस्तथा ।
आवाहप्रतिवाहा च सुन्दरी च वराङ्गना ॥१०॥
अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः ।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्च्चसौ ॥११॥
चित्रकस्याभवन् पुत्राः पृथुर्व्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च स्वपार्श्वकगवेषणौ ॥१२॥
अरिष्टनेमिरश्वश्च सुधर्मा धर्म्मभृत्तथा ।
सुबाहुर्व्वहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥१३॥
असिक्न्यां जनयामास शूरं वै देवमीढुषम् ।
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥१४॥
वसुदेवो महाबाहुः पूर्व्वमानकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥१५॥
आनकानां च संह्रादः सुमहानभवदिदवि ।
पपात पुष्पवर्षश्च शूरस्य जननी महान् ॥१६॥
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्य्रस्य कान्तिश्चन्द्रमसो यथा ॥१७॥
देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः सनवको वत्सवानथ गृञ्जमः ॥१८॥
श्यामः शमीको गण्डूषः पञ्च यास्य वराङ्गनाः ।
पृथुकीर्त्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥१९॥
राजाधिदेवी च तता पञ्चैता वीरमातरः ।
श्रुतश्रवायां चैद्यस्तु शिशुपालोऽभवन्नृपः ॥२०॥
हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा ।
पृथुकीर्त्त्यां तु सञ्जज्ञे तनयो वृद्धशर्म्मणः ॥२१॥
करूषाधिपतिर्वोरो दन्तवक्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् ॥२२॥
यस्यां स धर्म्मविद्राजा धर्म्मो जज्ञे युधिष्ठिरः ।
भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः ॥२३॥
लोकेऽप्रतिरथो वीरः शत्रुतुल्यपराक्रमः ।
अनमित्राच्छिनिर्जज्ञे कनिषठाद्वृष्णिनन्दनात् ॥२४॥
शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः ।
उद्धघो देवभागस्य महाभागः सुतोऽभवत् ॥२५॥
पण्डितानां परं प्राहुर्देवश्रवसमुत्तमम् ।
अश्मक्यं प्राप्तवान् पुत्रमनाधृष्टिर्यशस्विनम् ॥२६॥
निवृत्तशत्रुं शत्रुघ्नं श्रुतदेव त्वजायत ।
श्रुतदेवात्मजास्ते तु नैषादिर्यः परिश्रुतः ॥२७॥
एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्द्धितः ।
वत्सवते त्वपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर्ददौ सुतं वीरं कौशिकमौरसम् ॥२८॥
गण्डूषाय ह्यपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुदेष्णञ्च पञ्चालं कृतलक्षणम् ॥२९॥
असंग्रामेण यो वीरो नावर्त्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥३०॥
वायसानां सहस्राणि यं यान्तुं पृष्ठतोऽन्वयुः ।
चारूनद्योपभोक्ष्यामश्चारुदेष्णहतानिति ॥३१॥
तन्त्रिजस्तन्त्रिपालश्च सुतौ कनवकस्य तौ ।
वीरुश्चाश्वहनुश्चैव वीरौ तावथ गृञ्जिमौ ॥३२॥
श्यामपुत्रः शमोकस्तु शमीको राज्यमावहत् ।
जुगुप्समानो भोजत्वाद्राजसूयमवाप सः ॥३३॥
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः ।
वसुदेवसुतान् वीरान् कीर्त्तयिष्याम्यतःपरम् ॥३४॥
वृष्णेस्त्रिविधमेवन्तु बहुशाखं महौजसम् ।
धारयन् विपुलं वंशं नानर्थैरिह युज्यते ॥३५॥
याः पत्न्यो वसुदेवस्य चतुद्र्दश वराङ्गनाः ।
पौरवी रोहिणी नाम मदिरादिस्तथापरा ॥३६॥
वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी ।
सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिताः ॥३७॥
वृकदेव्युपदेवी च देवकी चैव सप्तमी ।
सुतनुर्वडवा चैव द्वे एते परिचारिके ॥३८॥
पौरवी रोहिणी नाम वाह्लिकस्यात्मजाभवत् ।
ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥३९॥
लेभे ज्येष्ठं सुतं रामं शरण्यं शठमेव च ।
दुद्र्दमं दमनं शुभ्रं पिण्डारकमुशीनरम् ॥४०॥
वित्रा नाम कुमारी च रोहिणीतनया नव ।
चित्रा सुभद्रेति पुनर्विख्याता मुनिसत्तमाः ॥४१॥
वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः ।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः ॥४२॥
सुभद्रायां रथी पार्थादभिमन्युरजायत ।
अक्रूरात्काशिकन्यायां सत्यकेतुरजारत ॥४३॥
वसुदेवस्य भार्य्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूराः समस्तांस्तान्निबोधत ॥४४॥
भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ ।
वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ ॥४५॥
अगावहं महात्मानं वृकदेवी व्यजायत ।
कन्या त्रिगर्त्तराजस्य भार्य्या वै शिशिरायणेः ॥४६॥
जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् ।
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥४७॥
मिथ्याभिशस्तो गार्ग्यस्तु मन्युनातिसमीरितः ।
घोषकन्यामुपादाय मैथुनायोपचक्रमे ॥४८॥
गोपाली चाप्सरास्तस्य गोपस्त्रीवेशधारिणी ।
धारयामास गार्ग्यस्य गर्भं दुर्द्धरमच्युतम् ॥४९॥
मानुष्यां गर्गभार्य्यायां नियोगाच्छूलपाणिनः ।
स कालयवनो नाम यज्ञे राजा महाबलः ॥५०॥
वृत्तपूर्व्वार्द्धकायस्तु सिंहसंहननो युवा ।
अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ॥५१॥
यवनस्य मुनिश्रेष्ठाः स कालयवनोऽभवत् ।
आयुध्यमानो नृपतिः पर्य्यपृच्छद्द्विजोत्तमम् ॥५२॥
वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः ।
अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ॥५३
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् ।
ततो वृष्ण्यन्दकाः कृष्णं पुरस्कृत्य महामतिम् ॥५४॥
समेता मन्त्रयामासुर्यवनस्य भयात्तदा ।
कृत्वा विनिश्चयं सर्व्वे पलायनमरोचयत् ॥५५॥
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ।
कुशस्थलीं द्वारवतीं निवेशयितुमिप्सवः ॥५६॥
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः ।
पर्व्वसु श्रावयेद्विद्वाननृणः स शुखी भवेत् ॥५७॥
इति श्रीब्राह्मपुराणे कृष्णजन्मानुकीर्त्तनं नाम चतुर्दशोऽध्यायः॥१४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP