संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८५

ब्रह्मपुराणम् - अध्यायः ८५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ पञ्चाशीतितमोऽध्यायः
क्षुधातीर्थवर्णनम्
ब्रह्मोवाच
क्षुधातीर्थमिति ख्यातं श्रृणु नारद तत्मनाः ।
कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥१॥

ऋषिरासीत्पुरा कण्वस्तपस्वी वेदवित्तमः ।
परिभ्रमन्नाश्रमाणि क्षुधया परिपीडितः ॥२॥

गौतमस्याऽऽश्रमं पुण्यं समृद्धं चान्नवारिणा ।
आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥३॥

वीक्ष्य कण्वोऽथ वैषम्यं वैराग्यमगमत्तदा ।
गौतमोऽपि द्विजश्रेष्ठो ह्यहं तपसि निष्ठितः ॥४॥

समेन याच्ञाऽयुक्ता स्यात्तस्माद्गौतमवेश्मनि ।
न भोक्ष्येऽहं क्षुधार्तोऽपि पीडितेऽपि कलेवरे ॥५॥

गच्छेयं गौतमीं गङ्गामर्जयेयं च संपदम् ।
इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥६॥

स्नात्वा शुचिर्यतमना उपविश्य कुशासने ।
तुष्टाव गौतमीं गङ्गां क्षुध्रां च परमापदम् ॥७॥

कण्व उवाच
नमोऽस्तु गङ्गे परमार्तिहारिणि, नमः क्षेधे सर्वजनार्तिकारिणि ।
नमो महेशानजटोद्भवे शुभे, नमो महामृत्युमुखाद्विनिःसृते ॥८॥

पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् ।
सरिद्रुपेण सर्वेषां तापपापापहारिणि ॥९॥

क्षुधारूपेण सर्वेषां तापपापप्रदे नमः ।
नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि ॥
नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥१०॥

ब्रहोवाच
इत्येवं स्तुवतस्तस्य पुरस्तादभवद्द्वयम् ।
एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति ॥
नमः कृताञ्जलिर्भूत्वा नमस्कृत्वा द्विजोत्तमः ॥११॥

कण्व उवाच
सर्वमङ्गलम्ङ्गल्ये ब्राह्मि माहेश्वरि शुभे ।
वैष्णवि त्र्यम्बके देवि गोदावरि नमोऽस्तु ते ॥१२॥

त्र्यबकस्य जटोद्भूते गौतमस्याघनाशिनि ।
सप्तधा सागरं यान्ति गोदावरि नमोऽस्तु ते ॥१३॥

सर्वपापकृतां पापे धर्मकामार्थनाशिनि ।
दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥१४॥

ब्रह्मोवाच
तत्कण्ववचनं श्रुत्वा सुप्रीते आहतुर्द्विजम् ॥१५॥

गङ्गाक्षुधे ऊचतुः
अभष्टं वद कल्याणा वरान्वरय सुव्रत ॥१६॥

ब्रह्मोवाच
प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम् ॥१७॥

कण्व उवाच
देहि देवि मनोज्ञानि कामानि विभवं मम ।
आयुर्वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥१८॥

ब्रह्मोवाच
इत्युक्त्वा गौतमीं गङ्गां क्षुधां चाऽऽह द्विजोत्तमः ॥१९॥

कण्व उवाच
मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि ।
याहि पापतरे रूक्षे न भूयास्त्वं कदाचन ॥२०॥

अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः ।
तेषां दारिद्र्यदुःखानि न भवेयुर्वरोऽपरः ॥२१॥

अस्मिंमस्तीर्थे महापुण्ये स्नानदानजपादिकम् ।
ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥२२॥

यस्त्विदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे ।
तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद्वरोऽपरः ॥२३॥

ब्रह्मोवाच
एवमस्त्विति चोक्त्वा ते कण्वं याते स्वमालयम् ।
ततः प्रभृति तत्तीर्थं काण्वं गङ्गां क्षुधाभिधम् ॥
सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम् ॥२४॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये क्षुधातीर्थवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥८५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP