ब्रह्मपुराणम् - अध्यायः २०४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
इन्द्रकृष्णसंवादवर्णनम्
व्यास उवाच
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवोचेदं द्विजोत्तमाः ॥१॥
श्रीभगवानुवाच
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवैतदपराधकृतं मम ॥२॥
पारिजाततरुचायं नीयतामचितास्पदम् ।
गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥३॥
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया ।
तवैवैतत्प्रहरणं शक्रवैरिविदारणम् ॥४॥
शक्र उवाच
विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतोऽनन्तसौख्यविदो वयम् ॥५॥
यऽसि सोऽसि जगन्नाथ प्रवृतौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्ष करोष्यसुरसूदन ॥६॥
नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् ।
मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥७॥
व्यास उवाच
तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः ।
प्रयुक्तैः सिद्धागन्धर्वैः स्तूयमानस्त्वथर्षिभिः ॥८॥
जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् ।
ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ॥९॥
हर्षमुत्पादयामास द्वारकावासिनां द्विजाः ।
अवतीर्याथ गरुडात्सत्यभामासहायवान् ॥१०॥
निष्कुटे स्थापयामास पारिजातं महातरुम् ।
यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥११॥
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ।
ततस्ते यादवाः सर्वे देवगन्धानमानुषान् ॥१२॥
ददृशुः पादपे तस्मिन्कुर्वतो मुखदर्शनम् ।
किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥१३॥
स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात् ।
ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥१४॥
ताः कन्या नरकावासात्सर्वतो याः समाहृताः ।
एकस्मिन्नेव गोविन्दः कालेनाऽऽसां द्विजोत्तमाः ॥१५॥
जग्राह विधिवत्पाणीन्पृथग्देहे स्वधर्मतः ।
षोडश स्त्रीसहस्राणि शतमेकं तथाऽधिकम् ॥१६॥
तावन्ति चक्रे रूपाणि भगवान्मधुसूदनः ।
एकैकशश्च ताः कन्या मेनिरे मधुसूदनम् ॥१७॥
ममैव पाणिग्रहणं गोविन्दः कृतवानिति ।
निशासु जगतः स्रष्टा तासां गेहेषु केशवः ॥
उवास विप्रा सर्वासां विश्वरूपधरो हरिः ॥१८॥
इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते चतुरधिकद्विशततमोऽध्यायः ॥२०४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP