ब्रह्मपुराणम् - अध्यायः ६३
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ त्रिषष्टितमोऽध्यायः
पञ्चतीर्थोमाहात्म्यनिरूपणम्
ब्रह्मोवाच
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं यज्ञाङ्गसंभवम् ।
इन्द्रद्युम्नसरो नाम यत्राऽऽस्ते पावनं शुभम् ॥१॥
गत्वा तत्र शुचिर्धीमानाचम्य मनसा हरिम् ।
ध्यात्वोपस्थाय च जलमिमं मन्त्रमुदीरयेत् ॥२॥
अश्वमेधाङ्गसंभूत तीर्थं सर्वाघनाशन ।
स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते ॥३॥
एवमुच्चार्य विधिवत्स्नात्वा देवानृषीन्पितॄन् ।
तिलोदकेन चान्यांश्च संतर्प्याऽऽचम्य वाग्यतः ॥४॥
दत्त्वा पितॄणां पिण्डांश्च संपूज्य पुरुषोत्तमम् ।
दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः ॥५॥
सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत् ।
कामगेन विमानेन विष्णुलोकं स गच्छति ॥६॥
भुक्त्वा तत्र सुखान्भोगान्यावच्चन्द्रार्कतारकम् ।
च्युतस्तस्मादिहाऽऽयातो मोक्षं च लभते ध्रुवम् ॥७॥
एवं कृत्वा पञ्चतीर्थोमेकादश्यामुपोषितः ।
ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत्पुरुषोत्तम् ॥८॥
स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाऽच्युतालये ।
प्रयाति परमं स्थानं यस्मान्नाऽऽवर्तते पुनः ॥९॥
मुनय ऊचुः
मासानन्यान्परित्यज्य माघादीन्प्रपितामह ।
प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो ॥१०॥
ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
ज्येष्ठं मासं तथा तेभ्यः प्रशंसामि पुनः पुनः ॥११॥
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ।
पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥१२॥
नानानद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे ।
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा ॥१३॥
स्नानदानादिकं तस्माद्देवताप्रेक्षणं द्विजाः ।
यत्किंचित्क्रियते तत्र तस्मिन्कालेऽक्षयं भवेत् ॥१४॥
शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः ।
हरते दश पापानि तस्माद्दशहरा स्मृता ॥१५॥
यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां सुसंयतः ।
सर्वपापाविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥१६॥
उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोत्तमम् ।
दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन्नरः ॥१७॥
नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।
फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥१८॥
विषुवद्दिवसे प्राप्ते पञ्चतीर्थोविधानतः ।
कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः ॥१९॥
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥२०॥
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् ।
वैशाखस्यासिते पक्षे स यात्यच्युतमन्दिरम् ॥२१॥
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत्पुरुषोत्तमम् ।
कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥२२॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे पञ्चतीर्थोमाहात्म्निरूपणं नाम त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP