संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २४

ब्रह्मपुराणम् - अध्यायः २४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


ध्रुवसंस्थितिनिरूपणम्
लोमहर्षण उवाच
तारामयं भगवतः शिशुमाराकृतिः प्रभो ।
दिवि रूपं हेर्यर्त्तु तस्य पुच्छे स्तितो ध्रुवः ॥१॥

सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहन् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥२॥

सूर्य्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥३॥

शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि ।
नारायणः परं धाम तस्याधारः स्वयं हृदि ॥४॥

उत्तानपादतनयस्तमाराध्य प्रजापतिम् ।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यस्थितः ॥५॥

आधारः शिशुमारस्य सर्व्वाध्यक्षो जनाद्‌र्दनः ।
ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्त्यवास्थितः ॥६॥

तदाधारं जगच्चेदं सदेवासुरमानुषम् ।
येन विप्रा विधानेन तन्मे श्रृणुत साम्प्रतम् ॥७॥

विवस्वानष्टभिर्मासैर्ग्रसत्यापो रसात्मिकाः ।
वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥८॥

विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।
सोमं पुष्यत्यथेन्दुस्च वायुनाङीमयैर्दिवि ॥९॥

जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्त्तिषु ।
न भ्रश्यन्ति यतस्तेभ्यो जलान्य भ्राणि तान् यतः ॥१०॥

अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कालजनितं विप्राश्चासाद्य निर्ग्मलाः ॥११॥

सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवानादत्ते सदिता द्विजाः ॥१२॥

आकाशगङ्गासलिलं पथाहृत्य गभस्तिमान् ।
अनभ्रगतमेवोर्व्व्या सद्यः क्षिपति रश्मिभिः ॥१३॥

तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तमाः ।
न याति नरकं मर्त्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥१४॥

दृष्टसूर्य्यं हि तद्वारि पतत्य भ्रैर्विना दिवः ।
आकाशगङ्गसलिलं तद्‌गोभिः क्षिप्यते रवेः ॥१५॥

कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद्दिवः ।
दृष्ट्वार्क पतितं ज्ञेयं तद्गाङ्गं विग्‌गजोद्ध्‌यम् ॥१६॥

युग्मर्क्षेषु तु यत्तोयं पतत्यर्कोद्धृतं दिवः ।
तत्सुर्य्यरश्मिभिः सद्यः समादाय निरस्यते ॥१७॥

उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः ।
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥१८॥

यत्तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः ।
पुष्णात्योषधयः सर्व्वा जीवनायामृतं हि तत् ॥१९॥

तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकान्तः प्रजानान्तु प्रजायते ॥२०॥

तेन यज्ञान् यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्व्वदेवनिकायाश्च देवानाप्याययन्ति ते ॥२१॥

एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्व्वकाः ।
सर्व्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥२२॥

वृष्ट्या धृतमिदं सर्व्व जगत्स्थावरजङ्गमम् ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥२३॥

आधारभूतः सवितुध्रुवो मुनिवरोत्तमाः ।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः ॥२४॥

हृदि नारायणस्तस्य शिसुमारस्य संस्थितः ।
विभर्त्ता सर्व्वभूतानामादिभूतः सनातनः ॥२५॥

एवं मया मुनिश्रेष्ठा ब्रह्मण्डं समुदाहृतम् ।
भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥२६॥

इति श्रीब्राह्मे महापुरामे ध्रुवसंस्थितिनिरूपणं नाम चतुर्व्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP