ब्रह्मपुराणम् - अध्यायः १७४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
गंगासागरसंगमवर्णनम्
ब्रह्मोवाच
सा संगता पूर्वमपांपतिं तं, गङ्गा सुराणामपि वन्दनीया ।
देवैश्च सर्वैरनुगम्यमाना, संस्तूयमाना मुनिभिर्मरुद्भिः ॥१॥
वसिष्ठजाबालिसयाज्ञवल्क्यक्रत्वङ्गिरोदक्षमरीचिवैष्णवाः ।
शातातपः शौनकदेवरातभृग्वग्निवेश्यात्रिमरीचिमुख्याः ॥२॥
सुधूतपापा मनुगौतमादयः, सकौशिकास्तुम्बरुपर्वताद्याः ।
अगस्त्यमार्कण्डसपिप्पलाद्याः, सगालवा योगपरायणाश्च ॥३॥
सवामदेवाङ्गिरसोऽथ भार्गवाः, स्मृतिप्रवीणाः श्रुतिभिर्मनोज्ञाः ।
सर्वे पुराणार्थविदो बहुज्ञास्ते गौतमीं देवनदीं तु गत्वा ॥४॥
स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर्हृद्यैश्च तुष्टैर्मुदितैर्मनोभिः ।
तां संगतां वीक्ष्य शिवो हरिश्च, आत्मानमादर्शयतां मुनिभ्यः ॥५॥
तथाऽमराऽस्तौ पितृभिश्च दुष्टौ, स्तुवन्ति देवौ सकलार्तिहारिणौ ॥६॥
आदित्या वसवो रुद्रा मरुतो लोकपालकाः ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशंकरौ ॥७॥
संगमेषु प्रसिद्धेषु नित्यं सप्तसु नारद ।
समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ ॥८॥
गौतमेश्वर आख्यातो यत्र देवो महेश्वरः ।
नित्यं संनिहितस्तत्र माधवो रमया सह ॥९॥
ब्रहमेश्वर इति ख्यातो मयैव स्थापितः शिवः ।
लोकानामुपकारार्थमात्मनः कारणान्तरे ॥१०॥
चक्रपाणिरिति ख्यातः स्तुतो देवैर्मया सह ।
तत्र संनिहितो विष्णुर्देवैः सह मरुद्गणैः ॥११॥
ऐन्द्रतीर्थमिति ख्यातं तदेव हयमूर्धकम् ।
हयमूर्धा तत्र विष्णुस्तन्मूर्धनि सुरा अपि ॥
सोमतीर्थमिति ख्यातं यत्र सोमेश्वरः शिवः ॥१२॥
इन्द्रस्य सोमश्रवसो देवैश्च ऋषिभिस्तथा ।
प्रार्थितः सोम एवाऽऽदाविन्द्रायेन्दो परिस्रव ॥१३॥
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न इन्द्रायेन्दो परिस्रव ॥१४॥
यत्ते चाजञ्छृतं हविस्तेन सोमाभिरक्ष नः ।
अराती वा मा नस्तारीन्मो च नः किंचनामदिन्द्रयेन्दो परिस्रव ॥१५॥
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः ।
सोमं नमस्य राजानं यो जज्ञेवीरुधां पतिरिन्द्रायेन्दो परिस्रव ॥१६॥
कारुरहं ततो भिषगुपलप्रक्षिणी नना ।
नानाधियोवसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परिस्रव ॥१७॥
एवमुक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे ।
तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः ॥१८॥
तत्सोमतीर्थमाख्यातामाग्नेयं पुरतस्तु तत् ।
अग्निरिष्ट्वा महायज्ञैर्मामाराध्य मनीषितम् ॥१९॥
संप्राप्तवान्मत्प्रसादादहं तत्रैव नित्यशः ।
स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस्तथा ॥२०॥
तस्मादाग्नेयमाख्यातमादित्यं तदनन्तरम् ।
यत्राऽऽदित्यो वेदमयो नित्यमेति उपासितुम् ॥२१॥
रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम् ।
नमस्कार्यस्तत्र सदा मध्याह्ने सकलो जनः ॥२२॥
रूपेण केन सविता समायातीत्यनिश्चयात् ।
तस्मादादित्यमाख्यातं बार्हस्पत्यमनन्तरम् ॥२३॥
बृहस्पतिः सुरैः पूजां तस्मात्तीर्थादवाप ह ।
ईजे च यज्ञान्विविधान्बार्हस्पत्यं ततो विदुः ॥२४॥
तत्तीर्थस्मरणादेव ग्रहशान्तिर्भविष्यति ।
तस्मादप्यपरं तीर्थमिन्द्रगोपे नगोत्तमे ॥२५॥
प्रतिष्ठितं महालिङ्गं कस्मिश्चित्कारणान्तरे ।
हिमालयेन तत्तीर्थमद्रितीर्थं तदुच्यते ॥२६॥
तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् ।
एवं सा गौतमी गङ्गा ब्रह्माद्रेश्च विनिःसृता ॥२७॥
यावत्सागरगा देवी तत्र तीर्थानि कानिचित् ।
संक्षेपेण मयोक्तानि रहस्यानि शुभानि च ॥२८॥
वेदे पुराणे ऋषिभिः प्रसिद्धा, या गौतमी लोकनमस्कृता च ।
वक्तुं कथं तामतिसुप्रभावामशेषतो नारद कस्य शक्तिः ॥२९॥
भक्त्या प्रवृत्तस्य यथाकथंचिन्नैवापराधोऽस्ति न संशयोऽत्र ।
तस्माच्च दिङ्मात्रमतिप्रयासात्संसूचितं लोकहिताय तस्याः ॥३०॥
कस्तस्याः प्रतितीर्थं तु प्रभावं वक्तुमीश्वरः ।
अपि लक्ष्मीपतिर्विष्णुरलं सोमेश्वरः शिवः ॥३१॥
क्वचित्कस्मिंश्च तीर्थानि कालयोगे भवन्ति हि ।
गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम् ॥३२॥
सर्वत्र सर्वदा पुण्या को न्वस्या गुणकीर्तनम् ।
वक्तुं शक्तस्ततस्तस्यै नम इत्येव युज्यते ॥३३॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये गङ्गासागरसंगमवर्णनं नाम चतुःसप्तत्यधिकशततमोऽध्यायः ॥१७४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP