ब्रह्मपुराणम् - अध्यायः १४४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
परुष्णीसंगमतीर्थवर्णनम्
ब्रह्मोवाच
परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य स्वरूपं वक्ष्यामि श्रृणु पापविनाशनम् ॥१॥
अत्रिराराधयामास ब्रह्मविष्णुमहेश्वरान् ।
तेषु दुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥२॥
तथा चेका रूपवती कन्या मम भवेत्सुराः ।
तथा पुत्रत्वमापुस्ते ब्रह्मविष्णुमहेश्वराः ॥३॥
कन्यां च जनयामास शुभाऽऽत्रेयीति नामतः ।
दत्तः सोमोऽथ दुर्वासाः पुत्रास्तस्य महात्मनः ॥४॥
अग्नेरङ्गिरसो जातो ह्यङ्गारैरङ्गिरा यतः ।
तस्मादङ्गिरसे प्रादादात्रेयीमातरोचिषम् ॥५॥
अग्नेः प्रभावात्परुषमात्रेयीं सर्वदाऽवदत् ।
आत्रेय्यापि च शुश्रूषां कुर्वती सर्वदाऽभवत् ॥६॥
तस्यामाङ्गिरसा जाता महाबलपराक्रमाः ।
अङ्गिराः परुषं वादीदात्रेयीं नित्यमेव च ॥७॥
पुत्रास्त्वाऽङ्गिरसा नित्यं पितरं शमयन्ति ते ।
सा कदाचिद्भर्तृवाक्यादुद्विग्ना परुषाक्षरात् ॥
कृताञ्जलिपुटा दीना प्राब्रवीच्छ्वशुरं गुरुम् ॥८॥
आत्रेय्युवाच
अत्रिजाऽहं हव्यवाह भार्या तव सुतस्य वै ।
शुश्रुषणपरा नित्यं पुत्राणां भर्तुरेव च ॥९॥
पतिर्मां परुषं वक्ति वृथैवोद्वीक्षते रुषा ।
प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥१०॥
ज्वलन उवाच
अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्यङ्गिरा ऋषिः ।
यथा शान्तो भवेद्भद्रे तथा नीतिर्विधीयताम् ॥११॥
आग्नेयोऽग्निं समायातो तव भर्ता वरानने ।
तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥१२॥
आत्रेय्युवाच
सहेयं परुषं वाक्यं मा भर्ताऽग्निं समाविशेत् ।
भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥१३॥
ज्वलन उवाच
इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥१४॥
अग्निस्त्वप्सु शरीरेषु स्थावरे जङ्गमे तथा ।
तव भर्तुरहं धाम नित्यं च जनको मतः ॥१५॥
योऽहं सोऽहमिति ज्ञात्वा न चिन्तां कर्तुमर्हसि ।
किंचाऽऽपो मातरो देव्यो ह्यग्निः श्वशुर इत्यपि ॥
इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥१६॥
स्नुषोवाच
आपो जनन्य इति यद्बाभाषे, अग्नेरहं तव पुत्रस्य भार्या ।
कथं भूत्वा जननी चापि भार्या, विरुद्धमेतज्जलरूपेण नाथ ॥१७॥
ज्वलन उवाच
आदौ तु पत्नीं भरणात्तु भार्या, जनेस्तु जाया स्वगुणैः कलत्रम् ।
इत्यादिरूपाणि बिभर्षि भद्रे, कुरुष्व वाक्यं मदुदीरितं यत् ॥१८॥
योऽस्यां प्रजातः स तु पुत्र एव, सा तस्य मातैव न संशयोऽत्र
तस्माद्वदन्ति श्रुतितत्त्वविज्ञाः,सा नैव योषित्तनयेऽभिजाते ॥१९॥
ब्रह्मोवाच
श्वशुरस्य तु तद्वाक्यं श्रुत्वाऽऽत्रेयी तदैव तत् ।
आग्नेयं रूपमापन्नमम्भसाऽप्लावयत्पतिम् ॥२०॥
उभौ तौ दंपती ब्रह्मन्संगतौ गाङ्गवारिणा ।
शान्तरूपधरौ चोभौ दंपती संबभूवतुः ॥२१॥
लक्ष्म्या युक्तो यथा विष्णुरुमया शंकरो यथा ॥
रोहिण्या च यथा चन्द्रस्तथाऽभून्मिथुनं तदा ॥२२॥
भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः ।
परुष्णी चेति विख्याता गङ्गया संगता नदी ॥२३॥
गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् ।
तत्र चाऽऽङ्गिरसाश्चक्रुर्यज्ञांश्च बहुदक्षिणान् ॥२४॥
तत्र त्रीणि सहस्राणि तीर्थन्याहुः पुराणगाः ।
उभयोस्तीरयोस्तात पृथग्यागफलं विदुः ॥२५॥
तेषु स्नानं च दानं च वाजपेयाधिकं मतम् ।
विशेषतस्तु गङ्गायाः परुष्ण्या सह संगमे ॥२६॥
स्नानदानादिभिः पुण्यं यत्तद्वक्तुं न शक्यते ॥२७॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये परुष्णीसंगमादित्रिसहस्रतीर्थवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥
गौतमीमाहात्म्ये पञ्चसप्ततितमोऽध्यायः ॥७५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP