ब्रह्मपुराणम् - अध्यायः १३६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
विष्णुतीर्थवर्णनम्
ब्रह्मोवाच
विष्णुतीर्थमिति ख्यातं तत्र वृत्तमिदं श्रृणु ।
मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥१॥
तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी ।
पिता ऋषिस्तथा वृद्धो मुद्गलो लोकविश्रुतः ॥२॥
तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा ।
स मौद्गल्यः प्रातरेव गङ्गां स्नाति यतव्रतः ॥३॥
नित्यमेव त्विदं कर्म तस्याऽऽसीन्मुनिसत्तम ।
गङ्गातीरे कुशैर्मृद्भिः शमीपुष्पैरहर्निशम् ॥४॥
गुरूदितेन मार्गेण स्वमानससरोरुहे ।
आवाहनं नित्यमेव विष्मोश्चक्रे स मौद्गलिः ॥५॥
तेनाऽऽहूतस्त्त्वरन्नेति लक्ष्मीभर्ता जगत्पतिः ।
वैनतेयमथाऽऽरूह्य शङ्खचक्रगदाधरः ॥६॥
पूजितस्तेन ऋषिणा स मौद्गल्येन यत्नतः ।
प्रब्रूते च कथाश्चित्रा मौद्गल्याय जगत्प्रभुः ॥७॥
ततोऽपराह्मसमये विष्णुः प्राह स मौद्गलिम् ।
याहि वत्स स्वभवनं श्रान्तोऽसीति पुनः पुनः ॥८॥
एवमुक्तः स देवेन विष्णुना याति स द्विजः ।
जगत्प्रभुस्ततो याति देवैर्युक्तः स्वमन्दिरम् ॥९॥
मौद्गल्योऽपि तथाऽभ्येत्य किंचिदादाय नित्यशः ।
स्वमेव भवनं विद्वान्भार्यायै स्वार्जितं धनम् ॥१०॥
ददाति स महाविष्णुचरणाब्जपरायणः ।
मौद्गल्यस्य प्रिया साऽपि पतिव्रतपरायणा ॥११॥
शाकं मूलं फलं वाऽपि भर्त्राऽऽनीतं तु यत्नतः ।
सुसंस्कृत्याप्यतिथीनां बालानां भर्तुरेव च ॥१२॥
दत्त्वा तु भोजनं तेभ्यः पश्चाद्भुङ्क्ते यतव्रता ।
भुक्तवत्स्वथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥१३॥
विष्णोः श्रुताः कथाश्चित्रास्तेभ्यो वक्त्यथ हर्षितः ।
एवं बहुतिथे काले व्यतीते चातिविस्मिता ॥
मौद्गल्यस्य रहो भार्या भर्तारं वाक्यमब्रवीत् ॥१४॥
जाबालोवाच
यदि ते विष्णुरभ्येति समीपं त्रिदशार्चितं ।
तथाऽपि कष्टमस्माकं कस्मादिति जगत्प्रभुम् ॥१५॥
तत्पृच्छ त्वं महाप्राज्ञ यदाऽसौ विष्णुरेति च ।
यस्मिश्च स्मृतमात्रे तु जराजन्मरूजो मृतिः ॥
नाशं यान्ति कुतो दृष्टे तस्मात्पृच्छ जगत्पतिम् ॥१६॥
ब्रह्मोवाच
तथेत्युक्त्वा प्रियावाक्यान्मौद्गल्यो नित्यवद्धरिम् ।
पूजयित्वा विनीतश्च पप्रच्छ स कृताञ्जलिः ॥१७॥
मौद्गल्य उवाच
त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् ।
नाशं याति विपत्तिर्मे त्वयि दृष्टे कथं स्थिता ॥१८॥
श्रीविष्णुरुवाच
स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा ।
न कोऽथि कस्याचित्किंचित्करोत्यत्र हिताहिते ॥१९॥
यादृशं चोप्यते बीजं फलं भवति तादृशम् ।
रसालः स्यान्न निम्बस्य बीजाज्जात्वपि कुत्रचित् ॥२०॥
न कृता गौतमीसेवा नार्चितौ हरिशंकरौ ।
न दत्तं यैश्च विप्रेभ्यस्ते कथं भाजनं श्रियः ॥२१॥
त्वया न दत्तं किंचिच्च ब्राह्मणेभ्यो ममापि च ।
यद्दीयते तदेवेह परस्मिंश्चोपतिष्ठति ॥२२॥
मृद्भिर्वार्भिः कुशैर्मन्त्रैः शुचिकर्म सदैव यत् ।
करोति तस्मात्पूतात्मा शरीरस्य च शोषणात् ॥२३॥
विना दानेन न क्वापि भोगावाप्तिर्नृणां भवेत् ।
सत्कर्माचरणाच्छुद्धो विरक्तः स्यात्ततो नरः ॥२४॥
ततोऽप्रतिहतज्ञानो जीवन्मुक्तस्ततो भवेत् ।
सर्वेषां सुलभा मुक्तिर्मद्भक्त्या चेह पूर्ततः ॥२५॥
भुक्तिर्दानादिना सर्वभूतदुःखनिबर्हणात् ।
अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥२६॥
मौद्गल्य उवाच
भक्त्या मुक्तिः कथं भूयाद्भुक्तेर्मुक्तिः सुदुर्लभा ।
जाता चेद्देहिनां मुक्तिः किमन्येन प्रयोजनम् ॥२७॥
भक्त्या मुक्तिः सर्वपूज्या तामिच्छेयं जगन्मय ॥२८॥
विष्णुरुवाच
एतदेवान्तरं ब्रह्मन्दीयते मामनुस्मरन् ।
ब्राह्मणायाथवाऽर्थिभ्यस्तदेवाक्षयतां व्रजेत् ॥२९॥
मामध्यात्वाऽथ यद्दद्यात्तत्तन्मात्रफलप्रदम् ।
तत्पुनर्दत्तमेवेह न भोगायात्र कल्पते ॥३०॥
तस्माद्दही महाबुद्धे भोज्यं किंचिन्मम ध्रुवम् ।
अथवा विप्रमुख्याय गौतमीतीरमाश्रितः ॥३१॥
ब्रह्मोवाच
मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते ।
नान्यत्किंचन देहादि यत्तत्त्वयि समर्पितम् ॥३२॥
ततो विष्णुर्गरुत्मन्तं प्राह शीघ्रं जगत्पतिः ।
इहाऽऽनयस्व कणिशं ममायं चार्पयिष्यति ॥३३॥
ततो योग्यानयं भोगान्प्राप्स्यते मनसः प्रियान् ।
आकर्ण्य स्वामिनाऽऽदिष्टं तथा चक्रे स पक्षिराट् ॥३४॥
विष्णुहस्ते कणान्प्रादात्स मौद्गल्यो यतव्रतः ।
एतस्मिन्नन्तरे विष्णुर्विश्वकर्माण्मब्रवीत् ॥३५॥
यावच्चास्य कुले सप्त पुरुषास्तावदेव तु ।
भवितारो महाबुद्धे तावत्कामा मनीषिताः ॥
गावो हिरण्यं धान्यानि वस्त्राण्याभरणानि च ॥३६॥
ब्रह्मोवाच
यच्च किंचिन्मनःप्रीत्यै लोके भवति भूषणम् ।
तत्सर्वमाप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥३७॥
गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस्ततो ययौ ।
आश्रमे स्वस्य सर्वर्धिं दृष्ट्वा ऋषिरभाषत ॥३८॥
ऋषिरुवाच
अहो दानप्रभावोऽयमहो विष्णोरनुस्मृतिः ।
अहो गङ्गाप्रभावश्च कौर्विचार्यो महानयम् ॥३९॥
ब्रह्मोवाच
मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश्च बन्धुभिः ।
पितृभ्यां बुभुजे भोगान्भुक्तिं मुक्तिमवाप च ॥४०॥
ततः प्रभृति तत्तीर्थं मौद्गल्यं वैष्णवं तथा ।
तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥४१॥
तत्र श्रुतिः स्मृतिर्वाऽपि तीर्थस्य स्यात्कथंचन ।
तस्य विष्णुर्भवेत्प्रीतः पापैर्मुक्तः सुखी भवेत् ॥४२॥
एकादश सहस्राणि तीर्थानां तीरयोर्द्वयोः ।
सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥४३॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये मौद्गल्यविष्णुतीर्थाद्येकादशसहस्रतीर्थवर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥१३६॥
गौतमीमाहात्म्ये सप्तषष्टितमोऽध्यायः ॥६७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP