संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २१

ब्रह्मपुराणम् - अध्यायः २१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ पातालप्रमाणवर्णनम्
लोमहर्षण उवाच
विस्तार एष कथितः पृतिव्या मुनिसत्तमाः ।
सप्ततिस्तु सहस्राणि तदुच्छ्रयोऽपि क्थ्यते ॥१॥

दशसाहस्रमेकैकं पातालं मुनिसत्तमाः ।
अतलं वितलञ्चैव नितलं सुतलं तथा ॥२॥

तलातलं रसातलं पातालञ्चापि सप्तमम् ।
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनो ॥३॥

भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः ।
तेषु दानवदैतेयजातयः शतशः स्थिताः ॥४॥

नागानाञ्च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः ।
स्वर्लोकादपि रम्याणि पातालानीति नारद ॥५॥

प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् ।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥६॥

नागाभरणभूषाश्च पातालं केन तत्समम् ।
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥७॥

पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ।
दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥८॥

शशिनश्च न शीताय निशि द्योताय केवलम् ।
भक्ष्यभोज्यमहापानमदमत्तैश्च भोगिभिः ॥९॥

यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः ।
वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥१०॥

पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बरामि च  ।
भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम् ॥११॥

वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः ।
एतान्यन्यानिरम्याणि गन्धाद्यञ्चानुलेपनम् ॥१२॥

दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ।
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥१३॥

शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ।
योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥१४॥

सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः ।
फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥१५॥

सर्व्वान् करोति निर्वोर्य्यातन् हिताय जगतोऽसुरान् ।
मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः ॥१६॥

किरीटो स्रग्धरो भाति साग्निश्वेत इवाचलः ।
नीलवासा मदोत्सिक्तः श्वेतहारोपसोभितः ॥१७॥

साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः ।
लांगलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम् ॥१८॥

उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया ।
कल्पान्ते यस्य वक्‌त्रेभ्यो विषानलशिखोज्ज्वलः ॥१९॥

संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ।
स विभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥२०॥

आस्ते पातालमूलस्थः शेषोऽशेषसुरार्च्चितः ।
तस्य वीर्य्यं प्रभावश्च स्वरूपं रूपमेव च ॥२१॥

न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥२२॥

आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ।
यदा विजृम्भतेऽनन्तो मदाधूर्णितलोचनः ॥२३॥

तदा चलति भूरेषा साद्रितोयाधिकानना ।
गन्धर्व्वप्सिरसः । सिद्धाः किन्नरोरगवारणाः ॥२४॥

नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः ।
यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥२५॥

मुहुः श्वासानिलायस्तं याति दिक्‌पटवासताम् ।
यमाराध्य पुराणर्षिर्गर्गौ ज्योतींषि तत्त्वतः ॥२६॥

ज्ञातवान् सकलं चैव निमित्तपठितं पलम् ।
तेनेयं नागवर्य्येण शिरसा विधृता महो ।
बिभर्ति सकलाल्लो कान् स देवासुरमानुषान् ॥२७॥

इति श्रीब्राह्मे महापुराणे पातालप्रमाणकीर्त्तनं नामैकविंशोऽध्यायः॥ २१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP