ब्रह्मपुराणम् - अध्यायः १५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
वृष्णिवंश-वर्णनम्
लोमहर्षण उवाच
क्रोष्टोरथाभवत् पुत्रो वृजिनीवान्महायशाः ।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् ॥१॥
स्वाहिपुत्रोऽभवद्राजा उषद्गुर्वदतां वरः ।
महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः ॥२॥
ततः प्रसूतिमिच्छन् वै उषद्गुःसोऽग्य्रमात्मजम् ।
जज्ञे चित्ररथस्तस्य पुत्रः कर्म्मभिरन्वितः ॥३॥
आसीच्चैत्ररथिर्वोरो यज्वा विपुलदक्षिमः ।
शशविन्दुः परं वृत्तं राजर्षिणामनुष्ठितः ॥४॥
पृथुश्रवाः पृथुयशाः राजासीच्छाशविन्दवः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् ॥५॥
अन्तरस्य सुथज्ञस्तु सुयज्ञतनयोऽभवत् ।
उषतो यज्ञमखिलं स्वधर्म्मे च कृतादरः ॥६॥
शिनेयुरभवत् पुत्र उषतः शत्रुतापनः ।
मरुतस्तस्य तनयो राजर्षिरभवन्नृपः ॥७॥
मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
चचार विपुलं धर्म्मममषति प्रत्यभागपि ॥८॥
स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः ॥९॥
निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥१०॥
जज्ञे ज रुक्मकवचात् परिजित्परवीरहा ।
जज्ञिरे पञ्च चपत्रास्तु महावीर्य्याः पराजिताः ॥११॥
रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
पातितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥१२॥
रुक्मेषुरभवद्राजा पृथुर्क्मस्य संश्रयात् ।
ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसदाश्रमे ॥१३॥
प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः ।
जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥१४॥
नर्म्मदाकूलमेकाकीमेकलां मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥१५॥
ज्यामघस्याभवद्भार्य्या शैब्या बलवती सती ।
अपुत्रोऽपि स राजा वै नान्यां भार्य्यामविन्दता ॥१६॥
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः॥
भार्य्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः ॥१७॥
एतच्छ्रुत्वाब्रवीद्देवी कस्य देव स्नुषेति वै ।
अब्रवीत्तदुपश्रुत्य ज्यामघो राजसतमः ॥१८॥
राजोवाच
यस्ते जनिष्यते पुत्रास्तस्य भार्य्यापपादिता ॥१९॥
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥२०॥
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ ।
पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारवौ ॥२१॥
भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् ।
कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापनवान् ॥२२॥
घृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ।
आवन्तस्च दशार्हश्च बली विषहरश्च सः ॥२३॥
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः ॥२४॥
अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा ।
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ॥२५॥
तस्मात्करम्भः कारम्भिर्दैवरातोऽभवन्नृपः ।
देवक्षत्रोऽभवत्तस्य वृद्धक्षत्रो महायशाः ॥२६॥
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ।
मधूनां वंशकृद्राजा मधुर्मधुरवागपि ॥२७॥
मधोर्जज्ञेऽथ वेदर्भ्यां पुरुद्वान्पुरुषोत्तमः ।
ऐक्ष्वाकी चाभवद्भार्य्या मधोस्तस्यां व्यजायत ॥२८
सत्त्वान् सर्व्वगुणोपेतः सात्वतां कीर्त्तिवर्द्धनः ।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा । १५.२९॥
लोमहर्षण उवाच
सत्त्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् ।
भागिनं भजमानं च दिव्यं देवावृधं नृपम् ॥३० ।
अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् ।
तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्त्तिताः ॥३१॥
भजमानस्य सृञ्जय्यौ ब३ह्यकाथोपबाह्यका ।
आस्तां भार्य्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥३२॥
क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः ।
एते बाह्यकमृञ्जय्यां भजमानाद्विजज्ञिरे ॥३३॥
अयुताजित् सहस्राजिच्छताजित्त्वथ दासकः ।
उपबाह्यकसृञ्जय्यां भजमानद्विजज्ञिरे ॥३४॥
यज्वा देवावृधो राजा चचार विपुलं तपः ।
पुत्रः सर्व्वगुणोपेतो मम स्यादिति निश्चितः ॥३५॥
संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन् ।
सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥३६॥
चिन्तयाभिपरीता सा न जगामैव निश्चयम् ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तममा ॥३७॥
नाध्यगच्छत्तु तां नारीं यस्यामेवंविधः सुतः ।
भवेत्तस्मात् स्वयं गत्वा भवाम्यस्य सहानुगा ॥३८॥
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
वरयामास नृपतिं तामियेष च स प्रभुः ॥३९॥
तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः ।
अथ सा दशमे मासि सुषुवे सरितां वरा ॥४०॥
पुत्रं सर्व्वगुणोपेतंम बभ्रुं देवावृधं द्विजाः ।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥४१॥
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः ।
यथैवाग्रे तथा दूरात्पश्यामस्तावदन्तिकात् ॥४२॥
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
षष्टिस्च षट् च पुरुषाः सहस्राणि च सप्त च ॥४३॥
एतेऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधादपि ।
यज्जा दानपतिर्धीमान् ब्रह्मण्यः सुदृढायुधः ॥४४॥
तस्यान्ववायः सुमहान्भोजा ये सार्त्तिकावताः ।
अन्धकात्काश्यदुहिता चतुरोऽलभतात्मजान् ॥४५॥
कुकुरं भजमानं च ससकं बलबर्हिषम् ।
कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा ॥४६॥
कपोतरोमा तस्याथ तिलिरिस्तनयोऽभवत् ।
जज्ञे पुनर्व्वसुस्तस्मादभिजिच्च पुनर्व्वसोः ॥४७॥
तथा वै पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकझ श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ ॥४८॥
इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् ।
श्वेतेन पिरवारेण किशोरप्रतिमो महान् ॥४९॥
अशीतिवर्म्मणा युक्ता आहुकः प्रथमं व्रजेत् ।
नापुत्रवान्नाशतदो नासहस्रशतायुषः ॥५०॥
नाशुद्धकर्म्मा नायज्वा यो भोजमभितो व्रजेत् ।
पूर्व्वस्यां दिशि नागानां भोजस्य प्रययुः किल ॥५१॥
सोमात्सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम ।
रथानां मेघघोषाणां सहस्राणि दशैव तु ॥५२॥
रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ।
तावत्येव सहस्राणि उत्तरस्यां तथा दिशि ॥५३॥
आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः ।
आहुः किं चाप्यवन्तिभ्यः स्वासारं ददुरन्धकाः ॥५४॥
आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥५५॥
देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः ।
देववानुपदेवश्च संदेवो देवरक्षितः ॥५६॥
कुमार्य्यः सप्त चास्याथ वसुदेवाय ता ददौ ।
देकी शान्तिदेवा च सुदेवा देवरक्षिता ॥५७॥
वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी ।
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्व्वजः ॥५८॥
न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः ।
राष्ट्रपालोऽथ सुतनुरनावृष्टिस्तु पुष्टिमान् ॥५९॥
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ।
सुतन् राष्टपाली च कङ्ता चैव वराङ्गना ॥६०॥
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥६१॥
आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥६२॥
इति श्रीब्राह्मे महापुराणे वृष्णिवंशनिरूपणं नाम पञ्चदशोऽध्यायः॥१५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP