ब्रह्मपुराणम् - अध्यायः १८१
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अवतारप्रयोजनवर्णनम्
व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
अवतारं हरेश्चात्र भारावतरणेच्छया ॥१॥
यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः ।
धर्मश्च ह्रासमभ्योति तदा देवो जनार्दनः ॥२॥
अवतारं करोत्यत्र द्विधा कृत्वाऽऽत्मनस्तनुम् ।
साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥३॥
दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् ।
प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे ॥४॥
पुरा किल मही विप्रा भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥५ ।
सब्रह्मकान्सुरान्सर्वान्प्रणित्याथ मेदिनी ।
कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥६॥
धरण्युवाच
अग्निः सुवर्णस्य गुरुर्गवां सूर्योऽपरो गुरुः ।
ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥७॥
तत्सांप्रतमिमे दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः ॥८॥
कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसः संभूतः सुमहासुरः ॥९॥
अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा ।
सुन्दोऽसुरस्तथाऽत्युग्रो वाणश्चापि बलेः सुतः ॥१०॥
तथाऽन्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥११॥
अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः ।
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥१२॥
तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः ।
विभर्तुमात्मानमहमिति विज्ञापयामि वः ॥१३॥
क्रियतां तन्महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला ॥१४॥
व्यास उवाच
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः ।
भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥१५॥
ब्रह्मोवाच
यदाह वसुधा सर्वं सत्यमेतद्दिवौकसः ।
अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥१६॥
विभूतयस्यु यास्तस्य तासामेव परस्परम् ।
आधिक्यं न्यूनता बाध्यबाधकत्वेन वर्तते ॥१७॥
तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राऽऽराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥१८॥
सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥१९॥
व्यास उवाच
इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः ।
समाहितमना भूत्वा तुष्टा गरुडध्वजम् ॥२०॥
ब्रह्मोवाच
नमो नमस्तेऽस्तु सहस्रमूर्ते, सहस्रबाहो बहुवक्त्रपाद ।
नमो नमस्ते जगतः प्रवृत्तिविनाशसंस्थानपराप्रमेय ॥२१॥
सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवाक्प्रधानमूलापरात्मन्भगवन्प्रसीद ॥२२॥
एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति, भारावतारार्थमपारपारम् ॥२३॥
एते वयं वृत्ररिपुस्तथाऽयं, नासत्यदस्रौ वरुणस्तथैषः ।
इमे च रुद्रा वसवः ससूर्याः, समीरणाग्निप्रमुखास्तथाऽन्ये ॥२४॥
सुराः समस्ताः सुरनाथ कार्यमेभिर्मया यच्च तदीश सर्वम् ।
आज्ञापयाऽऽज्ञां प्रतिपालयन्तस्तवैव तिष्ठाम सदाऽस्तदोषाः ॥२५॥
व्यास उवाच
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहाराऽऽत्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥२६॥
उवाच च सुरानेतै मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥२७॥
सुराश्च सकलाः स्वांशैरवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥२८॥
ततः क्षयमशेषास्ते दैतेया धरणीतले ।
प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः ॥२९॥
वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः ॥३०॥
अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमिसमुद्भूतमित्युक्त्वाऽन्तर्दधे हरिः ॥३१॥
अदृश्याय ततस्तेऽपि प्रणिपत्य महात्मने ।
मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥३२॥
कंसाय चाष्टमो गर्भो देवक्या धरणीतले ।
भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः ॥३३॥
कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः ।
देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥३४ ।
जातं जातं च कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवोऽपि पुत्रमर्पितवान्द्विजाः ॥३५॥
हिरण्यकशिपोः पुत्राः ष़ड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता तान्निद्रा क्रमाद्गर्भे न्ययोजयत् ॥३६॥
योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत्सर्वं तामाह भगवन्हरिः ॥३७॥
विष्णुरुवाच
गच्छ निद्रे ममाऽऽदेशात्पातालतलसंश्रयान् ।
एकैकश्येन षड्गर्भन्देवकीजठरे नय ॥३८॥
हतेषु तेषु कंसेन शेषाख्योऽशस्ततोऽनघः ।
अंशांसेनोदरे तस्याः सप्तमं संभविष्यति ॥३९॥
गोकुले वसुदेवस्य भाराया वै रोहिणी स्थिता ।
तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम् ॥४०॥
सप्तमो भोजराजस्य भयाद्रोधोपरोधतः ।
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥४१॥
गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै ।
संज्ञामवाप्स्यते वरीः श्वेताद्रिशिखरोपमः ॥४२॥
ततोऽहं संभविष्यामि देवकीजठरे शुभे ।
गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥४३॥
प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि ॥४४॥
यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥४५॥
कंसश्च त्वामुपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥४६॥
ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥४७॥
ततः शुम्भनिशुम्भादीन्हत्वा दैत्यान्सहस्रशः ।
स्थानैरनेकैः पृथिवीमसेषां मण्डयिष्यसि ॥४८॥
त्वं भूतिः संनतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः ।
लज्जापुष्टिरुषा च काचिदन्या त्वमेव सा ॥४९॥
ये त्वामार्येति दुर्गेति वेदगर्भेऽम्बिकेति च ।
भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥५०॥
प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि वाञ्छितं सर्वं मत्प्रसादाद्भविष्यति ॥५१॥
सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता ।
नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि ॥५२॥
ते सर्वे सर्वदा भद्रा मत्प्रसादादसंशयम् ।
असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥५३॥
इति श्रीमहापुराणे आदिब्राह्मे हरेरंशावतारनिरूपणं नामैकाशीत्यधिकशततमोऽध्यायः ॥१८१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP