ब्रह्मपुराणम् - अध्यायः १७६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अनन्तवासुदेवमाहात्म्यवर्णनम्
मुनय ऊचुः
न हि नस्तृप्तिरस्तीह शृण्वतां भगवत्कथाम् ।
पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ॥१॥
अनन्तवासुदेवस्य न सम्यग्वर्णितं त्वया ।
श्रोतुमिच्छामहे देव विस्तरेण वदस्व नः ॥२॥
ब्रह्मोवाच
प्रवक्ष्यामि मुनिश्रेष्ठाः सारात्सारतरं परम् ।
अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम् ॥३॥
आदिकल्पे पुरा विप्रास्त्वहमव्यक्तजन्मवान् ।
विश्वकर्माणमाहूय वचनं प्रोक्तवानिदम् ॥४॥
वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् ।
प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि ॥५॥
यां प्रेक्ष्य विधिवद्भक्ताः सेन्द्रा वै मानुषादयः ।
येन दानवरक्षोभ्यो विज्ञाय सुमहद्भयम् ॥६॥
त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् ।
वासुदेवं समाराध्य निरातङ्का वसन्ति ते ॥७॥
मम तद्वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् ।
चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम् ॥८॥
सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् ।
श्रीवत्सलक्ष्संयुक्तामत्युग्रां प्रतिमोत्तमाम् ॥९॥
वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् ।
पीतवस्त्रां सुपीनांसां कुण्डलाभ्यामलंकृताम् ॥१०॥
एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस्तदा स्वयम् ।
प्रतिष्ठाकालमासाद्य मयाऽऽसौ निर्मिता पुरा ॥११॥
तस्मिन्काले तदा शक्रो देवराट्खेचरैः सह ।
जगाम ब्रह्मसदनमारुह्य गजमुत्तमम् ॥१२॥
प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः ।
प्रतिमां तां समाराध्य(दाय)स्वपुरं पुनरागमत् ॥१३॥
तां समाराध्य सुचिरं यतवाक्कायमानसः ।
वृत्राद्यानसुरान्क्रूरान्नमुचिप्रमुखान्स च ॥१४॥
निहत्य दानवान्भीमान्भूक्तवान्भुवनत्रयम् ।
द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः ॥१५॥
बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् ।
दश वर्षसहस्राणि निराहारो जितेन्द्रियः ॥१६॥
चचार व्रतमत्युग्रं तपः परमदुश्चरम् ।
तपसा तेन तुष्टोऽहं वरं तस्मै प्रदत्तवान् ॥१७॥
अवध्यः सर्वदेवानां स दैत्योरगयक्षसाम् ।
शापप्रहरणैरुग्रैरवध्यो यमकिंकरैः ॥१८॥
वरं प्राप्य तदा रक्षो यक्षान्सर्वगणानिमान् ।
धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः ॥१९॥
संग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः ।
देवराजं विनिर्जित्य तदा इन्द्रिजितेति वै ॥२०॥
राक्षसस्तत्सुरो नाम मेघनादः प्रलब्धवान् ।
अमरावतीं ततः प्राप्य देवराजगृहे शुभे ॥२१॥
ददर्शाञ्जनसंकाशां रावणस्तु बलान्वितः ।
प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम् ॥२२॥
श्रीवत्सलक्ष्मसंयुक्तं पद्मपत्रायतेक्षणाम् ।
वनमालावृतोरस्कां सर्वकामफलप्रदाम् ॥२३॥
शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् ।
सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम् ॥२४॥
विहाय रत्नसङ्घांश्च प्रतिमां शुभलक्षणाम् ।
पुष्पकेण विमानेन लङ्कां प्रास्थापयद्द्रुतम् ॥२५॥
पुराध्यक्षः स्थितः श्रीमान्धर्मात्मा स विभीषणः ।
रावणस्यानुजो मन्त्री नारायणपरायणः ॥२६॥
दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् ।
रोमाञ्चिततनुर्भूत्वा विस्मयं समपद्यत ॥२७॥
प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥२८॥
इत्युक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर्मुहुः ।
ज्येष्ठं भ्रातरमासाद्य कृताञ्जलिरभाषत ॥२९॥
राजन्प्रतिमया त्वं मे प्रसादं कर्तुमर्हसि ।
यामाराध्य जगन्नाथ निस्तरेयं भवार्णवम् ॥३०॥
भ्रातुर्वचनमाकर्ण्य रावणस्तं तदाऽब्रवीत् ।
गृहाण प्रतिमां वीर त्वनया किं करोम्यहम् ॥३१॥
स्वयंभुवं समाराध्य त्रैलोक्यं विजये त्वहम् ।
नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम् ॥३२॥
विभीषणो महाबुद्धिस्तदा तां(रासाद्य)प्रतिमां शुभाम् ।
शतमष्टोत्तरं चाब्दं समाराध्य जनार्दनम् ॥३३॥
अजरामरणं प्राप्तमणिमादिगुणैर्युतम् ।
राज्यं लङ्काधिपत्यं च भोगान्भुङ्क्ते यथेप्सितान् ॥३४॥
मुनय ऊचुः
अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् ।
अनन्तवासुदेवस्य संभवं भुवि दुर्लभम् ॥३५॥
श्रोतुमिच्छामहे देव विस्तरेण यथातथम् ।
तस्य देवस्य माहात्म्यं वक्तुमर्हस्यशेषतः ॥३६॥
ब्रह्मोवाच
तदा स राक्षसः क्रूरो देवागन्धर्वकिन्नरान् ।
लोकपालान्समनुजान्मुनिसिद्धांश्च पापकृत् ॥३७॥
विजित्य समरे सर्वानाजहार तदङ्गनाः ।
संस्थाप्य नगरीं लङ्कां पुनः सीतार्थ(तां च)मोहितः ॥३८॥
शङ्कितो मृगरूपेण सौवर्णेन च रावणः ।
ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह ॥३९॥
रावणस्य वधार्थाय हत्वा वालिं मनोजवम् ।
अभिषिक्तश्च सुग्रीवो युवराजोऽङ्गदस्तथा ॥४०॥
हनुमान्नलनीलश्च जाम्बवान्पनसस्तथा ।
गवयश्च गवाक्षश्च पाठीनः परमौजसः ॥४१॥
एतैश्चान्यैश्च बहुभिर्वानरैः समहाबलैः ।
समावृतो महाघोरै रामो राजीवलोचनः ॥४२॥
गिरीणां सर्वसंघातैः सेतुं बद्ध्वा महोदधौ ।
बलेन महता रामः समुत्तीर्य महोदधिम् ॥४३॥
संग्राममतुलं चक्रे रक्षोगणसमन्वितः ।
यमहस्तं प्रहस्तं च निकुम्भं कुम्भमेव च ॥४४॥
नरान्तकं महावीर्यं तथा चैव यमान्तकम् ।
मालाढ्यं मालिकाढ्यं च हत्वा रामस्तु वीर्यवान् ॥४५॥
पुनरिन्द्रजितं हत्वा कुम्भकर्णं सरावणम् ।
वैदेहीं चाग्निनाऽऽसोध्य दत्त्वा राज्यं विभिषणे ॥४६॥
वासुदेवं समादाय यानं पुष्पकमारुहत् ।
लीलया समनुप्रापदयोध्यां पूर्वपालिताम् ॥४७॥
कनिष्ठं भरतं स्नेहाच्छत्रुघ्नं भक्तवत्सलः ।
लीलया समनुप्रापदयोध्यां पूर्वपालिताम् ॥४८॥
पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः ।
दश वर्षसहस्राणि दश वर्षशतानि च ॥४९॥
भुक्ताव सागरपर्यन्तां मेदिनीं स तु राघवः ।
राज्यमासाद्य सुगतिं वैष्णवं पदमाविशत् ॥५०॥
तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् ।
धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः ॥५१॥
द्वापरं युगमासाद्य यदा देवो जगत्पतिः ।
धरण्याश्चानुरोधेन भावशैथिल्यकारणात् ॥५२॥
अवतीर्णः स भगवान्वसुदेवकुले प्रभुः ।
कंसादीनां वधार्थाय संकर्षणसहायवान् ॥५३॥
तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् ।
सर्वलोकहितार्थाय कस्यचित्कारणान्तरे ॥५४॥
तस्मिन्क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे ।
उज्जहार स्वयं तोयात्समुद्रः सरितां पतिः ॥५५॥
तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः ।
आस्ते स देवो देवानां सर्वकामफलप्रदः ॥५६॥
ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् ।
वाङ्मनः कर्मभिर्नित्यं ते यान्ति परमं पदम् ॥५७॥
दृष्ट्वाऽनन्तं सकृद्भक्त्या संपूज्य प्रणिपत्य च ।
राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत् ॥५८॥
सर्वकामसमृद्धेन कामगेन सुवर्चसा ।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥५९॥
त्रिःसप्तकुलमुद्धृत्य दिव्यस्त्रीगणसेवितः ।
उपगीयमानो गन्धर्वैर्नरो विष्णुपुरं व्रजेत् ॥६०॥
तत्र भुक्त्वा वरान्भोगाञ्जरामरणवर्जितः ।
दिव्यरूपधरः श्रीमान्यावदाभूतसंप्लवम् ॥६१॥
पुण्यक्षयादिहाऽऽयातश्चतुर्वेदी द्विजोत्तमः ।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥६२॥
एवं मया त्वनन्तोऽसौ कीर्तितो मुनिसत्तमाः ।
कः शक्नोति गुणान्वक्तुं तस्य वर्षशतैरपि ॥६३॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादेऽनन्तवासुदेवमाहात्म्यनिरूपणं नाम षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP