संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४१

ब्रह्मपुराणम् - अध्यायः ४१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


एकाम्रकक्षेत्रमाहात्म्यकथनम्
लोमहर्षण उवाच
गुत्वैवं वै मुनिक्षेष्ठाः कथां पापप्रणशिनीम् ।
रुद्रक्रोधोद्‌भवां पुण्यां व्यासस्य वदतो द्विजाः ॥१॥

पार्वत्याश्च तथा रोषं क्रोधं शंभोश्च दुःसहम् ।
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च संभवम् ॥२॥

दक्षयज्ञविनाशं च वीर्यं शंभोस्तथाऽद्‌भुतम् ।
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः ॥३॥

यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः ।
हृष्टा बभूवुः संप्रीता विस्मितास्च पुनः पुनः ॥४॥

पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः ।
पृष्टः प्रोवाच तान्व्यासः श्रेत्रमेकाम्रकं पुनः ॥५॥

व्यास उवाच
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः ।
प्रशशंसुस्तदा दृष्टा रोमाञ्चिततनूरुहा ॥६॥

ऋषय ऊचुः
अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम् ।
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा ॥७॥

एकाम्रकं क्षेत्रवरं वक्तुमर्हसि सांप्रतम् ।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥८॥

व्यास उवाच
तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः ।
प्रोवाच शंभोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम् ॥९॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम् ॥१०॥

लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् ।
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम् ॥११॥

एकाम्रावृक्षस्तत्राऽऽसीत्पुरा कल्पे द्विजोत्तमाः ।
नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम् ॥१२॥

हृष्टपुष्टजनाकौर्णं नरनारीसमन्वितम् ।
विद्वांसग(द्यावद्‌गः णभूयिष्ठं धनधान्यादिसंयुतम् ॥१३॥

गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम् ।
नानावणिक्समाकीर्णं नानारत्नोपशोभितम् ॥१४॥

पुराट्टालकसंयुक्तं रथिभिः समलंकृतम् ।
राजहंसनिभैः शुभ्रैः प्रसादैरुपशोभितम् ॥१५॥

मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् ।
रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम् ॥१६॥

सितरक्तैस्तथा पीतैः कृष्मश्यामैस्च वर्णकैः ।
समीरणोद्धताभिश्च पताकाभिरलंकृतम् ॥१७॥

नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः ।
वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम् ॥१८॥

देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डिनैः ।
पूजाविचित्ररचितः सर्वत्र समलंकृतम् ॥१९॥

स्त्रियः प्रमुदितास्तत्र दृस्यन्ते तनुमध्यमाः ।
हारैरलंकृतग्रीवाः पद्मपत्रायतेक्षणाः ॥२०॥

पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः ।
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः ॥२१॥

सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः ।
सर्वलक्षणसपन्नाः सर्वाभरमभूषिताः ॥२२॥

दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसंनिभाः ।
हंसवारणगामिन्यः कुचभारावनामिताः ॥२३॥

दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः ।
मदालसाश्च सुश्रेण्यो नित्यं प्रहसिताननाः ॥२४॥

ईषद्विस्पष्टदशना बिम्भोष्ठा मधुरस्वराः ।
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः ॥२५॥

सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः ।
दिव्यवस्त्रधराः सर्वाः सदा चारि६मण्डिताः ॥२६॥

क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः ।
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः ॥२७॥

पुरुषास्तत्र दृस्यन्ते रूपयौवनगर्विताः ।
सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः ॥२८॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः ।
स्वधर्मनिरतास्तत्र निवसन्ति सुधार्म्काः ॥२९॥

अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः ।
घृताचीमेनकातुल्यास्तता समतिलोत्तमाः ॥३०॥

उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा ।
विश्वाचीसहजन्याओभाः प्रम्लोचासदृशास्तथा ॥३१॥

सवर्सिताः प्रियवादिन्यः सर्वा विहसिताननाः ।
कलाकौशलसंयुक्ताः सवस्तिः गुणसंयुताः ॥३२॥

एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः ।
निवसन्ति मुनिश्रेष्ठा सर्वस्त्रीगुणगर्विताः ॥३३॥

प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः ।
न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः ॥३४॥

यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः ।
न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः ॥३५॥

न रोगिणो न मलिना न कदर्या न मायिनः ।
न रूपहीना दुर्वृत्ता न परद्रोहकारिणः ॥३६॥

तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते ।
सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम् ॥३७॥

नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् ।
कर्णिकारैश्च पनसैश्चम्पकैनगिकेसरैः ॥३८॥

पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः ।
चूतनिम्बकदम्वैश्च तथाऽन्यैः पुष्पजातिभिः ॥३९॥

नीपकैर्धवखदिरैर्लताभश्च विराजितम् ।
शालैस्तालैस्तमालैश्च नारिकेलैः शुभञ्जनैः ॥४०॥

अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः ।
लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः ॥४१॥

पलाशैमुचुकुन्दैश्च पारिजातैः सकुब्जकैः ।
कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा ॥४२॥

केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः ।
मन्दारकुन्धृदपुष्पैश्च तथाऽन्यैः पुष्पजातिभिः ॥४३॥

नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः ।
फलभारानतैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥४४॥

चकेरैः शतपत्रैश्च भृङ्गराजैश्च कोकिलैः ।
कलविङ्कैर्मयूरैस्च प्रियपुत्रैः शुकैस्तथा ॥४५॥

जीवंजीवकहारीतैस्चातकैर्वनवेष्टितैः ।
नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः ॥४६॥

दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः ।
नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः ॥४७॥

कुमुदैः पुण्डरीकैश्च था नीलोत्पलैः शुभैः ।
कादम्बैस्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥४८॥

कारण्डवैः प्लवैर्हंसैस्तथाऽन्यैर्जलचारिभिः ।
एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः ॥४९॥

नानाजलाशयैः पुण्यैः शौभितं तत्समन्ततः ।
आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः ॥५०॥

हताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः ।
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च ॥५१॥

पुष्करिण्यस्तडागानि वाप्यः सर्वसुरैः सह ।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः ॥५२॥

सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह ।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः ॥५३॥

चकार ऋषिभिः सार्धं बिन्दुसरः स्मृतम् ।
अष्टम्यां वहुले पक्षे मागशीर्षे द्विजोत्तमाः ॥५४॥

यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः ।
विधिवद्विन्दुसरसि स्नात्वा श्रद्धासमन्वितः ॥५५॥

देवानृषीन्मनुष्यांश्च पितॄन्संतर्प्य वाग्यतः ।
तिलादकेन विधिना नामगोत्रविधानवित् ॥५६॥

स्नात्वैवं विधिवत्तत्र सोऽश्वमेधफलं लभेत् ।
ग्रहोपरागे विषुवे संकान्त्यामयने तथा ॥५७॥

युगादिषु षडशीत्यां तथाऽन्यत्र शुबे तिथौ ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम् ॥५८॥

अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै ।
पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे ॥५९॥

पितृणामक्षयां तृप्तं ते कुर्वन्ति न संशयः ।
ततः शंभोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः ॥६०॥

प्रविश्य पूज्येच्चर्वं कृत्वा तं त्रिःप्रदक्षिणम् ।
घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः ॥६१॥

चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च ।
ततः संपूजयेद्‌देवं चन्द्रमौलिमुमापतिम् ॥६२॥

पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः ।
आगमोक्तेन मनत्रेण वेदोक्तेन च शंकरम् ॥६३॥

अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत् ।
एवं संपूज्य तं देवं गन्धपुष्पानुरागिभिः ॥६४॥

धूपदीपैश्व नैवेद्यैरूपहारैस्तथा स्तवैः ।
दण्डवत्प्रणिपातैस्च गीतैर्वाद्यैर्मनोहरैः ॥६५॥

नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः ।
एवं संपूज्य विधिवद्‌देवदेवमुमापतिम् ॥६६॥

सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः ।
कूलैकविंशमुद्धृत्य दिव्याभरणभूषितः ॥६७॥

सोवर्णेन विमानेन किङ्किणीजालमालिना ।
उवगीयमानो गन्धर्वैरप्सरोभिरलंकृतः ॥६८॥

उद्येतयन्दिशः सर्वाः शिवलोकं स गच्छति ।
भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम् ॥६९॥

तल्लोकवासिभिः सार्धं यावदाभूतसंप्लवम् ।
ततस्तस्मादिहाऽऽयातः पृथिव्यां पुण्यसंक्षये ॥७०॥

जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः ।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात् ॥७१॥

शयनोत्थापने गेहे संक्रान्त्यामयने तथा ।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा ॥७२॥

ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम् ।
विमानेनार्कवर्णन शिवलोकं व्रजन्ति ते ॥७३॥

सर्वनोत्थापने चैव संक्रान्त्यामयने तथा ।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा ॥७४॥

देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा ।
योजनद्वितयं सार्धं क्षेत्रं तद्‌भुक्तिमुक्तिदम् ॥७५॥

तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम् ।
पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम् ॥७६॥

आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् ।
सर्वपापविनिर्मुक्ता विमानवरमास्थिता ॥७७॥

उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते ।
तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः ॥७८॥

भक्त्वा तु विपुलान्भोगाञ्छिवलोके मनोरमान् ।
पुण्यक्षयादिहाऽऽयाता जायनते प्रवरे कुले ॥७९॥

अथवा योगिनां गेहे वेदवेदाङ्गपारगाः ।
उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः ॥८०॥

मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः ।
योगं शंभोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते ॥८१॥

तस्मिन्क्षेवरे पुण्ये लिङ्गं यद्‌दृश्यते द्विजाः ।
पूज्यपूज्यं च सर्वत्र वने रथ्याऽन्तरेऽपि वा ॥८२॥

चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति ।
दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः ॥८३॥

स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः ।
धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः ॥८४॥

दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा ।
संपूज्यैवं विधानेन शिवलोकं व्रजेन्नरः ॥८५॥

नारी वा द्विजशार्दूलाः संपूद्य श्रद्धयाऽन्विता ।
पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा ॥८६॥

कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः ।
तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात् ॥८७॥

तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाऽश्रद्धयाऽपि वा ।
माधवादिषु मासेषु नरो वा यदिवाऽङ्गना ॥८८॥

यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा विन्दुसरोम्भसि ।
पश्येद्‌देवं विरूपाक्षं देवीं च वरदां शिवाम् ॥८९॥

गणं चण्डं कार्तिकेयं गणेशं वृषभं तथा ।
कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥९०॥

स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने ।
प्राप्नोत्यभिमतान्कामाञ्छिवलोकं स गच्छति ॥९१॥

यः स्तम्भं तत्र विधिवत्करोति नियतेन्द्रियः ।
कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति ॥९२॥

एकाम्रके शिवक्षेत्रे वारणसीसमे शुभे ।
स्नानं करोति यस्तत्र मोक्षं स लभते श्रुवम् ॥९३॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवाद एकाम्रक्षेत्रमाहात्म्यवर्णनं नामै कचत्वारिंशोऽध्यायः॥ ४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP